पूर्वम्: ७।२।९१
अनन्तरम्: ७।२।९३
 
सूत्रम्
युवावौ द्विवचने॥ ७।२।९२
काशिका-वृत्तिः
वक्ष्यति युवावौ द्विवचने ७।२।९२

युवाम्। आवाम्। मपर्यन्तस्य इति किम्? युवकाम्, आवकाम् इति साकच्कस्य मा भूत्। त्वमावेकवचने ७।२।९७ त्वया। मया। मपर्यन्तस्य इति किम्? सर्वस्य मा भूत्। तथा च सति त्वमयोरकारस्य यो ऽचि ७।२।८९ इति यकारे कृते अनिष्टं रूपं स्यात्। मान्तस्य इत्येव सिद्धे अस्मिन् यत् परिग्रहणं कृतम्, अवधिद्योतनार्थं तत्। मान्ते मा भूत्। कदा? यदा ण्यन्तयोः क्विपि मान्तत्वं विद्यते युष्मदस्मदोः। स्थानिवत्त्वं च णेरत्र क्वौ लुतत्वान् न विद्यते। युवावौ द्विवचने ७।२।९२। द्विवचने इत्यर्थग्रहणम्। द्विवचने ये युष्मदस्मदी द्व्यर्थाभिधानविषये तयोः मपर्यन्तस्य स्थाने युव आव इत्येतावादेशौ भवतः। युवाम्। आवाम्। युवाभ्याम्। आवाभ्याम्। युवयोः। आवयोः। यदा समासे द्व्यर्थे युष्मदस्मदी भवतः, समासार्थस्य अन्यसङ्खत्वातेकवचनं बहुवचनं वा भवति, तदा अपि द्व्यर्थयोः युष्मदस्मदोः युवावौ भवतः , यदि त्वाहौ सौ ७।२।९४ इत्येवम् आदिना आदेशान्तरेण न बाध्येते। अतिक्रान्तं युवाम् अतियुवाम्। अत्यावाम्। अतिक्रान्तान् युवाम् अतियुवान्। अत्यावान्। अतिक्रान्तेन युवाम् अतियुवया। अत्यावया। अतिक्रान्तैर्युवाम् अतियुवाभिः। अत्यावाभिः। अतिक्रान्तेभ्यो युवाम् अतियुवभ्यम्। अत्यावभ्यम्। अतिक्रान्ताद् युवाम् अतियुवत्। अत्यावत्। अतिक्रान्तेभ्यो युवाम् अतियुवत्। अत्यावत्। अतिक्रान्तानां युवाम् अतियुवाकम्। अत्यावाकम्। अतिक्रान्ते युवाम् अतियुवयि। अत्यावयि। अतिक्रान्तेषु युवाम् अतियुवासु। अत्यावासु। त्वाहादीनां तु विषये परत्वात् ते एव भवन्ति। अतिक्रान्तो युवाम् अतित्वम्। अत्यहम्। अतिक्रान्ता युवाम् अतियूयम्। अतिवयम्। अतिक्रान्ताय युवाम् अतियुभ्यम्। अतिमह्यम्। अतिक्रान्तस्य युवाम् अतितव। अतिमम। यदा तु युष्मदस्मदी एकत्वबहुत्वयोर् वर्तेते, समासार्थस्तु द्वित्वे, तदा युवावौ न भवतः। अतिक्रान्तौ त्वाम् अतित्वाम्। अतिमाम्। अतिक्रान्तौ युष्मानतियुष्मान्। अत्यस्मान्। एवमुन्नेयम्।
न्यासः
युवावौ द्विवचने। , ७।२।९२

