पूर्वम्: ७।२।७५
अनन्तरम्: ७।२।७७
 
सूत्रम्
रुदादिभ्यः सार्वधतुके॥ ७।२।७६
काशिका-वृत्तिः
रुदादिभ्यः सार्वधातुके ७।२।७६

रुदादिभ्यः उत्तरस्य वलादेः सार्वधातुकस्य इडागमो भवति। रुद् रोदिति। स्वप् र्वपिति। श्वस् श्वसिति। अन् प्राणिति। जक्ष् जक्षिति। पञ्चभ्यः इत्येव, जागर्ति। सार्वधातुके इति किम्? स्वप्ता। वलादेः इत्येव, रुदन्ति।
न्यासः
रूदादिभ्यः सार्वधातुके। , ७।२।७६

"रुदिर्? अश्रुविमोचने" (धा।पा।१०६७), "ञि ष्वप्? शये" (धा।पा।१०६८), "()आस प्राणने" (धा।पा।१०६९), "अन च" (धा।पा।१०७०), "जक्ष अदने"["भक्षहसनयोः--धा।पा।] (धा।पा।१०७१)। रुदादयोऽदादिषु पठ()न्ते। "उभयनिर्देशे पञ्चमीनिर्देशो बलीयान्()" (शाक।प।९७) इति "रुदादिभ्यः" इत्येषा पञ्चमी "सार्वधातुके" इत्यस्याः सप्तम्याः षष्ठीत्वं प्रकल्पयति। सप्तमीनिर्देशस्तदूत्तरार्थः। तेन सार्वधातुकस्य वलादेरिङ्? विज्ञायत इत्यत आह--"रुदादिभ्यः पञ्चभ्यः" इत्यादि। "प्राणिति" इति। "अनितेः" ८।४।१९ इति णत्वम्()। "स्वप्ता" इति। सार्वधातुकग्रहणादार्धधातुकस्येण्न भवति। सामान्यलक्षण इण्न भवत्येव; "एकाचः" ७।२।१० इति प्रतिषेधात्()। अन्येभ्यस्तु रुदादिभ्य उदात्तत्वादार्थधातुकस्यापीटा भवितव्यमेवेति स्वपेरेव प्रत्युदाहरणम्()॥
बाल-मनोरमा
रुदादिभ्यः सार्वधातुके ३०५, ७।२।७६

रुदादिभ्यः। इड्वलादेरित्यनुवृतिं()त मत्वाह-- वलादेरिति। रुदित इति। ङित्त्वान्न गुणः। रुदन्ति। रोदिषि रुदिथः रुदिथ। रोदिमि रुदिवः रुदिमः। रुरोद रुरुदतुः। [रुरुदुः] रुरोदिथ। [रुरुदथुः। रुरुद। रुरोद]।रुरुदिव रुरुदिम। रोदिता। रोदिष्यति। रोदितु--रुदितात् रुदिताम् रुदन्तु। रुदि हि इति स्थिते "हुझल्भ्यः" इति धित्वमाशङ्क्य आह-- हौ परत्वादिति। रुदिहीति। हेरपित्त्वेन ङित्त्वान्न लघूपधगुण इति भावः। रुदितात् रुदितम् रुदित। रोदानि रोदाव रोदाम।

तत्त्व-बोधिनी
रुदादिभ्यः सार्वधातुके २६४, ७।२।७६

वलादेः सार्वधातुकस्येति। वलादेः किम्?। रुदन्ति। सार्वधातुके किम्?। स्वप्ता। धित्वं नेति। सकृद्गताविति न्यायात्, हेर्धिरिति स्थान्यादेशयोरिकार उच्चारणार्थ इत्यादिप्रागुक्तसमाधानाद्वेति भावः।