पूर्वम्: ७।३।१०६
अनन्तरम्: ७।३।१०८
 
सूत्रम्
अम्बाऽर्थनद्योर्ह्रस्वः॥ ७।३।१०७
काशिका-वृत्तिः
अम्बार्थनद्योर् ह्रस्वः ७।३।१०७

सम्बुद्धौ इति वर्तते। अम्बार्थनाम् अङ्गानां नद्यन्तानां ह्रस्वो भवति सम्बुद्धौ परतः। हे अम्ब। हे अक्क। हे अल्ल। नद्याः खल्वपि हे कुमारि। हे शार्ङ्गरवि। हे ब्रह्मबन्धु। हे वीरबन्धु। डलकवतीनां प्रतिषेधो वक्तव्यः। हे अम्बाडे। हे अम्बाले। हे अम्बिके। छन्दसि वेति वक्तव्यम्। हे अम्बाड, हे अम्बाडे। हे अम्बाल, हे अम्बाले। हे अम्बिक, हे अम्बिके। तलो ह्रस्वो बा ङिसम्बुद्ध्योरिति वक्तव्यम्। देवते भक्तिः, देवतायां भक्तिः। हे देवत, हे देवते। छन्दस्येव ह्रस्वत्वम् इष्यते। मातृ̄णां मातच् पुत्रार्थम् अर्हते। मातृ̄णां मातजादेशो वक्तव्यः सम्बुद्धौ, पुत्राय पुत्रम् अभिधातुम् कीदृशाय? अर्हते। मात्रा व्यपदेशम् अर्हति श्लाघनीयत्वाद् यः पुत्रस् तदर्थम्। हे गार्गीमात। नद्यृतश्च ५।४।१५३ इति समासान्तापवादो मातजादेशः। चित्करणम् अन्तोदात्तार्थम्।
लघु-सिद्धान्त-कौमुदी
अम्बार्थनद्योर्ह्रस्वः १९६, ७।३।१०७

सम्बुद्धौ। हे बहुश्रेयसि॥
न्यासः
अम्बार्थनद्योर्ह्वस्वः। , ७।३।१०७

पूर्वस्यायमपवादः। अम्बार्थाः=मात्रर्थाः। "डलकवतीनाम्()" इत्यादि। डलाका यासां श्रुतीनां सन्तीति ता डलकवत्यः। असंयोगावयवभूता डलका इह गृह्रन्ते। अन्यथा हे अक्क, हे अल्ल--इत्यत्रापि स्यात्()। वक्तव्यशब्दस्य व्याख्यय इत्येषोऽर्थः उत्तरयोरपि वक्तव्यशब्दयोरयमेवार्थो वेदितव्यः। तत्रैदं व्याख्यानम्()--"बहुलं छन्दसि" ७।३।९७ इत्यतो बहुलग्रहणं मण्डूकप्लुतिन्यायेनानुवत्र्तते, तेन सर्वं प्रतिषेधादिकं कार्यमपि भविष्यतीति। "अर्हते" इति। प्रशंसाभाजनभूतायेत्यर्थः। "गार्गोमाता" इति। यो गाग्र्या मात्रा ष्यपदेशेन प्रशंसामर्हति स एवमुच्यते॥
बाल-मनोरमा
अम्बार्थनद्योह्र्यस्वः २६५, ७।३।१०७

अम्बार्थानामिति। अम्बापर्यायाणामित्यर्थः नद्यन्तानामिति। अङ्गाधिकारस्थत्वात्तदन्तविधिः। तुल्यन्यायत्वादम्बार्थानामित्यत्रापि तदन्तविधिर्बोध्यः। सम्बुद्धाविति। "सम्बुद्धौ चे"त्यतस्तदनुवृत्तेरिति भावः। अम्बागौर्यादिशब्देषु ह्यस्वत्वं तु व्यपदेशिवद्भावेन तदन्तत्वाज्ज्ञेयम्। हे बहुश्रेयसि इति। ह्यस्वे सति "एङ्ह्यस्वा"दिति सम्बुद्धिलोपः। ह्यस्वे गुणस्तु न, प्रक्रियालाघवाय "अम्बार्थनद्योह्र्यस्वः" इत्यनुक्त्वा "अम्बार्थनद्योर्गुणः" इति वाच्ये ह्यस्वविधिसामथ्र्यादिति स्पष्टं भाष्ये। बहुश्रेयस्यौ। बहुश्रेयस्यः। "दीर्घाज्जसि चे"ति पूर्वसवर्णदीर्घनिषेधे यण्। "अमि पूर्वः"। बहुश्रेयसीम्। बहुश्रेयस्यौ। बहुश्रेयसीनिति। पूर्वसवर्णदीर्घ सति "तस्माच्छसः" इति नत्वमिति भावः। बहुश्रेयस्या। अघित्वान्नाभावो न, किन्तु यणादेशः। बहुश्रेयसीभ्याम्। बहुश्रेयसीभिः। बहुश्रेयसी-ए इति स्थिते घित्वाऽभावान्न तत्कार्यम्। यणि बहुश्रेयस्ये इति प्राप्ते-।

तत्त्व-बोधिनी
अम्बार्थनद्योह्र्यस्वः २२७, ७।३।१०७

वर्णसंज्ञापक्षाश्रयेणाह---नद्यन्तानामिति। हे बहुश्रेयसीति। अत्र ह्यस्वबुधानसामथ्र्याद्गुणो न प्रवर्तते। अन्यथा "अम्बार्थनद्योर्गुण"इत्येव ब्राऊयात्। न च लाघवाऽभावः शङ्क्यः, ह्यस्वग्रहणे मात्राधिक्यात्, "ह्यस्वस्यट गुणः"इत्युत्तरसूत्रे गुणग्रहणत्यागेन सुतरां लाघवसंभवाच्च। अन्ये तु कृतेऽपि ह्यस्वे यदि गुण इष्टः स्यात्तर्हि "अम्बार्थानां ह्यस्वः"इत्युक्त्वा "नदीह्यस्वयोर्गुणः"इत्येव ब्राऊयादित्याहुः। तत्र पदलाघवाऽभावेऽपि प्रक्रियालाघवमस्ति, परन्तु "जसि च त्यत्र" "ह्यस्वस्ये"त्येकदजाशानुवृत्तौ क्लेशोऽस्तीति बोध्यम्।