पूर्वम्: ७।२।८९
अनन्तरम्: ७।२।९१
 
सूत्रम्
शेषे लोपः॥ ७।२।९०
काशिका-वृत्तिः
शेषे लोपः ७।२।९०

शेषे विभक्तौ युष्मदस्मदोर् लोपो भवति। कश्च शेषः? यत्र आकारो यकारश्च न विहितः। पञ्चम्याश्च चतुर्थ्याश्च षष्ठीप्रथमयोरपि। यान्यद्विवचनान्यत्र तेषु लोपो विधीयते। त्वम्। अहम्। यूयम्। वयम्। तुभ्यम्। मह्यम्। युष्मभ्यम्। अस्मभ्यम्। त्वत्। मत्। युष्मत्। अस्मत्। तव। मम। युष्माकम्। कस्माकम्। शेषग्रहणं विस्पष्टार्थम्। शेषे लोपे कृते स्त्रियां टाप् कस्मान् न भवति, त्वं ब्राह्मणी, अहं ब्राह्मणी? स्न्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य, अलिङ्गे वा युस्मदस्मदी इति। केचित् तु शेषे लोपं टिलोपम् इच्छन्ति। कथम्? वक्ष्यमाणादेशापेक्षः शेषः, ते चादेशा मपर्यन्तस्य विधीयन्ते, तेन मपर्यन्ताद् यो ऽन्यः स शेषः इति। तत्र अयं लोपः इति टिलोपो भवति।
लघु-सिद्धान्त-कौमुदी
शेषे लोपः ३१५, ७।२।९०

एतयोष्टिलोपः। त्वम्। अहम्॥
न्यासः
शेषे लोपः। , ७।२।९०

"यान्यद्विवचनानि" इति। एकवचनबहुवचनानीत्यर्थः। "अत्र" इति। पञ्चम्यादिषु विभक्तिषु। "तेषु लोपो विधीयते" इति। तेषामेव शेषत्वात्()। "तुभ्यम्, मह्रम्()" इति। "तुभ्यमह्रौ ङयि" ७।२।९५ इति तुभ्यमह्रावादेशौ भवतः। "युष्मभ्यम्()" अस्मभ्यम्()" इति। "भ्यसो भ्यम्()" ७।१।३० इति भ्यमादेशः। "तव, मम" इति। "तवममौ ङसि" ७।२।९६ इति तवममादेशौ। "युष्माकम्(), अस्माकम्()" इति। "साम आकम्()" ७।१।३३ इति। अथ शेषग्रहणं किमर्थम्(), न "लोपः" इत्येवोच्येत, एवमुच्यमाने सत्यविशेषेण लोपः स्यादित्येतच्च नाशङ्कनीयम्(), अविशेषेण हि लोपो विधीयमान उत्सर्गो भविष्यति, तस्यानादेशे विभक्तिविशेषे यकाराकारापवादौ, एवञ्चान्तरेणापि शेषग्रहणं शेष एव लोपोऽवस्थाप्यते? इत्यत आह--"शेषग्रहणं विस्पष्टार्थम्()" इति। "शेषेलोपे कृते स्त्रियां टाप्? कस्मान्न भवति" इति। अन्त्यलोपे कृते सत्यदन्तत्वात्? "अजाद्यतष्टाप्()" ४।१।४ इति टापा भवितव्यमिति भावः। "सन्निपात" इत्यादि। विभक्त्यानन्तर्ये हि सति युष्मदस्मदी अकारान्ते समुपजाते। तत्र यदि टापमुत्पादयेयाताम्(), तदा विभक्तेरानन्तर्य ताभ्यां विहतं स्यात्()। न च यो यत्सन्निपातलक्षणः स तद्विघातस्य निमित्तं भवतीति न भवति टाप्()। यद्येवम्(), त्यदादिभ्योऽपि न स्यात्()? नैष दोषः; यदयम्? "न यासयोः" ७।३।४५ इति निर्देशं करोति, तज्ज्ञापयति--भवति त्यदादिभ्यष्टाविति। अयञ्च स्त्रीलिङ्गत्वं युष्मदस्मदोरभ्युपेत्य परीहार उक्तः। इदानीं स्त्रीलिङ्गाभावादेव टाब्न भवतीति दर्शयितुमाह--"अलिङ्गे" इत्यादि। "केचित्तु शेषेलोपं टिलोपमिच्छन्ति" इति। त्वं ब्राआह्रणी, अहं ब्राआहृणी--इत्यत्र टाब्मा भूदित्येवमर्थम्()। युष्मभ्यम्(), अस्मभ्यमित्यत्र भ्यमादेशे कृते "बहुवचने झल्येत्()" ७।३।१०३ इत्येत्त्वं मा भूदित्येवमर्थञ्च। "कथम्()" इति। एवं मन्यते--यत्र विभक्तावाकारो यकारश्च न विहितः स शेषः, तत्र शेषेलोप उचयमानष्टिलोपो न लभ्यते। "अलोऽन्त्यस्य" १।१।५१ इति परिभाषयाऽन्त्यस्यैव प्राप्नोतीति वक्ष्यमाणादेशापेक्षया शेष इत्यस्यार्थं "ते च" इत्यादिना स्पष्टीकरोति। "मपर्यन्ताद्योऽन्यः स शेषः" इति। स पुनष्टिरेव। अत्रायं शेषोलोपष्टिलोपो भवतीति लोपं प्रति शेषस्याधिकरणविवक्षायां सप्तमी। किमर्थं पुनर्लोप इत्युच्यते, यावता त्यदाद्यत्वेनैव सिद्धम्()? न सिध्यति; अत्यदादित्वात्()। त्यदादित्वं हि द्वपर्यन्तास्त्यदादयः" इति। तत्र चैतदेव शेषेलोपवचनं ज्ञापकम्()। तेन भवच्छब्दस्य त्यदाद्यत्वं न भवति--भवानिति॥
बाल-मनोरमा
शेषे लोपः , ७।२।९०

