पूर्वम्: ७।२।५८
अनन्तरम्: ७।२।६०
 
सूत्रम्
न वृद्भ्यश्चतुर्भ्यः॥ ७।२।५९
काशिका-वृत्तिः
न वृद्भ्यश् चतुर्भ्यः ७।२।५९

वृतादिभ्यश्चतुर्भ्यः उत्तरस्य सकारादेरार्धधातुकस्य परस्मैपदेषु इडगमो न भवति। वृत् वर्त्स्यति। अवर्त्स्यत्। विवृत्सति। वृधू वर्त्स्यति। अवर्त्स्यत्। विवृत्सति। शृधू शर्त्स्यति। अशर्त्स्यत्। शिशृत्सति। स्यन्दू स्यन्त्स्यति। अस्यन्त्स्यत्। सिस्यन्त्सति। चतुर्भ्यः इति न वक्तव्यम्, वृद्ग्रहणं हि तत्र द्युतादिपरिसमाप्त्यर्थम् क्रियते कृपू सामर्थ्ये वृतिति, तदेव यदि वृतादिसमाप्त्यर्थम् अपि विज्ञायते न किञ्चिदनिष्टं प्राप्नोति? तत् क्रियते स्यन्देरूदिल्लक्षणम् अन्तरङ्गम् अपि विकल्पं प्रतिषेधो यथा बाधेत इति। चतुर्ग्रहणे हि सति तात्पर्येण स्यन्दिः संनिधापितो भवति। परस्मैपदेषु इत्येव, वर्तिष्यते। वर्तिषीष्ट। अवर्तिष्यत। विवर्तिषते। अत्र अपि आत्मनेपदेन समानपदस्थेभ्यो वृतादिभ्य इडागम इष्यते। अन्यत्र सर्वत्र प्रतिषेधः। कृत्यपि हि परस्मैपदलुकि च प्रतिषेधो भवति, विवृत्सिता, विवृत्स त्वम् इति।
लघु-सिद्धान्त-कौमुदी
न वृद्भ्यश्चतुर्भ्यः ५४२, ७।२।५९

वृतुवृधुशृधुस्यन्दूभ्यः सकारादेरार्धधातुकस्येण् न स्यात् तङानयोरभावे। वर्त्स्यति, वर्तिष्यते। वर्तताम्। अवर्तत। वर्तेत। वर्तिषीष्ट। अवर्तिष्ट। अवर्त्स्यत्, अवर्तिष्यत्॥ दद दाने॥ १९॥ ददते॥
न्यासः
न वृद्भ्यश्चतुभ्र्यः। , ७।२।५९

"वृद्भ्यः" इति बहुवचननिर्देशादाद्यर्थो गम्यते। अत एवाह--"वृदादिभ्यः" इति। "वृतु वत्र्तने" (धा।पा।७५८), "वृधु वृधौ" (धा।पा।७५९), "शृधु शब्दकुत्सायम्()" (दा।पा।७६०) "स्यन्दू रुआवणे" (धा।पा।७६१)--इत्येते वृदादयश्चत्वार उदात्तः। तत्राद्यानां त्रयाणां नित्यमिटि प्रप्ते, स्यन्देस्तूदित्त्वात्? पाक्षिके प्राप्ते प्रतिषेधोऽयमुच्यते। "वत्स्र्यति" इति। "लृट्? शेषे च" ३।३।१३ इति लृट्(), "वद्भ्याः स्यसनोः" १।३।९२ इति विकल्पेन परस्मैपदम्()। "विवृत्सति" इति। "हलन्ताच्च" १।२।१० इति सनः कित्वाद्गुणाभावः। वृधिश्रृध्योर्धकारस्य "खरि च" ८।४।५४ इति चत्र्वम्()--तकारः। "चतुभ्र्य इति न वक्तव्यम्()" इति। अत्र कारणमाह---"वृत्करणं हि" इत्यादि। तदेव यदि वृदादिपरिसमाप्त्यर्थमपि विज्ञायत इति तन्त्रेणानेकशक्तितो वा शब्दानां न किञ्चिदनिष्टं प्राप्नोति। एवमपि विशायमान इष्टस्यैव सिद्धेरत्यभिप्रायः। एवं प्रत्याख्याते चतुग्र्रहणे, प्रयोजनमाह--"तत्क्रियते" इत्यादि। यदि चतुग्र्रहणं न क्रियेत, तदा स्पन्देरूदिल्लक्षणोऽन्तरङ्गत्वाद्विकल्पः स्यात्()। अन्तरङ्गत्वं तु तसय वलाद्यर्धधातुकमात्राश्रयत्वात्()। अस्य तु प्रतिषेधस्यार्थधातुकविशेषाश्रयत्वाद्वहरङ्गत्वम्()। तस्मादन्तरङ्गमपि स्यन्देरूदिल्लक्षणं विकल्पमयं प्रतिषेधो यथा बाधेतेत्येवमर्थञ्च चतुग्र्रहणं क्रियते। कथं पुनः क्रियमाणेऽपि चतुग्र्रहणे, अयमर्थो लभ्यते? इत्यत आह--"चतुग्र्रहणे" इत्यादि। स स्यन्दिः परः प्रधानो यस्य तत्? तत्परम्(), तद्भावस्तात्पर्यम्(), तेन तात्पर्येण तत्प्रधानतयेत्यर्थः। "सन्निधापितः" इति। उपस्थापित इत्यर्थः। तस्य चैवं सन्निधापितस्य विकल्पोऽनेन प्रतिषेधेन कथं नाम बाध्येतत्येतदेव प्रयोजनम्()। ततश्चतुग्र्रहणादन्तरङ्गमपि विक्लपं प्रतिषेधो बाधते। "अत्रपि" इत्यादि। कथं पुनः "परस्मैपदेषु" (७।२।५८) इत्यनुवत्र्तमानेऽन्यत्र सर्वत्र प्रतिषेधो लभ्यते? एवं मन्यते--गमेरित्यनुवत्र्तते, तत्रैवमभिसम्बन्धः करिष्यते--गमेः सकारादौ येन प्रकारेण इट्? तेनैव प्रकारेण वृदादिब्यो नेडिति। तेन यथा गमेरात्मनेपदवर्जनमन्यत्र सर्वत्रैवेङ् भवति, तथा वृदादिभ्योऽपि प्रतिषेध इति॥
बाल-मनोरमा
न वृद्भ्यश्चतुर्थः १८७, ७।२।५९

