पूर्वम्: ७।२।६२
अनन्तरम्: ७।२।६४
 
सूत्रम्
ऋतो भारद्वाजस्य॥ ७।२।६३
काशिका-वृत्तिः
ऋतो भारद्वाजस्य ७।२।६३

ऋकारान्ताद् घातोः भारद्वाजस्य अचार्यस्य मतेन तासाविव नित्यानिटस्थलि इडागमो न भवति। स्मर्ता सस्मर्थ। ध्वर्ता दध्वर्थ। सिद्धे सत्यारम्भो नियमार्थः, ऋत एव भारद्वाजस्य, नान्येषां धातूनाम्। ययिथ। वविथ। पेचिथ। शेकिथ। तदयम् अर्थात् पूर्वयोः योगयोर्विकल्पः। तपरकरणम् ऋकारान्तस्य निवृत्त्यर्थम्। तथा हि सति विध्यर्थम् एतत् स्यात्।
लघु-सिद्धान्त-कौमुदी
ऋतो भारद्वाजस्य ४८४, ७।२।६३

तासौ नित्यानिट ऋदन्तादेव थलो नेट् भारद्वाजस्य मते। तेन अन्यस्य स्यादेव। अयमत्र संग्रहः --- अजन्तोऽकारवान्वा यस्तास्यनिट्थलि वेडयम्। ऋदन्त ईदृङ्नित्यानिट् क्राद्यन्यो लिटि सेड्भवेत्॥चिक्षयिथ, चिक्षेथ। चिक्षियथुः। चिक्षिय। चिक्षाय, चिक्षय। चिक्षियिव। चिक्षियिम। क्षेता। क्षेष्यति। क्षयतु। अक्षयत्। क्षयेत्॥
न्यासः
ऋतो भारद्वाजस्य। , ७।२।६३

"सस्मर्थ" इति। "स्मु चिन्तायाम्()" (धा।पा।९३३)। "दध्वर्थ" इति। "ध्वृ हूर्छने" (धा।पा।९३९)। ननु यद्यप्यकारान्तानां मद्ये वृङ्वृञावुदात्तौ तत्रापि वृङस्थल्न सम्भवत्येव, आत्मनेपदितत्वात्()। वृञस्तु "ववर्थेति निगमे" ७।२।६४ निपातनाद्भाषायामिटा भवितव्यमेव, तस्मात्? तयोरिट्प्रतिषेधार्थमेतन्नोपपद्यते; ये त्वन्ये ऋकारान्ताः, तेषामनुदत्तत्वात्? तासौ नित्यमनिट्त्वामिति "अचस्तास्वत्? थल्यनिटो नित्यम्()" ७।२।६१ इतीट्प्रतिषेधः सिद्ध एव, परत्वाद्गुणे कृते रपरत्ये चानजन्तत्वान्न सिध्यतीत्येवमेतन्नाशङ्कनीयम्(); उपदेशग्रहणस्य पुरस्तादनुकृष्टस्य "अचः" इत्यनेनाभिसम्भन्धात्(); अथ वा--"अचः" इति विहितविशेषणा पञ्चमी, तत्रैवं विज्ञास्यामः--अजन्ताद्यो वहितस्थलिति, तस्मादचस्तास्वदित्यनेनैव