पूर्वम्: ७।२।८६
अनन्तरम्: ७।२।८८
 
सूत्रम्
द्वितीयायां च॥ ७।२।८७
काशिका-वृत्तिः
द्वितीयायां च ७।२।८७

द्वितीयायां च परतः युष्मदस्मदोः आकारादेशो भवति। त्वाम्। माम्। युवाम्। आवाम्। युष्मान्। अस्मान्। आदेशार्थं वचनम्।
लघु-सिद्धान्त-कौमुदी
द्वितीयायाञ्च ३२०, ७।२।८७

अनयोरात्स्यात्। त्वाम्। माम्॥
न्यासः
द्वितीयायाञ्च। , ७।२।८७

"त्वाम्(), माम्()" इति। "त्वमावेकवचने" ७।२।९७ इति त्वमादेशौ। "युवाम्(), आवाम्()" इति। "यवावौ१ द्विवचने" ७।२।९२ इति युवावादेशौ। सर्वत्र "ङे प्रथमपोरम्()" (७।१।२८) इत्यम्भावे विभक्तेः कृतोऽमि पूर्ववत्वम्? ६।१।१०३
बाल-मनोरमा
द्वितीयायां च , ७।२।८७

त्व अद् अम्, म अद् अम् इति स्थिते-। द्वितीयायां च। शेषपूरणेन सूत्रं व्याचष्टे--युष्मदस्मदोरिति। "युष्मदस्मदोरनादेशे" इत्यतस्तदनुवृत्तेरिति भावः। आकार इति। "अष्टन आ विभक्तौ" इत्यतस्तदनुवृत्तेरिति भावः। तथाच द्वितीयाविभक्तौ परतो युष्मदस्मदोराकारः स्यादिति फलति। "अलोऽन्त्यस्ये"ति दकारस्य भवति। त्व अ आ अम्, म अ आ अमिति स्थिते पररूपे, सवर्णदीर्घे, अमि पूर्वरूपे च परिनिष्ठितं रूपमाह--त्वां मामिति। युवाम्। आवामिति। पूर्ववत्। "द्वितीयायां चे"त्यात्वमिति विशेषः। प्रथमायाश्चे"त्यस्याऽत्राप्रवृत्तेः।