पूर्वम्: ७।३।१०५
अनन्तरम्: ७।३।१०७
 
सूत्रम्
सम्बुद्धौ च॥ ७।३।१०६
काशिका-वृत्तिः
सम्बुद्धौ च ७।३।१०६

आपः इति वर्तते। सम्बुद्धौ च परतः आबन्तस्य अङ्गस्य एत्वं भवति। हे खट्वे। हे बहुराजे। हे कारीषगन्ध्ये।
लघु-सिद्धान्त-कौमुदी
सम्बुद्धौ च २१८, ७।३।१०६

आप एकारः स्यात्सम्बुद्धौ। एङ्ह्रस्वादिति संबुद्धिलोपः। हे रमे। हे रमे। हे रमाः। रमाम्। रमे। रमाः॥
न्यासः
सम्बुद्धौ च। , ७।३।१०६

बाल-मनोरमा
संबुद्धौ च २८६, ७।३।१०६

संबुद्धौ च। "बहुवचने झल्ये"दित्यत एदिति, "आङि चापः" इत्यत "आप" इति चानुवर्तते। तदाह-आप इत्यादिना। आबन्तस्येत्यर्थः। "अलोऽन्त्यस्य"। हे रमे स् इति स्थिते प्रक्रियां दर्शयति--एङ्ह्यस्वादिति। हल्ङ्यादिलोपस्तु न, परत्वात्प्रतिपदोक्तत्वाच्च एत्त्वे कृते हल्ङ्यादिलोपस्याऽप्राप्तेः, "एङ्ह्यस्वा"दिति लोपस्यैव परत्वेन न्याय्यत्वाच्चेति भावः। रमामिति। "अमि पूर्वः" इति पूर्वरूपम्। औङः शीभावे आद्गुणं मत्वाह--रमे इति। स्त्रीत्वादिति। शसि रमा-असिति स्थिते पूर्वसवर्णदीर्घे सति कृतपूर्वसवर्णदीर्घात्परत्वेऽपि "तस्माच्छसः" इति नत्वं स्त्रीलिङ्गत्वान्न भवतीत्यर्थः। रमा-आ इति स्थिते।

तत्त्व-बोधिनी
संबुद्धौ च २४८, ७।३।१०६

संबुद्धौ च। "बहुवचने झल्येत्" "आङि चापः"इत्यत "एत्"ाप"इति चानुवर्तते, तदाह---आप स्यादिति। एङ्ह्यस्वादिति। न चात्र हल्ङ्यादिनैध सुलोपोऽस्तु, प्रत्ययलक्षणन्यायेन "सुबुद्धौ चे"त्येत्त्वस्यापि प्रवृत्तिसंभवादिति शङ्कयं, परत्वाकत्प्रतिपदोक्तत्वच्च एत्त्वे कृते हल्ङ्यादिलोपस्याऽप्राप्तेः, स्थानवद्भावादाप्त्वेऽप्याकाररूपत्वाऽभावात्। "आ आ"बित्याकारं पर्श्लिष्य दीर्घग्रहणस्य प्रत्याख्यानात्। "एङ्ह्यस्वा"दिति लोपस्यैव परत्वेन न्याय्यत्वाच्चेति भावः।