"द्विवचने" इति। यदीदं पारिभाषिकस्य दविवचनस्य ग्रहणं स्यात्(), स्यात्(), तदा तस्मिन्? परत एव तावादेशो भवेताम्()। तथा च यदा समासे द्व्यर्थे युष्मदस्मदी भवतः, समासार्थस्य त्वन्यसंख्यत्वादेकवचनं बहुवचनं वा समासाद्भवति, तदा न स्यातामिति; यदा युष्मदस्मदी एकत्वे वा बहुत्वे वा वत्र्तेते समासार्थस्य द्वित्त्वे सति समासाद्()द्ववचनं वति, तदा युवादौ स्यातामेव, एतच्चानिष्टम्()" इति। द्वयोरर्थयर्वचनमुक्तिः=द्विवचनम्()। "द्विवचने ये युष्मदस्मदी" इति। "द्विवचने" इति। विषयसपतमीयम्()। तदेव विषयसप्मीत्वमस्या व्यक्तीकर्तुमाह--"द्व्यर्थाभिधानविषये" इति। "द्वयोरर्थयोरभिधानं द्व्यर्थाभिधानम्(), तद्विषय ये युष्मदस्मदी ते तथोक्ते। "तयोः" इत्यादि। तयोर्युष्मदस्मदोर्मपर्यन्तावयवः स्थानी, तस्य युवावौ भवतः। "यदा" इत्यादिनार्थग्रहणे सति यदिष्टं सिध्यति तद्दर्शयति। यदि तर्हि समासादेकवचनबहुवचनयोरुपजातयोर्द्व्यर्थाभिधानदिषयत्वाद्युष्मदस्मदोर्युवावौ भवतः, एवं सति "त्वाहौ सौ" ७।२।९४, "यूयववौ जसि" ७।२।९३, "तुभ्यमह्रौ ङपि" ७।२।९५, "तदममौ ङसि" (७।२।९६)--इत्येषामपि विषये स्याताम्()? इत्यत आह--"यदि त्वाहौ सौ" इत्यादि। "अतियुवामत्यावाम्()" इति। "आत्यादयः क्रान्ताद्यर्थे" (वा।९१) इति प्रादिसमासः। तत्र योऽसौ युष्मदस्मदर्थञ्चातिक्रान्तः स एकसंख्यावच्छिन्नोऽर्थ इति तत्र यद्यप्येकवचनं भवति, तथापि द्व्यर्थाभिधानविषयत्वाद्युष्मदस्मदोर्युवावौ भवत एव। अत्र हि "द्वितीयायाञ्च" ७।२।८७ इत्यात्त्वम्()। "अतियुवान्(), अत्यावान्()" इति। "शसो न" ७।१।२९ इति नत्वम्()। "अत्यावया" इति। "योऽचि" ७।२।८९ इति यत्वम्()। "अतियुवाभिरत्यावाभिः" इति। "युष्मदस्मदोरनादेशे" ७।२।८६ इत्यात्त्वम्()। "अतियुवभ्यमत्यावभ्यम्()" इति। "भ्यसो भ्यम्()" ७।१।३०। "अतियुवदत्यावत्()" इति। "एकवचनस्य च" ७।१।३२ इति ङसेरदादेशः। बहुवचनस्य तु "पञ्चम्या अत्()" ७।१।३१ इत्यनेन। "अतियुदाकम्(), अत्यावाकम्()" इति। "साम आकम्()" ७।१।३०। "अतियुवदत्यावत्()" इति। "एकवचनस्य च" ७।१।३२ इति ङसेरदादेशः। बहुवचनस्य तु "पञ्चम्या उत्" ७।१।३१ इत्यनेन। "अतियुवाकम्(), अत्यावाकम्()" इति। "साम आकम्()" ७।१।३३ "अतियुवयि, अत्यादयि" इति। पूर्ववद्यत्वम्()। "अतियुवासु अत्यावासु" इति। पूर्ववदात्त्वम्()। "त्वाहादीनां विषये" इत्यादिना यदुक्तं--"यदि त्वहौ ७।२।९४ इत्यादिनाऽ‌ऽदेशान्तरेण न बाध्येते" इति, तद्धिस्पष्टीकरोति--"यदा तु" इत्यादिना। अर्थग्रहणे सति यदिष्टमुपपद्यते तद्दर्शयति--"अतित्वामतमाम्()" इति। अत्र यो युष्मदस्मदर्थावतिक्रान्तौ तौ द्विसंख्यौ समासार्थाविति समासाद्यद्यमि द्विवचनं भवति, तथापि युष्मदस्मदोर्द्व्यर्थता नास्तीति युवावौ न भवतः। त्वमावेव भक्तः। "प्रथमायाश्च द्विवचने भाषायाम्()" ७।२।८८ इत्यात्त्वम्()। अथ वा--द्वितीयाद्विवचनमेतत्(), ततः "द्वितीयायाञ्च" ७।२।८७ इति। "एवसुन्नेयम्()" इति। वचनान्तरेष्वप्यादेशाभावं दर्शयति। युष्मानतिक्रान्तौ पश्य अतियुष्माम्(), अत्यस्माम्()। अतिक्रान्ताभ्यां त्वां कृतमतित्वाभ्याम्(), अतिमाभ्याम्()। अतिक्रान्ताभ्यां युष्मान्? कृतमतियुष्माभ्यां कृतम्()। त्वामतिक्रान्ताभ्यां देहि अतित्वाभ्यां देहि, अतिमाभ्यां देहि। अतिक्रान्ताभ्यां युष्मान्? देहि अतियुष्माभ्यामत्यस्माभ्यां देहि। अतिक्रान्ताभ्यां त्वामागतोऽतिस्याभ्यामागतः, अतिमाभ्यामागतः। अतिक्रान्तभ्यां युष्मानागतोऽतियुष्माभ्यामागतः, अत्यस्माभ्यामागतः। अतिक्रान्तयोस्त्वां स्वमतित्वयोः स्वम्(), अतिमयोः स्वम्()। युष्मानतिक्रान्तयोः स्वमतयुष्मयोः स्वम्(), अत्यस्मयोः स्वम्()। अतिक्रान्तयोस्त्वां निधेहि अतित्वयोर्निधेहि, अतिमयोर्निधेहि। अतिक्रान्तयोर्युष्मान्निधेहि, अतियुष्मयोर्निधेहि, अत्यस्मयोर्निदेहि॥
बाल-मनोरमा
युवावौ द्विवचने , ७।२।९२

