वशादौ कृति प्रत्यये परतः इडागमो न भवति। वरमनादौ प्रयोजनम्। ईशिता। ईशितुम्। ईश्वरः। दीपिता। दीपितुम्। दीप्रः। भसिता। भसितुम्। भस्म। याचिता। आचितुम्। याच्ञा। वरमनादौ इत्युदाहरणप्रदर्शनार्थम्, न परिगणनम्। तेन ञमन्ताड्डः इत्येवम् आदावपि हि प्रतिषेधो भवति। अथ तत्र उणादयो बहुलम्
३।३।१ इति समाधीयते? सम्भवोदाहरनप्रदर्शनम् एतत्।
कृति इति किम्? रुदिवः। रुदिमः।
"आर्धधातुकस्येड्वलादेः
७।२।३५ इतीटं वक्ष्यति, तस्य यत्र प्रकृतिलक्षणः परतिषेधो नास्ति तत्रानेन प्रतिषेधः क्रियते।
पुरस्तात्? प्रतिषेधकाण्डस्य प्रयोजनं क्रादिनियमसूत्रे
७।२।१३ वक्ष्यति। "ईशिता" इत्यादि प्रत्ययान्तरे त्विटो भावेन "एकाच उपदेशेऽनुदात्तात्()"
७।२।१० इति यः प्रकृतिनिमित्तकः प्रतिषेधस्तदभावमेवाचष्टे। "ई()आरः" इति। "ईश ऐ()आर्ये" (धा।पा।१०२०), "स्थेशभास"
३।२।१७५ इत्यादिना वरच्()। "दीप्रः" इति। "दीपी दीप्तौ" (धा।पा।११५०), "नमिकम्यि"
३।२।१६७ इत्यादिना रः। "भस्म" इति। "भस भर्सनदीप्त्योः" (धा।पा।११००)। "आतो मनिन्क्वनिब्वनिपश्च"
३।२।७४ इत्यादौ "अन्येभ्योऽपि दृश्यन्ते"
३।२।७५ इति मनिन्()। "याच्ञा" इति। "टु याचृ याच्ञायाम्()" (धा।पा।८६३)। "यजयाच"
७।३।६६ इत्यादिना नङ्()।
"वरमनादौ प्रयोजनम्()" इति यदुक्तं तत्र प्ररिगणनत्वमवधार्य य एवं चोदयेत्()--यदि वरमनादाविति परिगणनं क्रियते तदा "षणु दाने" (धा।पा।१४६४), "ञमन्ताड्डः" (पं।उ।१।१०४)--षण्डः, "शमः खः" (पं।उ।१।११३)--शङ्ख इत्यादौ प्रतिषेधो न प्राप्नोतीति--तं प्रति नेदं परिगणनमिति दर्शयितुमाह--"वरमनादावित्युदाहरणम्()" इति। "अथ तत्र" इत्यादि। तत्रौणादिके डप्रत्यये समाधीयेतेति परिगणनपक्षभादि चोद्यं परिह्यियत इत्यर्थः। "सम्बवोदाहरणप्रदर्शनार्थमेतत्()" इति। अत्रापि न परिगणनमेतदिति सम्बध्यते। प्रतिषेधस्य सम्भव उदाह्यियते। यत्र कृति प्रतिषेधः सम्भवति तस्य प्रदर्शनार्थमेतदुक्तं भवति। यत्र वसादौ कृतीद्प्रतिषेधः सम्भवति, तस्य प्रदर्शनार्थं वरमनादावित्युक्तम्(),
न पुनरेतत्? परिगणनमिति। "रुरुदिव, रुरुदिम" इति। अत्र कृद्ग्रहणादार्धधातुकस्येटो न भवति प्रतिषेधः॥