ऋकारन्तेभ्यः प्रतिषेधः सिद्धः, तत्किमर्थोऽप्यमारम्भः? इत्याह--"सिद्धे सत्यारम्भो नियमार्थः" इति। "नान्येभ्यः" इति। के पुनस्ते? य ऋकारान्तादन्येऽजन्ताः, अनजन्ताश्चोपदेशेऽत्वन्तः। अथैवं कस्मान्नियमो न विज्ञायते--ऋतो भारद्वाज्यैव, नान्येषामाचार्याणामिति? एवं मन्यते--पूर्वसूत्रादयोऽत्वत इति चनुवत्र्तते, तदनुवृत्तेरेतदेव प्रयोजनम्()--अनेन नियमेन सन्निधानात्? तस्यैवाजन्तस्यानुवृ()त्तस्यात्वतश्च प्रकृतस्य धातोः। तथा च तदनुवृत्तिरपार्थिका स्यात्()। तस्मावृत एव भारद्वाजस्येत्ययमेव नियमो विज्ञायत इत्याह--"तत्()" इत्यादि। तदिति हेतौ। यस्मादेवंविधोऽत्र नियमः--तस्मादृत एव भारद्वाजस्य प्रतिषेधो भवति, नान्येभ्यो धातुभ्य ति। तेन यद्यपि पूर्वयोगाभ्यां नित्यमिट्प्रतिषेधः कृतः, तथां च सामर्थ्थात्? पूर्वयोगयोरयं विकल्पो भवति। यद्यपि तत्र वाग्रहणम्(), आचर्यग्रहणं च क्रियते, तथाप्यर्थाल्लभ्यते। अथ तपरकरणं किमर्थम्(), न "उर्भारद्वाजस्य" इत्येवोच्येत? इत्याह--"तपरकरणम्()" इत्यादि। यदि ह्रुरित्येवोच्येत, ततोऽण्? सवर्णान्? गृह्णातीति ऋकारान्तानामपि ग्रहणं स्यात्()। ततस्तन्निवृत्त्यर्थं तपरकरणम्()। किं पुनः स्याद्यद्युकारान्तानां ग्रहणं न स्यात्()? इत्यत आह--"तथा हि" इत्यादि। तथेत्येवमर्थे। हिशब्दो यस्मादर्ये। एवं यस्मात्? तपरकरणमन्तरेणापि ऋकारानातानां ग्रहणे सति विध्यर्थमेतत्? सम्भाव्येत। असति हि विधेये नियमो भवति। ऋकारान्तानां ग्रहणे सति तेषामेव प्रतिषेधो विधेयः स्यात्(), न हि तेषां पूर्वेण प्रतिषेधः सिद्धः। सर्वेषामृकारान्तानां तासौ नित्यम्(); सेट्त्वात्?। तपरकरणे तु सति तकारेण दीर्घनिवृत्तौ कृतायां विधेयताभावान्नियमोऽयं सम्पद्यते॥
बाल-मनोरमा
ऋतो भारद्वाजस्य १३९, ७।२।६३