न वृद्भ्यः। सेऽसिचीति सूत्रात्से इति, आद्र्धदातुकस्येडिति चानुवर्तते। एभ्यः सकारादेरिति। तङानयोरभावे इति। "गमेरि"डित्यतः परस्मैपदेष्वित्यनुवृत्तम्। तेन च तङानयोरभावो लक्ष्यते, व्याख्यानादिति भावः। तेन "जिगमिषिते"त्यत्र गमेःसन्नन्तात्तृचि इट् सिध्यति, वृतेः सन्नन्ताद्धेर्लुकि विवृत्सेत्यत्र इण्निषेधश्च सिध्यति। वत्स्र्यतीति। लृटि स्यः। "वृद्भ्यः स्यसनो"रिति परस्मैपदविकल्पः। "न वृद्भ्यः" इति इण्निषेधः। गुणः। रपरत्वम्। परस्मैपदाऽभावे त्वाह-- वर्तिष्यते इति। "तङानयोरभावे" इत्युक्तेः "न वृद्भ्यः" ति इण्निषेधो न। अवर्तिष्टेति। परस्मैपदस्याङश्चाऽभावे रूपम्। अवत्स्र्यदिति। लृङि स्यः। "वृद्भ्यः स्यसनो"इति इण्निषेधोऽपि नेति भावः। वृधु शृधु इति द्वौ ऋदुपधौ। तत्रापि "द्युद्भ्यो लुङि" इति परस्मैपदपक्षे द्युतादिलक्षणोऽङ्। लृट्लृङो "वृद्भ्यः स्यसनोः" इति परस्मैपदपक्षे "न वृद्भ्यः" इति इण्निषेधश्च। तदाह-- इमौ वृतुदिति। वत्स्र्यति--वर्धिष्यते। अवृधत्--अवर्धिष्ट। अवत्स्र्यत्--अवर्धिष्यत। शत्स्र्यति--शर्धिष्यते। अशृधत्--अशर्धिष्ट। अशत्स्र्यत्-अशर्धिष्यत। स्यन्दू धातुः ऊदित्, नकारोपधः कृतानुस्वारपरसवर्णनिर्देशः। सस्यन्दिषे सस्य्नत्से इति। इडभावे दस्य चर्त्वेन तः। सस्यन्दिद्ध्वे सस्यन्द्ध्वे इति। इडभावे धकारात् प्राग् दकारः। खर्परकत्वाऽभावान्न चत्र्वम्। स्यान्दितास्यन्तेति। इडभावे दस्य चत्र्वम्। ननु लृटि स्ये सति "वृद्भ्यः स्यसनो"रिति परस्मैपदपक्षे परत्वादूदिल्लक्षणमिड्विकल्पं बाधित्वा "न वृद्भ्यश्चतुभ्र्यः" इति इण्निषेधे स्यन्त्स्यतीत्येव रूपमिष्यते, नतु स्यन्दिष्यत इति। तदयुक्तम्, अन्तरङ्गतया ऊदिल्लक्षणस्यैव इड्विकल्पस्य उचितत्वात्, सकारादिविशेषापेक्षतया तङानाभावनिमित्तापेक्षया च "न वृद्भ्यः" इति निषेधस्य बहिरङ्गत्वादित्यशङ्क्य निराकरोति-- वृदभ्य इति। "वृद्भ्यः स्यसनो"रिति परस्मैपदेकृते अन्तरङ्गमपि विकल्पं बाधित्वा "न वृद्भ्य" इति निषेध इत्यन्वयः। कुत इत्यत आह-- चतुग्र्रहमसामथ्र्यादिति। यदि ह्रत्र ऊदिल्लक्षण इड्विकल्प एव स्यान्नतु "न वृद्भ्यश्चतुभ्र्यः" इति निषेधस्तर्हि "चतुभ्र्यः" इति व्यर्थं स्यात्। न च कृपूव्यावृत्तिस्तत्फलमिति शङ्क्यं, "तासि च क्लृपः" इति चकारेण सकाराद्याद्र्धधातुकेऽपि नित्यमिण्निषेधप्रवृत्तेर्वक्ष्यमाणत्वात्। तथा च चतुग्र्रहणं चतुर्णामपि सर्वत्र इण्निषेधार्थमिति भावः। भाष्ये तु "निषेधाश्च बलीयांसः" इति न्यायेन अन्तरङ्गस्यापि ऊदिल्लक्षणेड्विकल्पस्य "न वृद्भ्यः" इति निषेधेन बाधसिद्धेश्चतुग्र्रहणं प्रत्याख्यातम्। तथा च लृटि परस्मपैदपक्षे तु ऊदित्त्वादिड्विकल्पं बाधित्वा "न वृद्भ्यः" इति नित्यमिण्निषेधे स्यन्त्स्यतीत्येकमेव रूपमिति स्थितम्। आत्मनेपदपक्षे तु ऊदित्त्वादिड्विकल्पं मत्वाह-- स्यन्दिष्यते स्यन्त्स्यते इति। इडभावे दस्य चत्र्वम्। आसीर्लिङि सीयुटि ऊदित्त्वादिड्विकल्पं मत्वा आह-- स्यान्दिषीष्ट स्यन्त्सीष्टेति। "न वृद्भ्यः" इति निषेधस्त न, तङानयोरभाव एव तत्प्रवृत्तेरिति भावः। लुङि विशेषमाह--द्युद्भ्यो लुङीत्यादिना। अङिति। "द्युतादिलक्षणे" इति शेषः। नलोप इति। "अनिदितामित्यनेने"ति शेषः। आत्मनेपदपक्षे तु अङभावादूदिल्लक्षणमिड्विकल्पं मत्वा आह-- अस्यन्दिष्ट अस्यन्त्तेति। तत्र इडभावपक्षे अस्यन्द् स् त इति स्थिते "झलो झली" ति सलोपे दस्य चत्र्वम्। न चाऽपित्त्वेन ङित्त्वात् "अनिदिता"मिति नलोपः शङ्क्यः, सिज्लोपस्याऽसिद्धत्वेनाऽनुपधात्वादिति भावः। अस्यन्त्सातामस्यन्त्सतेति। अस्यन्त्थाः, अस्यन्त्साथाम्। अस्यन्द्ध्वम्। अस्यनन्त्सि अस्यन्त्स्वहि अस्यन्त्स्महि। अस्यन्त्स्यत्-- अस्यन्त्स्यत -अस्यन्दिष्यत।

