पूर्वम्: ७।२।५७
अनन्तरम्: ७।२।५९
 
सूत्रम्
गमेरिट् परस्मैपदेषु॥ ७।२।५८
काशिका-वृत्तिः
गमेरिट् परस्मैपदेषु ७।२।५८

गमेर् धातोः सकारादेरार्धधातुकस्य परस्मैपदेसु इडागमो भवति। गमिष्यति। अगमिष्यत्। जिगमिषति। गमेः इति किम्? चेष्यति। इड्ग्रहणं नित्यार्थम्। परस्मैपदेषु इति किम्? संगंसीष्ट। संगंस्यते। संजिगंसते। संजिगंसिष्यते। अधिजिगांसते। अधिजिगांसिष्यते। गमेरिङादेशस्य अज्झनगमां सनि ६।४।१६ इति दीर्घत्वम्। से इत्येव, गन्तास्मि, गन्तास्वः, गन्तास्मः। आत्मनेपदेन समानपदस्थस्य गमेः अयम् इडागमो नेष्यते। अन्यत्र सर्वत्रैवेष्यते। कृत्यपि हि भवति, परस्मैपदलुकि च, संजिगमिषिता, अधिजिगमिषिता व्याकरणस्य, जिगमिष त्वम् इति। पदशेषकारस्य पुनरिदं दर्शनम् गम्युपलक्षणार्थं परस्मैपदग्रहणम्, परस्मैपदेषु यो गमिरुपलक्षितस् तस्मात् सकारादेरार्धधातुकस्य इड् भवति। तन्मतेन संजिगंसिता, अधिजिगंसिता व्याकरणस्य इत्येव भवितव्यम्।
लघु-सिद्धान्त-कौमुदी
गमेरिट् परस्मैपदेषु ५०८, ७।२।५८

गमेः परस्य सादेरार्धधातुकस्येट् स्यात् परस्मैपदेषु। गमिष्यति। गच्छतु। अगच्छत्। गच्छेत्। गम्यात्॥
न्यासः
गमेरिट्? परस्मैपदेषु। , ७।२।५८

