पूर्वम्: ७।२।७४
अनन्तरम्: ७।२।७६
 
सूत्रम्
किरश्च पञ्चभ्यः॥ ७।२।७५
काशिका-वृत्तिः
किरश् च पञ्चभ्यः ७।२।७५

किरादिभ्यः पञ्चभ्यः सनि इडागमो भवति। कृ̄ चिकरिषति। गृ̄ जिगरिषति। दृङ् दिदरिषते। धृङ् दिधरिषते। प्रच्च्H पित्रच्छिषति। पञ्चभ्यः इति किम्? सिसृक्षति। किरतिगिरत्योः इट् सनि वा ७।२।४१ इति विकल्पः प्राप्तः, वृ̄तो वा ७।२।३५ इति च। अस्येटो दीर्घत्वं न इच्छन्ति।
न्यासः
किरश्च पञ्चभ्यः। , ७।२।७५

"कृ? विक्षेपे" (धा।पा।१४०९), "गृ? निगरणे" (धा।पा।१४१०), "दृङ्? अनादरे" (धा।पा।१४११), "धृङ् अनवस्थाने" ["अवस्थाने--धा।पा।](धा।पा।१४१२), "प्रच्छ ज्ञीपसायाम्()" (धा।पा।१४१३)। अत्रान्त्यस्यानुदात्तत्वादिट्()प्रतिषेधे प्राप्ते, दृङ्घृङोरुगन्तत्वात्? "सनि ग्रहगुहोश्च" ७।२।१२ इति निषेधे प्राप्ते, इतरयोस्तु वृत्तिकारप्रदर्शितविकल्पे प्राप्ते सतीदमारभ्यते। "पिपृच्छिषति" इति। "रुदविद" १।२।८ इत्यादिना सनः कित्त्वम्(), "ग्रहिज्या" ६।१।१६ इत्यादिना सम्प्रसारणम्(), "छे च" ६।१।७१। इति तुक्(), "उरत्()" ७।४।६६ इत्यभ्यासस्यात्त्वम्(), पूर्ववदित्त्वम्()। "सिसृक्षति" इति। "सृज विसर्गे" (धा।पा।११७८)। पञ्चग्रहणादस्येण्न भवति। सामान्यलक्षणोऽपीण्न भवत्येव; "एकाचः" ७।२।१० इति प्रतषेधात्()। "हलन्ताच्च" १।२।१० इति कित्त्वम्(), "चोः कुः" ८।२।३० इति कुत्वम्(), व्रश्चादिसूत्रेण ८।२।६६ षत्वम्(), "षढोः कः सि" ८।२।४१ इति कत्वम्()। "वृतो वेत्यस्य दीर्घत्वं नेच्छन्ति" इति। कथं पुनरिष्यमाणमपि न भवति? व्यवस्थिविभाषाविज्ञानात्()। "अस्य" इति। एतत्सूत्रविहितस्येटः॥
बाल-मनोरमा
दश्च २९९, ७।२।७५

दश्च। "सिपि धातो रुर्वा" इत्यनुवृत्तम्। "द इति षष्ठ()न्तेन धातुर्विशेष्यते। तदन्तविधिः। पदस्येत्यधिकृतम्। तदाह--धातोर्दान्तस्य पदस्येति। अलोऽन्त्यस्येत्यन्त्यस्य ज्ञेयम्। अवेदिति। सिपो हल्ङ्यादिलोपे दकारस्य रुत्वविकल्पः। अवित्तम् अवित्त। अवेदम् अविद्व अविद्म। विद्यात् विद्याताम् विद्युः। विद्यात् विद्यास्ताम्। विद्यासुः। अवेदीत्। अवेदिष्टाम्। अवेदिष्यत्। अस भुवीति। भवनं भूः। सत्तायामित्यर्थः। अस्तीति। सस्य चर्त्वेऽपि सकार एव भवति, नतु तकारः, अल्पप्राणतया प्रयत्नभेदात्।

