पूर्वम्: ७।२।७८
अनन्तरम्: ७।२।८०
 
सूत्रम्
लिङः सलोपोऽनन्त्यस्य॥ ७।२।७९
काशिका-वृत्तिः
लिङः सलोपो ऽनन्त्यस्य ७।२।७९

सार्वधातुके इति वर्तते। सार्वधातुके यो लिङ् तस्य अनन्त्यस्य सकारस्य लोपो भवति। कः पुनरनन्त्यो लिङः सकारः? यो यासुट्सुट्सीयुटाम्। कुर्यात्, कुर्याताम्, कुर्युः। कुर्वीत, कुर्वीयाताम्, कुर्वीरन्। अनन्यस्य इति किम्? कुर्युः। कुर्याः। सार्वधातुके इत्येव, क्रियास्ताम्। क्रियासुः। कृषीष्ट, कृषीयास्ताम्, कृषीरन्।
लघु-सिद्धान्त-कौमुदी
लिङः सलोपोऽनन्त्यस्य ४२९, ७।२।७९

सार्वधातुकलिङोऽनन्त्यस्य सस्य लोपः। इति प्राप्ते --।
न्यासः
लिङः सलोपोऽनन्त्यस्य। , ७।२।७९

"सार्वधातुके यो लिङ्()" इति। "सार्वधातुके" ७।२।७६ इत्येषात्र निर्धारणे सप्तमी, जातावेकवचनम्(), यथा "कारके" १।४।२३ इति। अथ वा--सुब्व्यत्ययेन बहुवचनस्य परसङ्ग एकवचनम्()। परसप्तमीत्येषा न न भवति--सार्वधातुके परतः; पूर्वस्य लिङोऽसम्भवात्()। "कुर्यात्()" इति। विध्यादिसूत्रेम ३।३।१६१ लिङ्, यासुट्(), "इतश्च" ३।४।१०० इतीकारलोपः, धातोर्गुणः, रपरत्वे "अत उत्? सार्वधातुके" ६।४।११० ३।४।१०८, "उस्यपदान्तात्()" ६।१।९३ इति पररूपत्वम्()। "कुर्वीत" इति। उकारस्य यणादेशः। "कुर्वीरन्()" इति। "झस्य रन्()" ३।४।१०५। "कुर्युः" कुर्याः" इति। अत्रानन्त्यग्रहणाज्जुसः सिपश्च न भवति। "क्रियास्ताम्(), क्रियासुः" इति। आशिषि लिङ्? ३।३।१७३, "रिङ्शयग्लिङ्क्षु" ७।४।२८ इति रिङादेशः। सार्वधातुकग्रहणादार्धधातुके न भवति। आर्धधातुकत्वं च "लिङाशिषि" ३।४।११६ इत्यार्धधातुकसंज्ञाविधानात्()। "कृषीष्ट, ह्मषीष्ट" इति। "उश्च" १।२।१२ इति कित्त्वम्(), गुणाभावः॥
बाल-मनोरमा
लिङः सलोपोऽन्त्यस्य ६०, ७।२।७९

लिङः स। सेति लुप्तषष्ठीकं पदम्। "रुदादिभ्यः सार्वधातुके" इत्यतः सार्वधातुक इत्यनुवृत्तं षष्ठ()आ विपरिणम्यते। तदाह--सार्वधातुकलिङ इति। सकाद्वयस्यापीति। अविशेषात्सकारद्वयस्यापि युगल्लोपः प्रवर्तते, "लक्ष्ये लक्षणस्य सकृदेव प्रवृत्ति"रिति तु पर्यायेण पुनः प्रवृत्तिनिवृत्तिपरमिति भावः। यद्यपि भव यास् स् त् इत्यत्र स्कोरित्येव सिध्यति, तथापि भवेयुरित्याद्यर्थं सूत्रम्। ननु सुटो लोपे किमर्थस्सुड्विधिरित्यत आह-- सुटः श्रवणं त्वाशीर्लिङीति। भूयास्तमित्यादौ। लिङाशिषीत्याद्र्धदातुकत्वेन तत्र सकारलोपस्याऽप्रसक्तेरिति भावः। "व्यञ्जनपरस्यैकस्याऽनेकस्य वोच्चारणे विशेषाऽभाव" इति भाष्यादाह-- स्फुटतरं त्विति। तत्रापि = आशिषि लिङ्यपि, एधिषीष्टेत्यादावात्मनेपदे स्फुटतरं सकारद्वयस्य श्रवणमित्यर्थः। तत्र यासुटोऽभावेन, सलोपाऽभावेन च सुट एव सकारस्य पृथक् स्पष्टं श्रवणसम्भवादिति भावः।

तत्त्व-बोधिनी
लिङः स लोपोऽनन्त्यस्य ४५, ७।२।७९

"रुदादिभ्यःर" इति सूत्रात्सार्वधातुक इत्यनुवर्तते, सेति लुप्तषष्ठीकमनन्त्यस्येत्यनेन विशेष्यते। तदाह-- सार्वधातुकलिङोऽनन्त्यस्येति। सकारद्वयस्यापीति। अवयवावयवोऽपि समुदायं प्रत्यवयव इत्याश्रयणात्सुटोऽपि लिङ्भक्तत्वादिति भावः। आशीर्लिङीति। भूयास्तमित्यादौ। ननु सुटि कृते "अनचि चे"ति द्वित्वस्याऽसिद्धत्वात्ततः प्रागेव "स्को"रिति यासुटः सकारो लुप्यते, झलि परे यः संयोगस्तदादित्वात्। तथा चैकसकारं रूपं तुल्यम्। सुडभावे यासुटः सकारस्य द्वित्वे कृते सुटि "स्को"रिति सलोपात्सुट एव सकारस्य द्वित्वे च द्विसकारकमपि रूपं तुल्यमेवेति सुटो विधानं व्यर्थमित्यपरितोषादाह-- स्फुटतरं त्विति। एधिषीष्टेत्यादाविति भावः।