पूर्वम्: ७।२।५९
अनन्तरम्: ७।२।६१
 
सूत्रम्
तासि च कॢपः॥ ७।२।६०
काशिका-वृत्तिः
तासि च क्ल्̥पः ७।२।६०

कृप उत्तरस्य तासेः सकारादेश्च अर्धधातुकस्य परस्मैपदेषु इडागमो न भवति। श्वः कल्प्ता। कल्प्स्यति। अकल्प्स्यत्। चिक्ल्̥प्सति। पर्स्मैपदेषु इत्येव, कल्पितासे। कल्पिष्यते। कल्पिषीष्ट। अकल्पिष्यत। चिकल्पिषते। क्ल्̥पेरप्यात्मनेपदेन समानपदस्थस्य इडागमः इष्यते। अन्यत्र प्रतिषेधः। कृत्यपि हि पर्समिपदलुकि च प्रतिषेधो भवति, चिक्ल्̥प्सिता, चिक्ल्̥प्स त्वम् इति।
न्यासः
तासि च क्लृपः। , ७।२।६०

"कृपू सामर्थ्ये" (धा।पा।७६२)। तस्मादूदित्त्वाद्विकल्पेनेटि प्राप्ते प्रतिषेधोऽयमारब्यते। "कल्प्ता" इति। लुट्(), "लुटि च क्लृपः" १।३।९३ इति परस्मैपदं विकल्पेन, "कृपो रो लः" ८।२।१८ इति लत्वम्()। "चिक्लृप्सति" इति। पूर्ववत्कित्त्वम्()। "क्लृपेरपि" इत्यादि। अयमर्थो वृदादीनामनुवृत्तर्लभ्यते, तदनुवत्तौ सत्यामेवाभिसम्बन्धः करिष्यते--यथा वृदादीना प्रतिषेधो भवति, तथाऽयमपि क्लृपेरिति। यदि तर्हि वृददीनां ग्रहणमिहानुवत्र्तते, तदा वृदादीनामपि तासौ प्रतिषेधः प्राप्नोति? योगविभागकरणसामथ्र्यान्न भविष्यति। यदि वृदादीनामपि तासौ स्यात्(), तदा "न वृद्भ्यः पञ्चभ्यस्तासि च" इत्येकरणे कुर्यात्()॥
बाल-मनोरमा
तासि च क्लृपः १९१, ७।२।६०