ऋतो भा। तासौ नित्यमनिट इति, थलीति, नेति, इडिति चानुवर्तते। भारद्वाजस्य मते ऋदन्ताद्धातोः परस्य थलो नेडिति फलितं। ह्मञ्धृञादौ "अचस्तास्व"दित्येव सिद्धम्। अतो नियमार्थमिदमित्याह-- ऋदन्तादेवेति। अनृदन्तात्परस्य तु थल इट् स्यादेवेत्येवकारार्थः। तदाह--अन्यस्य स्यादेवेति। ऋदन्तभिन्नात्परस्य थल इट् स्यादेवेत्यर्थः। तथा च ऋदन्तभिन्नाद्धातोः परस्य थलो नेण्निवृत्तिरति भारद्वाजमते फलतीति न वैयथ्र्यमिति भावः। तथा च अनृदन्ताद्धातोः परस्य थलो भारद्वाजमते इट्,मतान्तरे तु अचस्तास्वदिति उपदेशेऽत्वत ति च तत्र नेडति विकल्पः फलतीति भावः। तद्यथा--पपिथ-पपाथ। पेचिथ- पपक्थ। अयमत्रेति। कृसृभृवृस्तुद्रुरुआउश्रुवो लिटी"ति, "अचस्तास्वत्थल्यनिटो नित्य"मिति, "उपदेशेऽत्वत" इति, "ऋतो भारद्वाजस्ये"ति च सूत्रचतुष्टयस्य विषयाणां सङ्ग्रहो वक्ष्यत इत्यर्थः। अजन्त इति। यो धातुः ऋदन्तभिन्नाऽजन्तो ह्यस्वाकारवान् वा तासौ नित्याऽनिट् नित्याऽनिडित्यर्थः। "अचस्तास्व"दिति पाणिनिमते "ऋतो भारद्वाजस्ये"ति भारद्वाजमतेऽपि तस्य अनिट्कत्वादिति भावः। क्राद्यन्य इति। क्राद्यष्टभ्योऽन्यो धातुर्लिटि नित्यं सेडित्यर्थः। क्राद्यष्टभ्य एव परस्य लिटि नेडिति कृसृभृवृ इति सूत्रेण नियमितत्वादिति भावः। नन्वत्र क्राद्यन्य इत्युक्त्या क्रादीनामष्टानां लिटि नित्यानिट्कत्ववगतं तदनुपपन्नं, स्तुद्रुरुआउश्रुवामृदन्तभिन्नत्वेन तेभ्यस्थलि अचस्तास्वदिति निषेधस्य भारद्वाजमतेऽप्रवृत्त्या इड्विकल्पस्य दुर्वारत्वात्। नचैवं सति कृसृभृवृ इति सूत्रे स्तुद्रुरुआउश्रुग्रहणमनर्थकमिति वाच्यं, तुष्टुव तुष्टुमेत्यादौ वमादिषु क्रादिनियमप्राप्तस्य इटो निवृत्त्या चरितार्थत्वादित्याशङ्क्य निराकरोति-- न चेति। कुत इत्यत आह-- अचस्तास्वदिति। ऋदन्तादेव परस्य थल इण्निषेधः, अनृदन्तात्परस्य तु थल इण्निषेधो नेति भारद्वाजीयं मतम्। अयं च इण्निषेधस्य निषेधः "अचस्त्वास्व" दिति "उपदेशेऽत्वत" इतिच सूत्रद्वयप्राप्तस्यैव इण्निषेधस्य पक्षे निवर्तको न तुक्रादिसूत्रप्राप्तस्य इट् प्रतिषेधस्यापीत्यर्थः। कुत इत्यत आह-- अनन्तरस्येति। "अचस्तास्व"दिति "उपदेशेऽत्वत" इति "ऋतो भारद्वाजस्ये"तिच सूत्रक्रमः। कृसृभृवृ इति सूत्रं तु ततः प्राग्बहुव्यवहितमिति भावः। किंच "नेड्वशि कृती" त्यादिप्रतिषेधकाण्डोत्तरम् "आद्र्धधातुकस्येड्वलादे" रिति विधिकाण्डारम्भसामथ्र्यादपि स्तुद्रुस्रुश्रुवामिण्निषेधो भारद्वाजनियमं बाधत इति "नेड्वशि कृती" त्यत्र , "वस्वेकाजाद्धसा"मित्यत्र च भाष्ये स्पष्टम्। ततश्च प्रकृते अजेस्थलि वीभावे तस्य अजन्तत्वात्तासौ नित्याऽनिट्त्त्वाच्च इड्विकल्प इति सिद्धं। तदाह---विवयिथ विवेथेति। सिबादेशस्य थलः पित्त्वादसंयोगादिति कित्त्वाऽभावाद्गुणः। इट्पक्षेऽयादेशः। आजिथेति। "वलादावाद्र्धधातुके वेष्यते इति वीभावाऽभावपक्षे अजधातोरनुदात्तोपदेशबहिर्भूतत्वादिट्। द्वित्वम्। हलादिः शेषः। "अत आदे"रिति दीर्घः। विव्यथुरिति। अथुसि वीभावे द्वित्वे अभ्यासह्यस्वे असंयोगादिति कित्त्वाद्गुणाऽभावे इयङपवादे "एरनेकाच" इति यणि रूपम्। विव्येति। थस्य अकारे वीभावादि। विवाय विवयेति। "णलुत्तमो वे"ति णित्त्वविकल्पाद्वृद्धिविकल्पः। विव्यिव विव्यिमेति। "क्राद्यन्यो लिटि सेड्भवे"दिति नित्यमिटि यण्। वेता अजितेति। लुटि तासि वीभावविकल्पः। वेष्यति अजिष्यतीति। लृटि स्ये वीभावविकल्पः। वीयादिति। आशीर्लिङादेशस्य आद्र्धधातुकत्वाद्वीभावः।

