पूर्वम्: ७।२।९२
अनन्तरम्: ७।२।९४
 
सूत्रम्
यूयवयौ जसि॥ ७।२।९३
काशिका-वृत्तिः
यूयवयौ जसि ७।२।९३

युष्मदस्मदोः मपर्यन्तस्य जसि परतो यूय वय इत्येतावादेशौ भवतः। यूयम्। वयम्। परमयूयम्। परमवयम्। अतियूयम्। अतिवयम्। तदन्तविधिरत्र भवति, अङ्गाधिकारे तस्य च तदुत्तरपदस्य च इति।
लघु-सिद्धान्त-कौमुदी
यूयवयौ जसि ३१८, ७।२।९३

अनयोर्मपर्यन्तस्य। यूयम्। वयम्॥
न्यासः
यूयवयौ जसि। , ७।२।९३

"परमयूयम्()" इति। "अङ्गाधिकारे तस्य च तदुत्तरपदस्य च" (पु।प।वृ।८५) इति वचनादुत्तरपदयोरपि भवतः। अथ वा--"जसि" इति परसप्तमीयम्(), तेन समस्तयोरपि जसि परत इति भवतः। परमयूयमित्यादावपि युष्मदस्मद्भ्यां जसः परत्वमस्त्येव॥
बाल-मनोरमा
यूयवयौ जसि , ७।२।९३

"ङे प्रथमयो"रिति जसोऽमि कृते विशेषमाह--यूववयौ जसि। स्पष्टमिति। युष्मदस्मदोर्मपर्यन्तस्य यूय वय इत्यादेशौ२ स्तौ जसि परत इति सुगममित्यर्थः। यूय अद् अम्, वय अद् अम् इति स्थिते पररूपे "शेषे लोपः" इति मपर्यन्ताच्छेषस्य अदो लोपे परिनिष्ठितं रूपमाह--यूयं वयमिति। परमयूयमिति।यूयवयविधेराङ्गत्वात्तदन्तविधिरिति भावः। अतियूयमिति। गौणत्वेऽपि तदप्रवृत्तौ मानाऽभावादिति भावः। अत्र शीभावमाशङ्क्य परिहरति-इहेति। इह "शेषे लोप इत्यन्त्यलोप" इति पक्षे दकारस्य लोपे सति अवर्णान्तात्सर्वनाम्नः परत्वाज्जसः शीभावः। प्राप्तो न भवतीत्यन्वयः। कुत इत्यत आह-अङ्गकार्ये इति अङ्गादिकारविहिते कार्ये कृते सति पुनरङ्गाधिकारविहितं कार्यं न भवतीत्यर्थः। तेन त्वमित्यत्र पररूपे कृते "अमि पूर्वः" इत्यस्य नानुपपत्तिः। "ज्यादादीयसः" इति सूत्रे "ज्ञाजनोर्जे"ति सूत्रे च "अङ्गवृत्ते पुनर्वृत्तावविधि"रिति परिभाषा स्थिता। सा चाऽत्रार्थत उपनिबद्धा। नच द्वाभ्यामित्यत्र त्यदाद्यत्वे कृते "सुपि चे"ति दीर्घो न स्यादिति वाच्यं, "द्वयोरेकस्ये"त्यादिनिर्देशेन तदनित्यत्वज्ञापनात्। प्रकृते च शेषलोपस्य आङ्गस्य प्रवृत्तत्वाद#आङ्गः शीभावो न भवतीति भावः। ननु "अङ्गकार्ये" इति परिभाषा नात्र प्रवर्तते। शीभावस्य अङ्गाधिकारविहितत्वेऽपि अङ्गाधिकरणकत्वाऽभावात् "अह्गवृत्ते पुनर्वृत्तावविधिः" इति परिभाषास्वारस्येन तथैव प्रतीतेः। अतोऽत्र शीभावो दुर्वार इत्यस्वरसादाह--ङे प्रतमयोरिति। "ङे प्रथमयोर"मित्यत्र अम् म् इति मकारान्तरं प्रश्लिष्यते। अम् च म् चेति द्वन्द्वः। अन्त्यो मकारः संयोगान्तलोपेन लुप्तः। प्रश्लिष्टश्च मकारोऽमो विशेषणं, तदन्तविधिः मकारान्तोऽम् स्यादिति लभ्यते। मकारान्तस्य अमः पुनर्मान्तत्वविधानादम् मान्त एव भवति नतु तस्य विकारो भवतीति लभ्यते। अतो न शीभाव इत्यर्थः। वस्तुतस्तु मकारान्तरप्रश्लेषो बाष्येऽदर्शनादुपेक्ष्यः। संनिपातपरिभाषयैवाऽत्र शीभावो न भवति। दकारस्य शेषलोपो हि आत्वयत्वनिमित्तेतरात्मकशेषविभक्त्यात्मकस्य अमो युष्मदस्मदोश्च संनिपातमाश्रित्य प्रवृत्तः। ततः शीभावे तु आद्गुणे यूये वये इति स्यात्। तत्र एकादेशस्य पूर्वान्तत्वे प्रकृत्यनुप्रवेशात् प्रत्ययसंनिपातभङ्गः। परादित्वे तु युष्मदस्मत्संनिपातविरोध इत्यलम्।

तत्त्व-बोधिनी
यूयवयौ जसि ३४७, ७।२।९३

युवकाभ्यादित्यादि। अङ्गकार्य इति। एतेन "अङ्गवृत्ते पुनर्वृत्तावविधि"रिति परिभाषा अर्थत उपनिवबद्धा। "अङ्गे-अङ्गधिकारे-वृत्तं वर्तनं यस्य तदङ्गवृत्तं शास्त्रं, तस्मिन्प्रवृत्ते सति पुनरन्यास्याऽङ्गवृत्तशाश्त्रस्य प्रवृत्तौ प्राप्तायामविधिः"इति तत्परिभाषाया अर्थः। एषा च परिभाषा "ज्ञाजनोर्जे"त्यनेन ज्ञापिता। उपपत्तिस्तु मनोरमातोऽवगन्तव्या। न चैवं "द्वाभ्या"मित्यत्र त्यदाद्यत्वे कृते "सुपि चे"ति दीर्घो न स्यादिति वाच्यं, "द्वयोरेकस्ये"त्यादिनिर्देशेन उक्तपरिभाषाया अनित्यत्वज्ञापनादिति दिक्। मकारान्तरमित्युपलक्षणं, "जसश्श्शी"त्यत्र "जसः स्िति सकारं प्रश्लिष्य सान्तस्य जस इति व्याख्यानात्, "अतोऽ"मितिसूत्रादम्ग्रहणमनुवर्त्त्य "अम् अमेवे"ति व्याख्यानाद्वेति बोध्यम्।