पूर्वम्: ७।२।५६
अनन्तरम्: ७।२।५८
 
सूत्रम्
सेऽसिचि कृतचृतच्छृदतृदनृतः॥ ७।२।५७
काशिका-वृत्तिः
से ऽसिचि कृतचृतच्छृदतृदनृतः ७।२।५७

सकारादावसिचि आर्धधातुके कृत चृत छृद तृद नृत इत्येतेभ्यो धातुभ्यो वा इडागमो भवति। कृत कर्त्स्यति। अकर्त्स्यत्। चिकृत्सति। कर्तिष्यति। अकर्तिष्यत्। चिकर्तिषति। चृत चएत्स्यति। अचर्त्स्यत्। चिचृत्सति। चर्तिष्यति। अचर्तिष्यत्। चिचर्तिषति। छृद छर्त्स्यति। अच्छर्त्स्यत्। चिच्छृत्सति। छर्दिष्यति। अच्छर्दिष्यत्। चिछर्दिषति। तृद तर्त्स्यति। अतर्त्स्यत्। तितृत्ससि। तर्दिष्यति। अतर्दिष्यत्। तितर्दिषति। नृत नर्त्स्यति। अनर्त्स्यत्। निनृत्सति। नर्तिष्यति। अनर्तिष्यत्। निनर्तिषति। से इति किम्? कर्तिता। असिचि इति किम्? अकर्तीत्।
लघु-सिद्धान्त-कौमुदी
सेऽसिचि कृतचृतच्छृदतृदनृतः ६३३, ७।२।५७

एभ्यः परस्य सिज्भिन्नस्य सादेरार्धधातुकस्येड्वा। नर्तिष्यति, नर्त्स्यति। नृत्यतु। अनृत्यत्। नृत्येत्। नृत्यात्। अनर्तीत्। अनर्तिष्यत्, अनर्त्स्यत्॥ त्रसी उद्वेगे॥ ४॥ वा भ्राशेति श्यन्वा। त्रस्यति, त्रसति। तत्रास॥
न्यासः
सकेऽसिचि कृतचृतच्छृदतृदनृतः। , ७।२।५७

"कृती छेदने" (धा।पा।१४३५) इति तौदादिकः, "कृती वेष्टने" (धा।पा।१४४७) इति रौधादिकः--विशेषानुपादनाद्द्वयोरपि ग्रहणम्()। "चृती हिंसासंग्रन्थयोः" ["हिंसाश्रन्थनयोः"--धा।पा।] (धा।पा।१३२४), उ छृदिर्? दीप्तिदेवनयोः" (धा।पा।१४४५), "उ तृदिर्? हिंसादानयोः" ["हिंसाऽनादरयोः"--धा।पा।] (धा।पा।१४४६)। उकारौ "उदितो वा" ७।२।५६ इति विशेषणार्थो। इकाररेफावपि "इरितो वा" ३।१।५७ इति विशेषणार्थादेव। "नृती गात्रविक्षेपे" (धा।पा।१११६)। सर्वेवामेषानुदात्तत्वान्नित्यमिटि प्राप्ते सिचोऽन्यत्र सकारादौ विकल्पार्थं वचनम्()। "से" इत्येतस्याकारोच्चारणमतन्त्रम्(); अविवक्षितत्वात्()। तेन स्येऽपरि विकल्पो भवति। अतन्त्रत्वं तु पुनरस्य "असिचि" इति सिचः प्रतिषेधाद्विज्ञेयम्()। यदि ह्रतन्त्रमकारोच्चारणम्(), एवं सति "स्वसिचि" इत्येवं कस्मान्नोक्तम्()? सन्देहभयात्()। एवं ह्रुच्यमाने "स्ये सिचि च" इत्येषोऽप्यर्थ आशङ्क्येत। "सेऽसिचि" इत्युच्यमाने तु सप्तमीद्वयोरुपादानात्? सिज्विर्जिते सकारादावित्यभिमतोऽर्थो विज्ञायते। नन्वत्रापि सन्देहः स्यात्()--एवमुच्यमाने किमर्थं सिचि न वेति? यदि हि सिच्यपि स्यात्? तदुपादानमनर्थकं स्यात्(), सीत्येवं ब्राऊयात्()। "कत्स्यैति" इति लृट्()। "अकत्स्र्यत्()" इति। लुङ्()। "चिकृत्सति" इति। सन्(), "हलन्ताच्च" १।२।१० इति कित्वाद्गुणाभावः॥
बाल-मनोरमा
सेऽसिचि कृतचृतछृदतृदनृतः ३३५, ७।२।५७