तत्त्व-बोधिनी
ऋतो भारद्वाजस्य ११४, ७।२।६३

ऋतो भारद्वाजस्य। तपरकरणात्कृ()गृ()प्रभृतिषु दीर्घान्तेषु नायं निषेधः प्रवर्तते। ह्यस्वान्तेषु ह्मञ्धृञादिषु "अचस्तास्व"दित्येव सिद्धं, वृरञ्वृङौ तु यद्यपि सेटौ, तथापि वृङः थलेव नास्ति, आत्मनेपदित्वात्, वृञस्तु छन्दसि "ववर्थे"ति निपातनाद्ववरिथेति भाषायमिटा भाव्यम्। त्समान्नियमोऽयमित्याह--- ऋदन्तादेवेति। जहर्थ। दधर्थ। अन्यस्य स्यादेवेति। एवं च भारद्वाजमते स्यादन्यमते न स्यादिति विकल्पः फलितः। पपिथ। पपाथ। पेचिथ। पपक्थ। इयजिथ। इयष्ठ। अकारवानिति। ह्यस्वाऽकारवानित्यर्थः। ईदृगिति। यस्तास्यनिट् स ऋदन्तस्थलि नित्याऽनिड्भवतीत्यर्थः। ननु स्तुद्रुरुआउश्रुवामपि थलि भारद्वाजनियमादिट् स्यात्। न चैवं क्रादिसूत्रे तेषां पठनं निरर्थकं स्यादिति वाच्यं, तत्पठनस्य वमादिष्विण्निवृत्त्यर्थतया सफलत्वात्। अन्यथा क्रादिनियमात्तत्र इडागमो दुर्वारः स्यादित्याशङ्क्याह-- न चेति। योगद्वयेति। क्रादियोगप्रापितस्य तु न निवर्तक इति भावः। कुत इत्याकाङ्क्षायामाह-- अनन्तरस्येति। न चैवम् "उपदेशेऽत्वतः" इत्यस्यैव बाधः स्यादिति वाच्यम्, अत्वत्सु धातुषु ऋदन्तत्वाऽदर्शनेन यद्यत्वतस्थलि इण्निषेधस्तर्हि ऋदन्तादेवेति नियन्तुमशक्यत्वात्। ननु तर्हि "अचस्तास्व"दित्यस्यैव बाधोऽस्तु, तत्कथं "यगोद्वयप्रापितस्ये"त्युक्तम्। अत्राहुः-- "उपदेशेऽचस्तास्व"दित्येव सूत्रे कृतेऽपि तास्वत्थलीत्यादिपदानामिवोपदेशपदस्याप्यनुवृत्तिसंबवे अत्वत इति सूत्रे उपदेशपदस्य, अच इति पूर्वसूत्रे तु तास्वत्थलीत्यादेश्च करणादुभयोः समानयोगक्षेम इति ज्ञायते। तस्मादिष्टानुरोधाच्च योगद्वयमपि भारद्वाजनियमेन बाध्यते। यदि तु "उपदेशेऽत्वतोऽचस्तास्वत्थल्यनिटो नित्य"मिति एको योगः स्वीक्रियते तदात्र नास्त्येव शङ्कालेशोऽपीति बोध्यमिति। अन्ये तु व्याचक्षते-- "अचस्तास्व"दिति सूत्रानन्तरमेव "ऋतो भारद्वाजस्ये"ति पठनीयं। द्वयोरनन्तरमस्यारम्भादिह " तास्वत्थल्यनिटो नित्यं" "तासी"त्यनुवर्त्त्य योऽयं तासि नित्यानिटस्थलि इण्निषेधः स बाधकमस्तु, पुरस्तात्प्रतिषेधकाण्डारम्भसामथ्र्यात्। अनाश्रितविधानविशेषमिण्मात्रमनारभ्याधीतेन प्रतिषेधेन यथा बाधेतेत्येतदर्थो हि स आरम्भः। अमुमेवार्थं सिद्धवत्कृत्य "ततश्चतुर्णां थलि भारद्वाजनियमप्रापितस्य वमादिषु क्रादिनियमप्रापितस्य चेटो निषेधार्थर"मिति मूलेऽप्युपनिबद्धमिति। विव्यिव। विव्यिमेति। क्रादिनियमान्नित्यमिट्।