पूर्वम्: ७।२।६९
अनन्तरम्: ७।२।७१
 
सूत्रम्
ऋद्धनोः स्ये॥ ७।२।७०
काशिका-वृत्तिः
ऋद्धनोः स्ये ७।२।७०

ऋकारान्तानां धातूनां हन्तेश्च स्ये इडागमो भवति। करिष्यति। हरिष्यति। हनिस्यति। स्वरतेर् वेट्त्वातृद्धनोः स्ये इत्येतद् भवति विप्रतिषेधेन। स्वरिष्यति। तपरकरणं विस्पष्टार्थम्।
न्यासः
ऋद्धनोः स्ये। , ७।२।७०

विभाषेति निवृत्तम्()। ऋकारान्तानां हन्तेश्चानुदात्तत्वात्? "एकाचः" ७।२।१० इत्यादिना प्रतिषिद्धस्येदः स्ये विधानार्थमेतत्()। अथ स्वरतेः स्वरत्यादिसूत्रेण (७।२।४४) पक्ष इट्? अथानेन नित्यमित्याह--"स्वरतेः" स्ये विधानार्थमेतत्()। अथ स्वरतेः स्वरत्यादिसूत्रेण ७।२।४४ पक्ष इट्(), अथानेन नित्यामित्याह--"स्वरतेः" इत्यादि। स्वरतेर्धातोर्यत्? स्वरत्यादि७।२।४४सूत्रेण वेट्त्वं विहितं तस्मादनेन स्ये ऋकारान्तेभ्यो विधीयमानं नित्येट्त्वं भवति विप्रतिषधेन। अञ्चार्थः स्वरत्यादिसूत्र उक्तेऽपि विस्मरणशीलानामनुग्रहाय पुनरिहोच्यते। अथ तपरकरणं किमर्थम्()? दीर्घाणां मा भूदिति चेत्()? नैतदस्ति; उदात्तत्वाद्धि तेषां भवितव्यमेवेटा। एवं तह्र्रसति तपरकरणे यथा "स्मिपूङ्रञ्ज्वशां सनि" (७।२।७४) इत्यत्र स्वरत्यादिसाहचर्यात्? "ऋः" इत्येतस्य धातोग्र्रहणम्(), तथेहापि हन्तिना साहचार्यात्? "ऋ" इत्येतस्य धातोग्र्रहणं स्यात्()। तपरत्वे तु सति वर्णग्रहणमेतद्विज्ञायते। वर्णनिर्देशे हि तपरत्वं प्रसिद्धम्()। वर्णग्रहणे च वर्णग्रहणानि सर्वत्र तदन्तविधिं प्रयोजयन्तीति ऋकारान्तानामिट सिद्धो भवति॥
बाल-मनोरमा
ऋद्धनोः स्ये २०३, ७।२।७०

लृटि स्ये इण्निषेधे प्राप्ते-- ऋद्धनोः। ऋत् हन् अनयोद्र्वन्द्वात्पञ्चम्यर्ते षष्ठी। "स्ये"षष्ठ()र्थे सप्तमी। "आद्र्धधातुस्ये"डित्यत इडित्यनुवर्तते। तदाह--ऋत इत्यादिना। "एकाच" इतीणनिषेधस्यापवादः। भरिष्यतीति। भरिष्यते। भरतु भरताम्। अभरत् अभरत। भरेत् भरेत।