पूर्वम्: ७।२।८७
अनन्तरम्: ७।२।८९
 
सूत्रम्
प्रथमायाश्च द्विवचने भाषायाम्॥ ७।२।८८
काशिका-वृत्तिः
प्रथमायाश् च द्विवचने भाषायाम् ७।२।८८

प्रथमायाश्च द्विवचने परतो भाषायां विषये युष्मदस्मदोः आकारादेशो भवति। युवाम्। आवाम्। प्रथमायाः इति किम्? युवयोः। आवयोः। द्विवचने इति किम्? त्वम्। अहम्। यूयम्। वयम्। भाषायाम् इति किम्? युवं वस्त्राणि पीवसा वसाथे।
लघु-सिद्धान्त-कौमुदी
प्रथमायाश्च द्विवचने भाषायाम् ३१७, ७।२।८८

औङ्येतयोरात्वं लोके। युवाम्। आवाम्॥
न्यासः
प्रथमायाश्च द्विवचने भाषायाम्?। , ७।२।८८

इदमप्यादेशार्थं वचनम्()। "युवयोः, आवयोः" इति। ननु च "योऽचि" (७।२।८९) इति यत्वमत्र वाधकं भविष्यति? प्रथमाद्विवचनेऽपि तर्हि शेषेलोपो ७।२।९० बाधकः स्यात्()। तत्र यथा वचनसामथ्र्याच्छेषेलोपोऽनेन बाध्यते, तथा यत्वमपि बाध्येत। "पुरस्तादपवादा अनन्तरान्? विधीन्? बाधन्ते नोत्तरान्" (व्या।प।९) इति यत्वमपि बाध्येत। तस्मात्? "प्रथमायाः" इति वक्तव्यम्() "त्वम्? अहम्()" इति। "त्वाहौ सौ" ७।२।९४ त्वाहावादेशौ। "औ" इति वक्तव्ये प्रथमाया द्विवचनं वैचित्र्यार्थम्()
बाल-मनोरमा
प्रथमायाश्चाद्विवचने भाषायाम् , ७।२।८८

युव-अद्, आव-अदिति स्थिते "शेषे लोपः" इति प्राप्ते--प्रथमायाश्च द्विवचने। "अष्टन आ विभक्तौ" इत्यत आग्रहणमनुवर्तते। "युष्मदस्मदोरनादेशे" इत्यतो युष्मदस्मदोरिति च। तदाह--इहेति। भाषायां प्रथमाद्विवचने परे इत्यर्थः। बाषायामित्यस्य तु लोकिकव्यवहारे इत्यर्थः। युवाम्। आवामिति। युव अद् अम्, आव् अद् अम् इत्यत्र दकारस्य आत्वे पूर्वयोरकारयोः पररूपे ततः सवर्णदीर्घे "अमि पूर्वः" इति भावः। औङीत्येव सुवचमिति। द्वितीयाद्विचनेऽप्यात्वस्य इष्टत्वादिति भावः। युवं वस्त्राणीति। युष्मद्-औ इति स्थिते मपर्यन्तस्य युवादेशे सति शेषलोपे रूपम्। मपर्यन्तस्य किमिति। युष्मदस्मदोः समस्तयोरेव युवावादेशयोः कृतयोरपि आत्वे पूर्वरूपे च युवाम् आवामिति सिद्धेरिति प्रश्नः। साकच्कस्येति। "अव्यवसर्वनाम्ना"मिति टेः प्रागकचियुष्मकद्-औ अस्मकद्-औ इति स्थिते "ङे प्रथमयो"रित्यमि "युवावौ द्विवचने" इति समस्तयोः साकच्कयोस्तन्मधय्पतितन्यायेन युवावादेशयोः "प्रथमायाश्चे"ति दकारस्य आत्वे अमि पूर्वे च युवाम् आवामित्येव स्यात्, ककारो न श्रूयेत,?तो मपर्यन्तस्येति वचनमित्यर्थः। ननु समुदायादेशत्वेऽपि "ओकारसकारभकारादौ सुपि सर्वनाम्नष्टेः प्रागकचि युवकाम् आवकामिति सिध्यत्येव, अत्र साकच्कयोर्युवावादेशाप्रसक्तेरित्यस्वरसादाह--त्वया मयेति। यदि मपर्यन्तस्येति न स्यात्तदा "त्वमावेकवचने" इति त्वमादेशौ समस्तयोः स्याताम्। ततश्च तृतीयैकवचने युष्मद् आ, अस्मद् आ इति स्थिते समस्तयोः स्थाने त्वमादेशयोः त्व-आ, म-आ इति स्थिते "योऽचि" इत्यकारस्य यत्वे त्व्या म्या इति स्यात्। अतो "मपर्यन्तस्ये"ति वचनम्। सति तस्मिन्()मपर्यन्तस्य त्वमादेशयोः कृतयोः-त्व अद् आ, म अद् आ इति स्थिते अकारयो पररूपे दकारस्य यत्वे च त्वया मया इति सिध्यतीत्यर्थः। ननु "योऽची"ति सूत्रस्थाने "अच्ये" इति सूत्रमस्तु। अजादिविभक्तौ युष्मदस्मदोरन्त्यस्य एकारः स्यादिति तदर्थः। तथाच त्वमयोः समस्तादेशत्वेऽपि तदन्त्यस्याकारस्य एत्त्वे अयादेशे च कृते त्वया मयेति सिध्यतीत्यस्वसादाह--युवकाभ्यामावकाभ्यामिति च न सिध्येदिति। "असति मपर्यन्तवचने" इति शेषः। "ओकारसकारे"त्यादिवचनेन भ्यामि टेः प्रागकचि तन्मध्यपतितन्यायेन साकच्कयोः स्थाने युवावादेशयोः युवाभ्यावावाभ्यामित्येव स्यात्। ककारो न श्रूयेत। युष्मकद् अस्मकद् इत्यत्र मपर्यन्तस्यैव युवावादेशयोस्तु "युष्मदस्मदोरनादेशे" इत्यात्वे युवकाभ्याम् आवकाभ्यामिति निर्बाधमित्यर्थः।

तत्त्व-बोधिनी
द्विवचने भाषायाम् ३४६, ७।२।८८

युवं वस्त्राणीति। शेषे लोपः। मपर्यन्तस्य किमिति। अधिकारसूत्रं किमर्थमिति प्रश्नः। युवकाम्। आवकामिति। ननु युवावयोः समुदायाशत्वेऽपि "युवका"मित्यादि सिध्यति। "ओकारसकारभकारादौ सुपि सर्वनामष्टेः प्रागकच्, अन्यत्र तु सुबन्तस्यटेः प्रा"गिति युष्मदस्मद्विषये व्यवस्थायास्त्वयका मयकेत्यादिसिद्धये वक्ष्यमाणत्वात्, किमनेन "मपर्यन्तस्ये"त्यधिकारेणेत्यपरितोषादाह--त्वया मयेत्यत्रेति। ननु त्वमादेशयोरपि समुदायादेशत्वे "त्वये"त्यादि साधयितुं शक्यत एव, "योऽची"ति सूत्रं परित्यज्य "अच्ये"इति सूत्रे कृते अजादौ विभक्तौ परतोऽन्त्यस्य एकारदेशे सत्ययादेशप्रवृत्तेरिति पुनरपरितोषादाह--