"युष्मद्-औ, अस्मद्-औ, इति स्थिते "ङे प्रथमयो"रित्यमि कृते युष्मद्-अम्, अस्मद्-अम् इति स्थिते-युवावौ द्विवचने। "युष्मदस्मदोरनादेशे" इत्ययो युष्मदस्मदोरित्यनुवर्तते। मपर्यन्तस्येत्यदिकृतम्। उक्तिर्वचनम्। द्वयोर्वचनं द्विवचनम्। तत्र समर्थयोरित्यर्थः। द्वित्वविशिष्टार्थवाचिनोरिति यावत्। नतु द्विवचनसंज्ञके प्रत्यये परे इत्यर्थः, वचनग्रहणसामथ्र्यात्। अन्यथा "द्वित्वे" इत्येव ब्राऊयात्। "अष्टन आ विभक्तौ" इत्यते विभक्तावित्यस्यानुवृत्तौ सत्यां द्वित्वे या विभक्तिस्तस्यां परत इत्यर्थलाभात्। तदाह--द्वयोरुक्तावित्यादिना। द्वयोरुक्तावित्याश्रयणस्य फलमग्रे मूल एव स्पष्टीभविष्यति।

तत्त्व-बोधिनी
युवावौ द्विवचने ३४५, ७।२।९२

युवावौ द्विवचने। उक्तिर्वचनं, द्वयोर्वचनं द्विवचनं, तदेतदाह--द्वयोरुक्ताविति।न चात्र कृत्रिमाऽकृत्रिमन्यायविरोधः शङ्क्यः, वचनग्रहणसामथ्र्यादेव तद्बाधात्। अन्यथा "द्वित्वे"इत्येव ब्रायात्। "अष्टन आ विभक्ता"वित्यतो विभक्तावित्यधिकाराद्द्वित्वे य विभक्तिस्तस्यां परत इति ब्याख्यानसंभवात्।