तत्त्व-बोधिनी
न वृद्भ्यश्चतुभ्र्यः १६०, ७।२।५९

न वृद्भ्यः। गणकार्यत्वादुभयोर्यङ्लुक्यप्रवृत्तिः। वर्वर्तिष्यति। वर्वर्तिषति। चतुग्र्रहणफलं तु मूले एव स्फुटीभविष्यति। "सेऽसिची"ति सूत्रात्से इत्यनुवर्तते। तदाह-- सकारादेरिति। इण् न स्यादिति। स्यन्देरूदित्त्वाद्विकल्पे प्राप्ते, इतरेषां प्राप्ते, इतरेषां नित्यमिटि प्राप्ते निषेधोऽयम्। तङानयोरिति। जिगमिषिता। जिगमिषितारावित्यादौ तृचि परतः सन इडागमसिद्धये "गमेरिट् परस्मैपदग्रहणमं तङानयोरभावं लक्षयतीत्यभ्युपगम्यते। तञ्चात्रापि तथैवानुवर्तते, अर्थाधिकाराश्रयणात्।तेन परस्मैपदाऽभावेऽपि तृचि विवृत्सितारावित्यत्र "अतो हे" रिति हेर्लुकि "त्वं विवृत्से"त्यत्र च सन इण्निषेधः सिध्यतीति भावः। अत्र भाष्यवार्तिकयोर्वृतादीनामात्मनेपदेन समानपदस्थर्स्येड्वचनादन्यत्र निषेध इति स्थितम्। तेन विवर्तिषते विवर्द्धिषते इत्यादाविड्भवति। विवृत्सतेवाचरति विवृत्सित्रीयते इत्यत्र त्वात्मनेपदोत्पत्तेः पूर्वं तत्समानापदस्थत्वाऽभावादन्तरङ्गोऽयं निषेधः प्रवर्तते। स च पश्चात्तङि कृतेऽपि न निवर्तते, चतुग्र्रहणसामथ्र्यादिति। अत्र व्याचख्युः--- "पञ्चभ्य" इति वक्तुमुचितम्। [एवं च] "तासि चे"त्येव सूत्रं कर्तव्यम्। न च वृतादिष्वतिव्याप्तिः तङानयोः सत्त्वादिति। अस्यन्त्तेति। अत्र "अनिदिता"मिति न लोपो न भवति, सिज्()लोपस्याऽसिद्धत्वेनानुपधात्वात्।