शेषे लोपः। "अष्टन आ विभक्तौ" इत्यत आविभक्तौ" इत्यनुवर्तते। विभक्तावित्यनुवृत्तं "शेषे" इत्यनेनान्वेति। "युष्मदस्मदोरनादेशे", "द्वितीयायां च", "प्रतमायाश्च द्विवचने भाषायां", "योऽची"त्यात्वयत्वयोः प्रागुक्तत्वात्तद्विषयातिरिक्तविभक्तिरिह "शेष" शब्दार्थः। "युष्मदस्मदो"रिति चानुवृत्तन्तदाह-आत्वयत्वेति। अन्त्यस्येति। अलोऽन्त्यपरिभाषालभ्यम्। शेषग्रहणमिह विभक्तिविशेषणं स्पष्टार्थमेव, विशेषविहिताभ्यामात्वयत्वाभ्यां स्वविषये बाधसंभवादिति प्रकृतसूत्रे, "युष्मदस्मद्भ्यां ङ्सोऽश्" इति सूत्रे च भाष्यकैयटयोः स्पष्टम्। अतो गुणे इति। पूर्वयोरकारयोः पररूपमिति बावः। त्व अम्, अह अम् इत्यत्र पूर्वसवर्णदीर्घमाशङ्कमाह-अमि पूर्व इति। अत्र शङ्कतेनन्विति। "ननु च स्याद्विरोधोक्तौ" इत्यमरः। शङ्कायामिति यावत्। अन्तरङ्गत्वादिति। "अजाद्यतः" इति टापः परनिमित्तानपेक्षतया पररूपादन्तरङ्गत्वं बोध्यम्। अर्धाङ्गीकारेण परिहरति--सत्यमिति। पररूपादन्तरङ्गष्टावित्यङ्गीक्रियते। इह प्रवृत्तिस्तु तस्य नाङ्गीक्रियते इत्यर्थः। अलिङ्गे युष्मदस्मदी इति। "साम आक"मिति सूत्रे भाष्ये पठितमेतत्। "युष्मदस्मदी"इत#इ शब्दस्वरूपपरत्वान्नपुंसके। शब्दस्वरूपपरत्वादेव च "त्यदादीनि सर्वैर्नित्य"मित्येकशेषोऽपि न, अत एव भाष्यप्रयोगात्। तेनेति। अलिङ्गत्वेनेत्यर्थः। ननु "ङे प्रथमयोः" इति सूत्रे भाष्ये पुंसि युष्मानस्मानित्यत्र "तस्माच्छसो न पुंसी"ति नत्वस्य सिद्धत्वात् "शसो ने"ति नत्वविधिवैयथ्र्यमाशङ्क्य स्त्रियां नपुंसके च युष्मान्ब्राआहृणीः पश्य, अस्मान्ब्राआहृणीः पश्य, युष्मान्ब्राआहृणकुलानि पश्य, असमान्ब्राआहृणकुलानि पश्ये"त्यत्र नत्वार्थं "शसो ने"ति नत्वाविधानमित्यादि स्थितम्। किंच स्वमोर्नपुंसकादित्यधिकारे "नेतराच्छन्दसी"ति सूत्रे "नपुंसकादेशेब्यो युष्मदस्मदोर्विभक्त्यादेशा विप्रतिषेधेने"ति वार्तिकतद्भाष्ययोः शिशीलुङ्नुम्भिर्नपुंसकविहितैस्त्वाहादियुष्मदस्मदादेशानां विप्रतिषेध उपन्यस्तः। अतो युष्मदस्मदोरलिङ्गत्वमनुपपन्नम्। "साम आम"मिति सूत्रे "अलिङ्गे युष्मदस्मदी" इति भाष्यं तु पुंस्त्रीनपुंसकलिङ्गपदान्तरसमभिव्याहारं विना लिङ्गविशेषो युष्मदस्मच्छब्दाभ्यां न प्रतीयते इत्येवंपरमिति तत्रैव भाष्ये स्पष्टम्। एवंच युष्मदस्मदोः स्त्रीलिङ्गसत्त्वाट्टाब्दुर्वार इत्यस्वरसादाह-यद्वेति। अधिकरणत्वविवक्षयेति। "विवक्षातः कारकाणि भवती"ति वक्ष्यमाणत्वादिति भावः। यदि हि शेषे इति विभक्ति विशेषणं स्यात्तर्हि व्यर्थमेव स्यात्, आत्वयत्वाभ्यां विशेषविहिताभ्यां स्वविषये लोपस्य बाधसंभवात्। अतः शेषस्य स्थाने इत्यर्थ आस्थेयः। ततः किमित्यत आह-तेनेति। शेषस्य स्थाने इत्यर्थाश्रयणेनेत्यर्थः। मपर्यन्तादिति। मपर्यन्तस्येत्यपकृष्टं पञ्चम्यन्ततया विपरिणम्यत इति भावः। एतच्च "त्यदादीनामः" इति सूत्रे "टिलोपष्टाबभावार्थः कर्तव्य इति स स्मृतः। अथवा शेषसप्तम्या शेषे लोपो विधीयते।" इति वार्तिकतद्भाष्ययोः स्पष्टम्। नच मपर्यन्तस्य त्व इति अह इति चादेशे कृते शिष्टस्य अदित्यस्य मपर्यन्तात्परत्वं नास्तीति वाच्यं, त्वाहादेशयोः कृतयोरदो लोपप्रवृत्तिवेलायां मपर्यन्ताच्छेषत्वाऽभावेऽपि त्वाहादेशप्रवृत्तेः पूर्वकालिकमपर्यन्ताच्छेषस्य अद्शब्दस्य लोपस्तथापि त्व अद् अम्, अह अद् अम् इति स्थिते पररूपापेक्षया परत्वाददो लोपे अदन्तत्वाट्टाब्दुर्वार इत्यत आह-स चेति। शेषे लोप इत्यर्थः। अन्तरङ्गे इति। "अतो गुणे" इत्यस्य बहिर्भूतविभक्त्यपेक्षलोपापेक्षयाऽन्तरङ्गत्वं बोध्यम्। अदन्तत्वाभावादिति। त्व अद् , अह अद् इत्यत्र पररूपे सति त्वद् अहद् इति स्थिते अदो लोपे त्व् अह् इत्यनयोरदन्तत्वाऽभावान्न टाबित्यर्थः। परमत्वमिति। "ङे प्रथमयोः" इत्यादीनामाङ्गत्वात्तदन्तविधिरिति भावः। अतित्वमिति। "ङे प्रथमयो"रित्यादीनां गौणेऽप्रवृत्तौ मानाऽभावादिति भावः।

