पूर्वम्: ७।२।६१
अनन्तरम्: ७।२।६३
 
सूत्रम्
उपदेशेऽत्वतः॥ ७।२।६२
काशिका-वृत्तिः
उपदेशे ऽत्वतः ७।२।६२

उपदेशे यो धातुरकारवान् तासौ नित्यानिट् तस्मात् तासाविव थलि इडागमो न भवति। पक्ता पपक्थ। यष्टा इयष्ठ। श्क्ता शशक्थ। उपदेशे इति किम्? कर्ष्टा चकर्षिथ। अत्वतः इति किम्? भेत्ता विभेदिथ। तपरकरणं किम्? राद्धा रराधिथ। तास्वतित्येव, जिघृक्षति। जग्रहिथ। नित्यम् अनिटः इत्येव, अङ्क्ता, अञ्जिता आनञ्जिथ।
लघु-सिद्धान्त-कौमुदी
उपदेशेऽत्वतः ४८३, ७।२।६२

उपदेशेऽकारवतस्तासौ नित्यानिटः परस्य थल इण्न स्यात्॥
न्यासः
उपदेशेऽत्वतः। , ७।२।६२

अनजन्तार्थोऽयमारम्भः। "इयष्ठ" ["इयष्ट" इति पदमञ्जरी] इति। पूर्ववदभ्यासस्य सम्प्रसारम्(), व्रश्चादिसूत्रेण ८।२।३६ षत्वम्(), ष्टुत्वम्()। "चकर्षिथ" इति। "कृष विलेखने" (धा।पा।९९०)। भवत्ययमकारवान्(), न तूपदेशे, किं तर्हि? पश्चाद्गुणे कृते। उपदेशग्रहमिह शक्यमकर्त्तुम्(), शक्यत एव हि "एकाच उपदेशे" (७।२।१०) इत्यत उपदेशग्रहणमनुवत्र्तयितुम्()? तत्? क्रियते विस्पष्टार्थम्()। असति तस्मिन्(), पूर्वसूत्रे तस्यानुपयोगान्निवृतिं()त मन्यमानः "तासावत्वतः" इत्येवमपि कश्चित्? प्रतिपद्येत। "रराधिथ" इति। "राध साध संसिद्धौ" (धा।पा।१२६२,१२६३)। "जिघृक्षति" इति। "सनि ग्रहगुहोश्च" ७।२।१२ इतीट्प्रतिषेधाद्भवति नित्यानिट्(), न तु तासौ, किं तर्हि? सचि। "आनाञ्जथ" इति। "अन्जू "व्यक्तिभ्रक्षणादिषु" ["व्यक्तिमरषणकान्तिगतिषु"--धा।पा।] (धा।पा।१४५८)। "अत आदेः" ७।४।७० इत्यभ्यासस्य दीर्घः, "तस्मान्नुङ्? द्विहलः" ७।४।७१ नुट्(), भवत्ययं धातुरुपदेशेऽकारवान्(), न तु तासौ नित्यानिट्(); स्वरत्यादिसूत्रेण ७।२।४४ विकल्पितेट्कत्वात्()॥
बाल-मनोरमा
उपदेशेऽत्वतः १३८, ७।२।६२

उपदेशेऽत्वतः। "अत्वत" इति च्छेदः। अत् = ह्यस्वाकारः, सोऽस्याऽस्तीति अत्वान्। "तसौ मत्वर्थ" इति भत्वान्न जश्त्वम्। अच इति वर्जं पूर्वसूत्रं, तत्र यदनुवृत्तं तदप्यनुवर्तते। तदाह-- उपदेशेऽकारवत इति। "शक्लृ शशक्थ, "पच्" पपक्थेत्युदाहरणम्। अत्र क्रादिनियमप्राप्त इण्न भवति। उपदेशे किम्?। "कृष विलेखने"। चकर्षिथ। अत्वत इति किम्?। बिभेदिथ। तपरः किम्?। रराधिथ। तासौ किम्?। जग्रहिथ "जिघृक्षती"त्यत्र "सनि ग्रहगुहोश्चे"ति सनि नित्यमनिट् , न तु तासौ। नित्येति किम्?। "अञ्ज", आनञ्जथ। "ऊदित्त्वात्तासौ वे"डिति भाष्यम्। चक्रमिथेत्यप्युदाहरणम्, स्नुक्रमो"रिति नियमेनात्मनेपदे तासावनिट्कत्वेऽपि परस्मैपदे सेट्कत्वात्।

तत्त्व-बोधिनी
उपदेशेऽत्वतः ११३, ७।२।६२

उपदेशेऽत्वतः। पपक्थ। इयष्ठ। उपदेशे किम्?। कर्ष्ठा। चकर्षिथ। अकारवत इति किम्?। भेत्ता। बिभेदिथ। तपरकरणं कम्?। राद्धा। रराधिथ। तासौ किम्?। जिघृक्षति। जग्रहिथ। "सनि ग्रहगुहोश्चे"ति सनि नित्यमनिरट्। क्रान्तः। चक्रमिथ। ऊदित्त्वेन क्त्वायां वेट्कत्वात् "यस्य विभाषे"ति निष्ठायां नेट्। नित्यानित्याऽनिट्। "स्नुक्रमोरनात्मनेपदनिमित्ते" इति परस्मैपदे सेक्टत्वात्।