पूर्वम्: ७।२।७२
अनन्तरम्: ७।२।७४
 
सूत्रम्
यमरमनमातां सक् च॥ ७।२।७३
काशिका-वृत्तिः
यमरमनमाऽतां सक् च ७।२।७३

यम रम नम इत्येषाम् अङ्गानाम् आकारान्तानां च सगागमो भवति परस्मैपदे सिचि, इडागमश्च। यम् अयंसीत्, अयंसिष्टाम् अयंसिष्टां, अयंसिषुः। रम् अरंसीत्, अरंसिष्टाम्, अरंसिषुः। नम् अनंसीत्, अनंसिष्टाम् अनंसिषुः। अकारान्तानाम् अयासीत्, अयासिष्टाम्, अयासिषुः। यमादीनां हलन्तलक्षणा वृद्धिः प्राप्ता सा नेटि प्रतिषिध्यते। परस्मैपदेषु इत्येव, अयंस्त। अरंस्त। अनंस्त।
लघु-सिद्धान्त-कौमुदी
यमरमनमातां सक् च ४९७, ७।२।७३

एषां सक् स्यादेभ्यः सिच इट् स्यात्परस्मैपदेषु। अग्लासीत्। अग्लास्यत्॥ ह्वृ कौटिल्ये॥ १८॥ ह्वरति॥
न्यासः
यमरमनमातं सक्? च। , ७।२।७३

"यम उपरमे" (धा।पा।९८४), "रमु क्रीडायाम्()" (धा।पा।८५३), "णम प्रह्वत्वे शब्दे च" (धा।पा।९८१)। आकारान्ताः "या प्रापणे" (धा।पा।१०४९) इत्येवमादयः। सर्वेषामनुदत्तत्वादिट्प्रतिषेधे प्राप्तेऽयमारम्भः। अत्र षष्ठीनिर्देशाद्यमादीनां सग्भवति, इट्? पुनरार्धधातुकाधिकारात्? सिच एव। "व्यरंसीत्()" इति। "व्याङ्परिभ्यो रमः" १।३।८३ इति परस्मैपदम्()। द्विवचनबहुवचनयोर्युक्तमुदाहरणम्(); अस्ति हि तत्र सगिटोः श्रुतौ विशेषः; एकवचनस्य त्वयुक्तम्(), विशेषाभावात्()--इति यो वेशयेत्(), तं प्रति तत्रापि वृद्धिप्रतिषेधो विशेषोऽस्तीति दर्शयितुमाह--"यमादीनाम्()" इत्यादि। "आयंस्त" ["अयंस्त"--काशिका, पदमञ्जयमिपि--"आयंस्त" इत्येव प्रतीकीद्धारः] इति। "आङो यमहनः" १।३।२८ इत्यात्मनेपदम्()। "अरंस्त" इति। अत्रापि "अनुदात्त" १।३।१२ इत्यादिना॥
बाल-मनोरमा
यमरमनमातां सक् च २१४, ७।२।७३

सिचो लुगभावपक्षे आह-- यमरम। यम, रम, नम, आत्-एषां द्वन्द्वात्षष्ठीबहुवचनम्। "आ"दित्यनेन आदन्तं गृह्रते। तदाह--एषां सगिति। सकि ककार इत्। अकार उच्चारणार्थः। कित्त्वादन्तावयवः। चकारेण "इडत्त्यर्ती"त्यत इडिति, "स्तुसुधूञ्भ्यः" इत्यतः परस्मैपदेष्विति चानुकृष्यते। "अञ्जेः सिची"त्यतः सिचीति च।तच्च षष्ठ()आ विपरिणम्यते। तदाह--सिच इट् चेति। अधासीदिति। धातोः सगागमः। सिच इट्, ईट्। "इट ईटि" इति सिज्लोपः। अधासिष्टामिति। अपृक्तत्वाऽभावादीडभावान्न सिज्लोपः।सस्य षत्वे तकारस्य ष्टुत्वेन टः। आथासिषुरिति। अधासीः अधासिष्टम् अधासिष्ट। अधासिषम् अधासिष्व अधासिष्म। यद्यपि अधासीदित्यत्र सगिटोर्विधिव्र्यर्थ एव, तथापि अधासिष्टामित्याद्यर्थमातः सगिड्विधानम्। यमादीनं तु अयंसीदित्यादौ हलन्तलक्षणवृद्धेरभावार्थम्, अयंसिष्टामित्याद्यर्थं च।तदेतत्तत्तद्धातुषु स्पष्टीभविष्यति। अधास्यत्। ग्लै म्लै। धातुक्षय इति। बलक्षय इत्यर्थः। अनिटाविमौ। ग्लायतीति। शपि आयादेशः। शिद्विषयत्वादात्त्वं न। जग्लाविति। णलि आत्त्वे "आत णौ णल" इति औभावे वृद्धिरिति बावः। अतुसादौ द्वित्वे कृते आतो लोपः। जग्लतुः जग्लुः। भारद्वाजनियमात्थलि वेडित्याह-- जग्लिथ जग्लाथेति। इट्पक्षे आल्लोपः। जग्लथुः जग्ल। जग्लौ जग्लिव जग्लिम। ग्लाता। ग्लास्यति। ग्लायतु। अग्लायत्। ग्लायेत्।

तत्त्व-बोधिनी
यमरमनमातां सक् च १८६, ७।२।७३

यमरमनमाताम्। इह "आद्र्धधातुकस्येड्वलादे"रितीतडनुवर्तते। "अञ्जेः सिची"त्यतः सिज्ग्रहणं, "स्तुसुधूञ्भ्य" इत्यतः परस्मैपदग्रहणं च। तदाह--- एभ्यः सिच इडित्यादि। अयंसीत्। अयंसिष्टाम्। व्यरंसीत्। व्यरंसिष्टाम्। अनंसीत्। अनंसिष्टाम्। परस्मैपदेषु किम्?। उदायंस्त भारम्। अरंस्त। अरंसाताम्।