तत्त्व-बोधिनी
शोषे लोपः ३४४, ७।२।९०

आत्वयत्वनिमित्तेतरेति। अन्त्यस्येति। अलोन्त्यपरिभाषयेति भावः। अतो गुण इति। नत्यास्तु "त्वाहौ सा"वित्यत्र त्वाहादेशयोरन्त्याकार उच्चारणार्थ एवाऽस्तु किमनेन पररूपकरणप्रयासेनेत्याहुः। त्वम्। अहमिति। ननु युष्मानतिक्रान्तः "अतित्व"मित्यादौ "त्वाहौ सौ"इत्यस्यावकाशोऽस्ति, त्वामतिक्रान्तेनाऽतित्वयेत्यादौ "त्वमावेकवचने"इत्स्यावकाशः, त्वमबमित्यत्र तूभयोः प्रसङ्गे "त्वमावेकवचने"इत्यनेन परत्वाद्भाव्यम्। नैष दोषः,--"त्वमावपि प्रबाधन्ते पूर्वविप्रतिषेधतः"इति वक्ष्यमाणत्वात्। अधिकरणत्वविवक्षयेति। यदि तु "शेषे"इति विभक्तिविशेषणं स्यात्तर्हि व्यर्थमेव तत्, आत्वयत्वाभ्यां विशेषविहिताभ्यां स्वविषये लोपस्य बाधसम्भवत्। न चैवमन्त्यलोप इति पक्षस्य निरालम्बनतापत्त्या युष्मदस्मदोरन्त्यस्य लोपः स्यादिति ग्रन्थोऽयुक्त इति बाच्यम्, "साम आक"मिति ससुट्कनिर्द्देशेन तस्यापि पक्षस्य ज्ञापितत्वादिति भावः। अतो गुणे कृते प्रवर्तते ति। "वार्णादाङ्गं बलीयः"इति तु समानाश्रय एव भवति, न तु व्याश्रये। इह तु शेषेलोपस्य विभक्तिर्निमित्तं, पररूपस्य त्वकार इति व्याश्रयत्बमिति भावः। समानाश्रये उदाहरणं तु "कारक"इत्यादि बोध्यम्। तत्र हि यण्वृद्द्योः प्राप्तयोर्वृद्धिरेव भवति। आङ्गत्वात्तदन्तविधिरित्याह----परमत्वमित्यादि।