"गम्लृ गतौ" (धा।पा।९८२)। गमिरयमनुदात्तत्वादनिट्()। योऽपि "सनि च" (२।४।४७) इति "इण्? गतौ" (धा।पा।१०४५) इत्यस्य गमिरादेशः, यश्च "इण्वदिक इति उक्तव्यम्()" (वा।१६७) इति "इक्? स्मरणे" (धा।पा।१०४७) इत्येतस्य, यश्च "इङश्च" (२।४।४८) इति "इङ्? अध्ययने" (धा।पा।१०४६) इत्येतस्य सोऽपि स्थानिवद्भावादनिडेव स्यात्()। तेभ्यः परस्य सकारादेरार्धधातुकस्य सिज्वर्जितस्येडागमो यथा स्यादित्येवमर्थं वचनम्()। "गमिष्यति, अगमिष्यत्()" इति। अनादेशस्य गमेरुदाहरणम्()। "जिगमिषति" इति। एतत्? तस्येणादेशस्य, इगादेशस्य वा। अथेडिते वत्र्तमाने पुनरिङ्ग्रहणं किमर्थम्()? इत्याह--"इङ्ग्रहणं नित्यार्थम्" इति। तद्धि ["तद्धि पूर्वकमिङ्ग्रहण्()। "उदितो वा" इति वाग्रहणेन प्रकृतमिङ्ग्रहणं सम्बद्धम्(), अतस्तदनुवृत्तौ" इत्यादिः मुद्रितः पाठः] पूर्वकमिङ्ग्रहणं "उदितो वा" ७।२।५६ इति वाग्रहणेन सम्बद्धम्(), अतस्तदनुवृत्तौ तस्याप्यनुवृत्तिः स्यात्(), तथा च विकल्पेनेट्? प्रसज्येत। तस्मात् तन्निवृत्त्यर्थं पुनरिङ्ग्रहणं क्रियेत। "संगंसीष्ट" इति। सम्पूर्वाद्गमेराशिषि लिङ् सीयुट्(), "समो गम्पृच्छि" १।३।२९ इत्यादिनाऽ‌ऽत्मनेपदम्(), "सुट् तिथोः" ३।४।१०७ इति सुट्(), धत्वम्(), ष्टुत्वम्()। "सञ्जिर्गसते" इति। "पूर्ववत्सनः" १।३।६२ इत्यात्मनेषदम्()। "अधिजिगांसते" इति। गमेरिङादेशस्य प्रत्युदाहरणम्()। अथ सञ्चिगंसत इत्यत्र "अज्झनगमां सनि" (६।४।१६) इति दीर्घत्वं कस्मान्न भवति? इत्याह--"गमेरिङादेशस्य" इत्यादि। तद्धि दीर्घत्वमिङादेशस्य गमेरिष्यते, नान्यस्य। तथा हि तत्रोक्तम्()--गमेरिङादेशस्येति वक्तव्यमिति। यदि परस्मैपदेष्वित्युच्यते, तदा कृति परस्मैपदलुकि च न प्राप्नोति? इत्याह--"आत्मनेपदेन" इत्यादि। "समानपदस्थस्य" इति। एकपदस्थस्येत्यर्थः। "अन्यत्र सर्वत्रैवेष्यते" इति। एतच्च "कृत्यपि हि" इत्यादिना विसपष्टीकरोति। "सञ्जिगमिषिता, अधिजिगमिषिता" इति। कृत्युदाहरणे द्वे। "जिगमिव त्वमिति" इति। एतत्? परस्मैपदलुकि। सन्नन्तत्वाद्गमेर्लोट्(), सिप्(), "सेह्र्रपिच्च" ३।४।८७ इति सेहिंरादेशर()#ः, "अतो हेः" ६।४।१०५ इति लुक्()। कथं पुनः परस्मैपदेष्वित्युच्यमाने कृति परस्मैपदलुकि च लभ्यते? एवं मन्यते--योगविभागः कत्र्तव्यः; "गमेरिट" इत्येको भागः, तत्र "से" इत्यनुवत्र्तते--सकारादावार्थधातुके गमेरिडागमो भवति। ततः "परस्मैपदेषु" इति द्वितीयो योगो नियमार्थः। स चायं नियमो यद्यविशेषेण स्यात्? तदा पूर्वयोगोऽनर्थकः स्यात्()। तस्मात्? तुल्यजातीयापेक्षया नियमः, तुल्यजातीयश्च तिङ्()---सिङ्()विषये यदि भयति तदा परस्मैपदेष्वेव, नात्मनेपदेष्विति। ते कृति परस्मैपदलुकि च पूर्वयोगे न भवत्येव; नियमेनाव्यावर्त्तितत्वदिति। "पदशेषकारस्य पनः" इत्यादि। पदशेषकारः पुनरेवं मन्यते---परस्मैपदेष्विति नेयं परसप्तमी, किं तर्हि? विषयसप्तमी, परस्मैपदविषये यो गमिरुपलक्षितः=उपलब्धस्तस्य सकारादावार्धधातुक इड्? भवतीति। एवं च सति योगविभागमन्तरेणापि तन्मतेन परस्मैपदेषु यो गमिरुपलक्षितः, तस्मादसत्यपि परस्मैपदे सर्वत्र कृति परस्मैपदलुकि चेड्? भवत्येव; परस्मैपदपरत्वेन सकारादेरार्धधातुकस्याविशेतत्वात्()। तन्मतेन सञ्चिर्गसिता, अधिजिर्गसिता व्याकरणस्येति भवितव्यमिति; सम्पूर्वस्य, अधिपूर्वस्य च गमेः परस्मैपदेष्वनुपलक्षितत्वात्()। तथा हि--सम्पूर्वाद्गमेः "समो गम्युच्छि" १।३।२९ इत्यादिनाऽ‌ऽत्मनेपदं विहितम्()। अधिपूर्वादपि स्थानिवद्भावात्? "अनुदात्तङितः" १।३।१२ इत्यनेनात्मनेपदमिति॥
बाल-मनोरमा
गमेरिट् परस्मैपदेषु २३६, ७।२।५८