तासि च। चकारात्सकाराद्याद्र्धदातुकं गृह्रते। "सेऽसिचि कृत"इत्यतः "से" इति, "आद्र्धधातुकस्ये"त्यत आद्र्धधातुकस्येडिति चानुवर्तते। "न वृद्भ्यश्चतुर्थ इत्यतो नेति च, "गमेरि"डित्यतः परस्मैपदमिति च। तदाह-- क्लृपेः परस्येत्यादिना।कल्प्तासीति। "लुटि च क्लृप" इति परस्मपैपदपक्षे ऊदिल्लक्षणमिड्विकल्पं बाधित्वा "तासि च क्लृपः" इति इण्निषेधे गुण रपरत्वे लत्वे रूपम्। परस्मपैदाऽभावपक्षे तु ऊदिल्लक्षममिड्विविकल्पं मत्वा आह-- कल्पितासे कल्प्तासे इति। लृटि तु "लुटि च क्लृपः" इति परस्मैपदपक्षे ऊदिल्लक्षणमिड्विकल्पं बाधित्वा "तासि च क्लृपः" इति इण्निषेधं मत्वा आह-- कल्प्स्यतीति। परस्मपैदाऽभावे तु ऊदित्त्वादिडविकल्पं मत्वा आह-- कल्पिष्यते कल्प्स्यत इति। कल्पताम्। अकल्प। कल्पेत। आशीर्लिङि ऊदिल्लक्षणमिड्विकल्पं मत्वा आह-- कल्पिषीष्टेति, क्लृप्सीष्टेति च। इडभावे "लिङ्सिचावात्मनेपदेषु" इति कित्त्वान्न गुणः। अक्लृपदिति। "द्युद्भ्यो लुङी"ति परस्मैपदपक्षे द्युतादिलक्षणे अङि सति ङित्त्वान्न गुणः। अङभावे तु ऊदिलक्षणमिड्विकल्पं मत्वा आह-- अकल्पिष्टेति, अक्लृप्तेति च। अकल्प्स्यदिति। लृङि स्ये "लुटि च क्लृप" इत#इ परस्मैपदपक्षे ऊदिलक्षणमिड्विकल्पं बाधित्वा "तासि च क्लृप" इति इण्निषेध इति भावः। परस्पैपदाऽभावपक्षे तु ऊदिल्लक्षणमिड्विकल्पं मत्वा आह-- कल्पिष्यत अकल्प्स्यतेति। वृदिति। वृत्तेः समाप्त्य्रथकात्कर्तरि क्विप्। तदाह-- वृत्त इति। "गत्यर्थाकर्मके" ति कर्तरि क्तः। वृत्तशब्दस्य विवरणं--- सम्पूर्ण इति। द्युतादयः कृपूपर्यन्ता अनुदात्तेतो गताः। अथ त्वरत्यन्ता इति। "ञि त्वरा संभ्रमे" इत्यन्ता इत्यर्थः। षितश्चेति। षित्संज्ञका इत्यर्थः। षित्कार्यभाज इति वा। "ञि त्वरा संभ्रमे इत्युक्त्वा "घटादयः षितः"इति वक्ष्यमाणत्वादिति भावः। षित्फलं तु त्विति। मित्त्वफलं तु "मितां ह्यस्वः" इति णौ ह्यस्वः" इति णौ ह्यस्वः, "चिण्णमुलोर्दीर्घः" इति दीर्घश्च वक्ष्यते। "धातुपाठे अर्थनिर्देश उपलक्षण"मित्युक्तम्। ततश्चार्थान्तरवृत्तेरपि घटदातोर्घटादिकार्यं भवत्येव। तदाह--घटयति विघटयतीति। संश्लेषयति विश्लेषयतीत्यर्थः। णौ ह्यस्वोदाहरणमिदम्। अघटि अघाटीति। चिण्युदाहरणम्। घाटंघाटम्, घटंघटमिति ण्यन्ताण्णमुलि दीर्घविकल्पस्योदाहरणम्। "नित्यवीप्सयो"रिति द्विर्वचनम्। ननु यद्यर्थान्तरवृत्तेरपि घटधातोर्मित्त्वं तदा "उद्घाटनं" "प्रविघाटियते" त्यत्र विकासनार्थकस्यापि घटधातोर्णौ मित्त्वाद्ध्रस्वः स्यादित्याक्षिपति-- कथं तर्हीति। शृण्विति। "समाधानमिति शेषः। चौरादिकस्येति। चुरादौ "घट सङ्घाते" इति पठितम्। तदिदं घाटादिकाद्धटधातोर्धात्वन्तरमेव। तस्य णौ मित्त्वाऽभावाद्ध्रस्वाऽभावे "उद्घटनं" "प्रविघाटयिते"ति निर्बाधमेव, अर्थनिर्देशस्योपलक्षणतया सङ्घातादन्यत्र विकसनेऽपि चौरादिकस्य वृत्तिसंभवादिति भावः। ननु घटादिगणादन्यत्र अर्थान्तरे पठितानां धातूनामिह धातूनामिह घटादिगणे पाठो घटादिगणनिर्दिष्टएवार्थे मित्त्वार्थोऽनुवाद एव,नतु धातुभेदः। अन्यथा घाटादिकत्वं, गणान्तरस्थत्वं चादाय मित्त्वतदभावयोर्विकल्पापत्तेः। ये तु धातवो घटादिगण एव पठिता न तु गणान्तरे, ते,#आमन्त्वर्थान्तरवृत्तावपि मित्त्वमिति धातुवृत्त्यादिग्रन्थेषु सिद्धान्तः। घटधातुस्तु "घट सङ्घाते" इति चुरादौ पठितः। अतस्तस्यैवात्र गणे चेष्टायामर्थे मित्त्वार्थो()ऽनुवाद इति लब्धम्। एवं च "विघटयती"त्यादावर्थान्तरवृत्तौ ण्यन्तस्य कथं मित्त्वमित्याशङ्क्य निराकरोति---नचेति। तस्यैव-- चौरादिकस्यैव, घटधातोश्चेष्टात्मके अर्थविशेषे वृत्तौ मित्त्वार्थोऽनुवादः स्यादिति न वाच्यमित्यर्थः। कुत इत्यत आह-- नान्ये मितोऽहेताविति। चुराद्यन्तर्गणसूत्रमिदम्। तत्र हि "ज्ञप मिच्च" "यम च परिवेषणे" "चह परिवेषणे" "चह परिकल्कने" "रह त्यागे" "बल प्राणने" "चिञ् चयने" इति पञ्चधातून् पठित्वा "नान्ये मितोऽहेतौ" इति पठितम्। तत्र "चह परिकल्कने" इत्यस्य स्थाने "चपे"ति केचित्पठन्ति। तथाच पञ्चत्वस्य न विरोधः। एषु पञ्चस्वपि मिदित्यनुवर्तते। "अहेता"विति च्छेदः। कस्मादन्ये इत्यपेक्षायां संनिहितत्वाज्ज्ञापादिपञ्चभ्य इति लभ्यते। हेतुशब्देन "हेतुमति चे"ति सूत्रविहितो णिज्लभ्यते। तद्भिन्नो णिच् स्वार्थिकोऽहेतुः। तदाह--- अहेतौ स्वर्थे णिचीति। ज्ञप आदिर्येषामिति अतद्गुणसंविज्ञानो बहुव्रीहिः। ज्ञपधातोस्तदुत्तरेभ्यश्च पञ्चभ्य इत्येवं ष()ड्भ्योऽन्ये ये चुरादयस्ते मितो नेति फलितम्। एवं च चुरादौ ज्ञपादिपञ्चकव्यतिरिक्तानां मित्त्वाऽभावात् " घट चेष्टाया"मिति निर्देशश्चौरादिकस्य "घट सङ्घाते" इत्यस्य चेष्टायां वृत्तौ मित्त्वार्थोऽनुवाद इति न युज्यते, किंतु इहैव घटादिगणे "घट चेष्टाया"मित्यपूर्वोऽयं धातुः। तस्य चाऽर्थान्तरवृत्तावपि मित्त्वमस्त्येवेति "विघटयती"त्यादौ मित्तवाद्ध्रर्वो निर्बाध इति भ#आवः।