बाल-मनोरमा
किरश्च पञ्चभ्यः ४३८, ७।२।७५

किरश्च पञ्चभ्यः। किर इति पञ्चमी। किरादिभ्य इति विवक्षितम्। तुदादौ "कृ? विक्षेपे", "गृ? निगरणे", "दृङ् आदरणे", "धृङ् अवस्थाने", "प्रच्छ ज्ञीप्साया"मिति स्थिताः। तदाह -- कृ? गृ? इत्यादिना। सन इडिति। "स्मिपूङ्ञ्जवशां सनी"त्यतः, "इडत्त्यर्ती"त्यतश्च तदनुवृत्तेरिति भावः। किरतिगिरत्योः "इट्सनि वे"ति विकल्पे, अन्येषां च "एकाच" इति निषेधे प्राप्तेऽयमिड्विधिः। शब्देन्दुशेखरे तु "सनि ग्रहेटति "एकाच" इति च निषेधे प्राप्ते वचनमित्युक्तम्। पिपृच्छषतीति। सनः कित्त्वात् "ग्रहिज्ये"ति संप्रसारणम्। चिकरिषतीति। "अचि विभाषे"ति लत्वविकल्प इति भावः। "इट् सनि वे"त्यस्यायमपवादः। चिकरिषति, जिगरिषतीत्यत्र "वृ()तो वे"ति दीर्घमाशङ्क्याह-- अत्रेटो दीर्घो नेष्ट इति। वार्तिकमिदं वृत्तौ स्थितम्। भाष्ये तु न दृश्यते। दिदरिषते दिधरिषते इति। दृङो धृङश्च सनि इटि रूपम्। "पूर्ववत्सनः" इत्यात्मनेपदम्। कथमिति। "उद्दिधीर्षुटरिति कथमित्यन्वयः। किरादित्वेन इट्प्रसङ्गादिति भावः। भौवादिकयोरिति। "धृङ् अवस्थानेट, "धृञ् धारणे" इत्यनयोर्भौवादिकयोः सनि किरादित्वाऽभावे "अज्झनगमां सनी"ति दीर्घे "ऋत इद्धातो"रिति इत्त्वे, रपरत्वे, "हलि चे"ति दीर्घे, षत्वे, उद्दिधीर्ष इत्स्मात्, "सनाशंसभिक्ष उः" इत्युप्रत्यये उद्दिधीर्षुरिति रूपमिति गृहाण- जानीहीति शङ्ककं प्रत्युत्तरम्।

तत्त्व-बोधिनी
दश्च २५९, ७।२।७५

दश्च। "सिपि धातो रुर्वे"त्यनुवर्तते, पदस्येति, "झलां जशोऽन्ते" इत्यस्मादन्त इति च। तदाह--धातोर्दस्येत्यादि। सिपि किम्?। तिपि अवेत्। दान्तस्य धातोः सिपि रुर्वेत्येतावतैवेष्टसिद्धौ पदान्तानुवृत्तिर्मन्दप्रयोजनेत्याहुः। तञ्चिन्त्यम्। वेत्सीत्यत्राऽतिप्रसङ्गात्। चत्र्वस्याऽसिद्धत्वेन दान्तत्वात्।

तत्त्व-बोधिनी
किरश्च पञ्चभ्यः ३८२, ७।२।७५

किरश्च पञ्चभ्यः। "पञ्च"ग्रहणमुत्तरार्थं स्पष्टप्रतिपत्तये इहैव कृतम्। एवं च प्रच्छधातोरनन्तरं गणपाठस्थं वृत्करणं त्युक्तं शक्यम्। अत्रत्य "पञ्चब्य" इत्यनेनैव वृत्करणं यत्तदपाणिनीयमिति व्याख्येयमित्याहुः। केचित्तु-- "भूषाकर्मकिरादिसना"मिति वार्तिके किरादिज्ञानार्थं वृत्करणमावश्यकमित्याहुः॥ अत्रेट इति। "वृ()तो वे"ति प्राप्ते भाष्यकारेष्टिरियम्। भौवादिकयोरिति। तथा च "अज्झनगमा"मिति वक्ष्यमाणेन दीर्घ इति भावः।