पूर्वम्: ७।२।८
अनन्तरम्: ७।२।१०
 
सूत्रम्
तितुत्रतथसिसुसरकसेषु च॥ ७।२।९
काशिका-वृत्तिः
तितुत्रतथसिसुसरकसेषु च ७।२।९

ति तु त्र त थ सि सु सर क स इत्येतेषु कृत्सु इडागमो न भवति। ति इति क्तिङ्क्तिचोः सामन्यग्रहणम्। क्तिच् तनिता। तनितुम्। तन्तिः। क्तिन् दीपिता। दीपितुम्। दीप्तिः। तु सितनिगमिमसिसच्यविधाञ्क्रुशिभ्यस्तुन्। सचिता। सचितुम्। सक्तुः। त्र दाम्नीशसयुयुज इति ष्ट्रन्। पतिता। पतितुम्। पत्रम् वाहनम्। उणादिष्वपि सर्वधातुभ्यः ष्ट्रन्। तनिता। तनितुम्। तन्त्रम्। त हसिमृग्रिण्वा अमिदमिलूपूधुर्विभ्यस्तन्। हसिता। हसितुम्। हस्तः। लविता। लवितुम्। लोतः। पविता। पवितुम्। पोतः। धूर्विता। धूर्वितुम्। धूर्तः। औणादिकस्य एव तशब्दस्य ग्रहणम् इष्यते, न पुनः क्तस्य, हसितम् इत्येव हि तत्र भवति। थ हनिकुषिनीरमिकाशिभ्यः क्थन्। कोषिता। कोषितुम्। कुष्ठम्। काशिता। काशितुम्। काष्ठम्। सि प्लुषिशुषिकुषिभ्यः क्षिः। कोषिता। कोषितुम्। कुक्षिः। सुक् च इषेः। एषिता। एषितुम्। इक्षुः। अशेः क्षरन्। अशिता। अशितुम्। अक्षरम्। क इण्भीकापाशल्यतिमर्चिभ्यः कन्। शलिता। शलितुम्। शल्कः। स वृ̄तृ̄वदिहनिकमिकषिभ्यः सः। वदिता। वदितुम्। वत्सः। तितुत्रतथेष्वग्रहादीनाम् इति वक्तव्यम्। ग्रहादयो ग्रहप्रकाराः, येषाम् इट् क्तिनि दृश्यते। निगृहीतिः। उपस्निहितिः। निकुचितिः। निपठितिः। कृति इत्येव, रोदिति। स्वपिति।
लघु-सिद्धान्त-कौमुदी
तितुत्रतथसिसुसरकसेषु च ८४८, ७।२।९

एषां दशानां कृत्प्रत्ययानामिण् न। शस्त्रम्। योत्रम्। योक्त्रम्। स्तोत्रम्। तोत्त्रम्। सेत्रम्। सेक्त्रम्। मेढ्रम्। पत्रम्। दंष्ट्रा। नद्ध्री॥
बाल-मनोरमा
तितुत्रतथसिसुरकसेषु च ९६५, ७।२।९

तितुत्रत। ति, तु, त्र, त,थ, सि, सु, सर, क , स एषां दशानां द्वन्द्वः। अत्र "सरे"त्येकम्। ति, -- तन्तिः। "स्त्रिया"मिति क्तिन्। तु- सक्तुः। "तनिगमी"त्यादिना "तु"प्रत्ययः। त्र, -- शस्त्रम्, पत्रम्। "दाम्नी"ति त्रप्रत्ययः। त, --हस्तः। औणादिकस्तप्रत्ययः। क्तप्रत्यये तु हसितमित्येव। थ-- कुष्टम्। औणादिकः क्थप्रत्ययः। सि--कुक्षिः। कुषेरौणादिकः क्सिप्रत्ययः। सु-- इक्षुः। इषेरौणादिकः क्सुप्रत्ययः। सर-- अक्षरम्। अशेः सरन्। कृ शल्कः। शलेः कः। स -- वत्सः। "वदेः सः"। मेढ्रमिति। "मिह सेचने" त्रः। ढत्वध्तवष्टुत्वलोपाः। दंष्ट्रेति। दंशधातोस्त्रः। क्ङित्प्रत्ययाऽभावान्नलोपो न। सूत्रे दशेति शपा नर्देशात् "दंशसञ्जे"ति नलोपः। केचित्तु देशेत्यकार उच्चारणार्थः। नलोपनिर्देशात्क्वचिदन्यस्मिन्नपि प्रत्यये अक्ङित्यपि नलोप इति "दशन दन्ताः" इत्याहुः। नद्ध्रीति। नह्रते अनयेति विग्रहः। चर्मरज्जुः। "नह बन्धने" त्रः। "नहो धः" "झषस्तथो"रिति तस्य धः। षित्त्वाङीष्।

तत्त्व-बोधिनी
दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे ७८९, ७।२।९

दाम्नी।

तत्त्व-बोधिनी
तितुत्रतथसिसुरकसेषु च ७९०, ७।२।९

मेढ्रमिति। "हो ढः"। धत्वष्टुत्वढलोपाः। दंष्ट्रेति। षित्वेऽपि ङीषिह न भवति, "अनित्यः षितां ङी"षित्युक्तत्वात्। अन्ये त्वजादिपाठाट्टापमाहुः। नद्द्रीति। "नहो धः" इति धत्वम्। "झषस्तथोर्धोऽधःट इति जश्त्वम्। सूत्रे "दशे"ति नलोपिनो निर्देशो ज्ञापकः-- "क्वचिदकित्यपि दंशेर्नलोपो भवती"ति। तेन दंश दशने इत्यस्माल्ल्युटि "दशना दन्ता" इति सिद्धम्। न च सन्निधानात् ष्ट्रन्येव नलोपः स्यादिति वाच्यम्, "सुनो दन्तदंष्ट्रे"ति निर्देशात्।