तत्त्व-बोधिनी
तासि च क्लृपः १६२, ७।२।६०

तासि च क्लृपः। चकारात्साद्याद्र्धधातुकं गृह्रते। क्लृप्सीष्टेति। "लिङ्सिचावात्मनेपदेषु" इति कित्त्वान्न गुणः। (ग।) वृत। वृदिति। वृतु वर्तने इत्यस्मात्क्विप्। "ञित्वरा संभ्रमे" इत्यस्यानन्तरं "घटादयः षितः" इत्युक्तत्वात्त्वरत्यन्तारुआयोदसैव षितो न तु फणान्ताः सर्वेऽपीति सिद्धं,तथापि स्पष्टप्रतिपत्त्यर्थमाह-- षितश्चेति। प्रयोजनं तु षिद्भिदादिभ्यः" इत्यङि टाप्। घटा व्यथेत्यादिरूपसिद्धिः। ये धातवोऽन्यत्राधीतास्तेषमिह पाठोऽर्थनियमाय। ये त्विहैव पठ()न्ते तेषामुपसर्गादिनाऽर्थान्तरपरत्वेऽपि मित्त्वमस्त्येवेति धातुवृत्त्यादिषु स्थितं। तदेतद्ध्वनयन्नुदाहरति-- विघटयतीति।