सेऽसिचि। से- असिचीति छेदः। सप्तमी षष्ठ()र्थे। कृत चृत छृत तृद नृत् एषां समाहारद्वन्द्वात्पञ्चमी। "उदितो वे"त्यतो वेति, आद्र्धधातुकस्येडिति चानुवर्तते। तदाह--एभ्य इत्यादिना। नित्यमिटि प्राप्ते विकल्पार्थमिदं वचनम्। अनर्तीदिति। "सेऽसिची"त्युक्तेर्नित्यमिडिति भावः। त्रसी उद्वेगे। "वा जृ()भ्रमुत्रसा"मित्येत्त्वाभ्यासविकल्पौ मत्वाह-- त्रेसतुः तत्रसतुरिति। कुथ पूतीभावे इति। पवित्रीभवने इत्यर्थः, दुर्गन्धकरणे इति वा। "पूतिगन्धस्तु दुर्गन्धः" इत्यमरः। तिम ष्टिम ष्टीमेति। द्वितीयतृतीयौ षोपदेशौ। द्वितीय इदुपधः। तृतीयस्तु ईदुपधः। षह षुहेति। षोपदेशौ। चकार्थस्तृप्तिरिति। यद्पि "चक तृप्तौ प्रतिघाते चे"त्युक्तं तथापि तृप्तिरेवेह विवक्षिता, व्याख्यानात्। षुहेः "नपुंसके भावे क्तः" इति क्तप्रत्यये सुहितशब्दः। सुहितस्तृप्तिरिति "पूरणगुणे"ति सूत्रे कैयटः। जृ()ष् झृ()ष्।सेट्कौ। जीर्यतीति। "ऋत इद्धातो"रिति इत्त्वे "हलि चे"ति दीर्घ इति भावः। अतुसादौ "ऋच्छत्यृ()ता"मिति गुणे रपरत्वे "वा जृ()भ्रमुत्रसा"मित्येत्त्वाभ्यासलोपविकल्प इति भावः। जजरिथ। ""वृ()तो वे"ति मत्वाह-- जरिता जरीतेति। षूङ्। प्रसवः-- उत्पादनम्। षोपदेशोऽयम्। विकल्पमिति। "परमपी"ति शेषः। निषेधे प्राप्ते इति। पुरस्तात्प्रतिषेधकाण्डारम्भसामथ्र्यादिति भावः। दूङ् परितापे इति। पीडने, पीडितीभवने वेत्यर्थः। आद्ये सकर्मकः। द्वितीये अकर्मकः। दीङ् क्षये इति। क्षयो--ह्यस्वो, नाशो वा।

तत्त्व-बोधिनी
सेऽसिचि कृतचृतछृदतृदनृतः २९१, ७।२।५७

सेऽसिचि। नातष्यति। नत्स्र्यतीति। निनर्तिषति। निनृत्सति। कर्तिष्यति। कत्स्र्यति।चिकर्तिषति। चिकृत्सति। इत्यादि ज्ञेयम्। अनर्तीदिति। "असिची"त्युक्तत्वादिह नित्यमिट्। त्रेसतुरिति। वा जृ()भ्रमुत्रसा"मीत्येत्त्वाभ्यासलोपौ। कुथ। पूतीभावः-- पवित्रीभवनम्। कुथ्यति भूमिः। पवित्रीभवतीत्यर्थः। पुष्प विकसने। "कालात्साधुपुष्यत्पच्यमानेष्वि"त्यत्र पुष्यतिः शत्रन्तः। पचाद्यचि पुष्पम्। संज्ञायां कन्। "पुष्पकम्। व्रीड। "गुरोश्च हलः" इत्यप्रत्यये टाप्। व्रीडा। घञि तु व्रीडः। "अत एव व्रीडमावहति मे स संप्रती"ति कालिदासः। "व्रीडादिवाभ्यासगतैर्विलिल्ये" इति माघश्च। षह षुह। "परिनिविभ्यः" इत्यत्र सहेत्यकार उच्चारणार्थ इति षत्वमिह भवति। परिषह्रति। "तीषसहे"तीड्विकल्पस्तु नाऽस्य भवति, "सहे"ति शबन्तनिर्देशात्, किं तु "षह मर्षणे" इत्यस्यैव स इत्यात्रेयादयः। सहेति निर्देशस्योभयत्र तुल्यत्वे "तीषसहे"त्यत्र शपा निर्देशः, "परिनिविभ्यः" इत्यत्र तु नेत्यद्र्धजरतीयमिदं हेयमेव। तत्त्वं तु प्रयोगमनुसृत्य महद्भिरेव निर्धार्यम्। नपुंसके भावे क्तः। सुहतंतृप्तिः। अत एव "पूरणगुणे"ति सूत्रे सुहितार्थास्तृप्त्यर्था इति व्याख्य#आतम्। जेरतुरिति। "ऋच्छत्यृ()ता"मिति गुणे कृते "न शसददे"ति गुणशब्देन भावितस्य निषेधात् "अत एकहल्मध्ये" इत्यपर्वृत्तौ "वा जृ()भ्रमुत्रसा"मित्येत्वाभ्यासलोपविकल्पः। षूङ्। प्रसव उत्पत्तिः। "मृत्पिण्डो घटं सूयते" इत्यादिप्रयोगाऽभावात्प्राणीत्युक्तम्। "स्वादय ओदितः" इति वक्ष्यमाणत्वात् "ओदितश्चे"ति निष्ठातस्य नत्वम्। प्रसूनम्। विकल्पमिति। "परमपी"ति शेषः। निषेधे प्राप्ते इति। पुरस्तात्प्रतिषेधकाण्डारम्भसामथ्र्यादिति भावः।