गमेरिट्। "गमे"रिति पञ्चमी। "सेऽसिची"त्यतः से इत्यनुवृत्तेन आद्र्धधातुकस्येत्यनुवृत्तं विशेष्यते। तदादिविधिः। तदाह--गमेः परस्येत्यादिना। "परस्मैपदेष्वि"त्यस्य आत्मनेपदाऽभावे इत्यर्थः। एवं च "संजिगमिषिते"ति तृचि इट् सिध्यति। गमिष्यतीति। गच्छतु अगच्छत्। गच्छेत्। गम्यात्। लुङि विशेषमाह--लृदित्त्वादङिति। "गमहने"ति उपधालोपो नेत्याह-- अनङीति पर्युदासादिति। अगमदिति। लृङि--अगमिष्यत्। सर्पतीति। शपि ऋकारस्य लघूपधगुणः। रपरत्वम्। ससर्पेति। ससृपतुः। ससृपुः। थलि क्रादिनियमान्नित्यमिट्। अजन्तत्वाऽभावादकारवत्त्वाऽभावावच्च नेड्विकल्पः। ससर्पिथ ससृपथुः। ससृप।ससर्प ससृपिव ससृपिम। लुटि तासि लघूपधगुणे रपरे प्राप्ते-- अनुदात्तस्य च। "सृजिदृशो"रित्यतो झल्यमकितीति, "आदेच" इत्यत उपदेशे इति चानुवर्तते। तदाह--उपदेशेऽनुदात्त इत्यादिना। मित्त्वादन्त्यादचः परः। उपदेशे किम्?। क्तप्रत्यये--सृप्तः। रुआप्तेति। सृप्()धातोर्लुटि तासि अमागमे ऋकारस्य यणिति भावः। सर्प्तेति। अमभावेलघूपधगुणे रपरत्वमिति भावः। एवं रुआप्स्यति सर्प्स्यतीति। सर्पतु। असर्पत्। सर्पेत्। सृप्यात्। असृपदिति। लृदित्त्वाच्च्लेरङि सति ङित्त्वान्न ग#उण इति भावः। अरुआप्स्यत्। असर्प्स्यत्। यम उपरमे इति। उपरमो विरमणम्। अनिडयम्। यच्छतीति। "इषुगमियमा"मिति शपि छः। ययाम येमतुः येमुः। थलि भारद्वाजनियमादिट्पक्षे "थलि च सेटी"त्येत्त्वाभ्यासलोपौ। तदाह- येमिथ। ययन्थेति। इडभावे रूपम्। येमथुः येम। ययाम। ययम। येमिव। येमिम। क्रादिनियमादिट्। यन्तेति। यंस्यति। यच्छतु। अयच्छत्। यच्छेत्। यम्यात्। अयंसीदिति। "यमरमे"ति इट्()सकौ। "इट ईटी"ति सिज्लोपः। "नेटी"ति निषेधान्न हलन्तलक्षणा वृद्धिरिति भावः। अयंस्यत्। तप संतापे इति। अनिडयम्। तपति। तताप तेपतुः तेपुः। तेपिथ ततप्थ तेपथुः तेप। तताप ततप तेपिव तेपिम। तप्तेति। तप्स्यति। तपतु। अतपत्। तपेत्। तप्यात्। अताप्सीदिति। हलन्तलक्षणा वृद्धिरिति भावः। अतप्स्यत्। निसस्तपतौ। शेषपूरणेन सूत्रं व्याचष्टे-- षः स्यादिति। "अपदान्तस्य मूर्धन्य" इत्यधिकारादिति भावः। निसः सकारस्य षः स्यात्तपधातौ परत इति यावत्। "अनासेवने" इत्येतद्व्याख्यास्यन्नासेवनशब्दं व्याचष्टे--- पौनः पुन्यमिति। "आसेवन"शब्देन सह नञ्समास इत्यभिप्रेत्याह--ततोऽन्यस्मिन्विषये इति। आदेशत्वाऽभावात्पदान्तत्वाच्च अप्राप्ते वचनम्। निष्टपतीति। निष्कृष्य तपतीत्यर्थः। निसः सस्य षत्वे तकास्य ष्टुत्वेन टः। आसेवने तु न षत्वम्। त्यज हानाविति। हानिरुत्सर्गः। अयमनिट्। त्यजति। तत्याज तत्यजतुः तत्यजुः। संयुक्तहल्मध्यस्थतवादेत्त्वाऽभ्यासलोपौ न। थलि तु भारद्वाजनियमाद्वेट्। तदाह-- तत्यजिथ तत्यक्थेति। इडभावे "चोः कु"रिति भावः। त्यक्तेति। त्यक्ष्यति। त्यजतु। अत्यजत्। त्यजेत्। त्यज्यात्। अत्याक्षीदिति। हलन्तलक्षणा वृद्धिरिति भावः। अत्यक्ष्यत्। षञ्ज सङ्गे इति। षोपदेशोऽयमनिट्, नोपधश्च। कृतानुस्वारपरसवर्णस्य निर्देशः। शपः पित्त्वेन कित्त्वाऽभावात्तस्मिन्परे "अनिदिता"मिति नलोपाऽप्रवृत्तेरराह--दंशसञ्जेति नलोप इति। अनुस्वारपरसवर्णयोरसिद्धत्वादिति भावः। सजतीति। लिटि तु ससञ्ज। अतुसादौ तु अकित्त्वान्न नलोपः। ससञ्जतुः ससञ्जुः। थलि भारद्वाजनियमाद्वेट्। ससञ्जिथ--ससङ्क्थ। इडभावे जस्य कुत्वेन गकारे तस्य चर्त्वे सति अनुस्वारपरसवर्णसंपन्नस्य चवर्गपञ्चमस्य निवृत्तौ ककारे परेऽनुस्वारस्य परसवर्णौ ङकारः। ससञ्जथुः ससञ्ज। ससञ्ज। ससञ्जिव ससञ्जिम।क्रादिनियमादिट्। सङ्क्तेति। तासि जस्य कुत्वेन गकारे तस्य चर्त्वे सति ञस्य निवृत्तौ नस्य ङकार इति भावः। सङक्ष्यति। सजत्। असजत्। सजेत्। सज्यात्। असाङक्षीत्। हलन्तत्वाद्वृद्धिः। असङ्क्ष्यत्। दृशिर् प्रेक्षणे इति। इरित्। अनिट् च। पश्यतीति। शिति "प्राघ्राध्मे"ति पश्यादेश इति भावः। ददर्श ददृशतुः ददृशुः। थलि तु क्रादिनियमान्नित्यमिट् प्राप्तः। अजन्ताऽकारवत्त्वाऽभावात् "अचस्तास्वदिति, "उपदेशेऽत्त्वतः" इति निषेधस्य चाऽप्राप्तेः। ऋदन्तत्वाऽभावेन भारद्वाजनियमाऽप्रसक्तेः।