पूर्वम्: ७।३।१०८
अनन्तरम्: ७।३।११०
 
सूत्रम्
जसि च॥ ७।३।१०९
काशिका-वृत्तिः
जसि च ७।३।१०९

जसि परतो ह्रस्वान्तस्य अङ्गस्य गुणो भवति। अग्नयः। वायवः। पटवः। धेनवः। बुद्धयः। जसादिषु छन्दसि वावचनं प्राङ् णौ चङ्युपधाया ह्रस्व इत्येतस्मात्। इतः प्रकरणात् प्रभृति छन्दसि वा इति वक्तव्यम् किं प्रयोजनम्? अम्बे, दर्वि, शतक्रत्वः, पश्वे नृभ्यः, किकिदीव्या। अम्बे, अम्ब। पूर्णा दर्वि, पूर्णा दर्वी। अधा शतक्रत्वः, शतक्रतवः। पश्वे नृभ्यः, पशवे। किकिदीव्या, किकिदीविना।
लघु-सिद्धान्त-कौमुदी
जसि च १६८, ७।३।१०९

ह्रस्वान्तस्याङ्गस्य गुणः। हरयः॥
न्यासः
जसि च। , ७।३।१०९

"जसादिषु" इत्यादि। आदिशब्दः प्रकारे। जस्प्रकारेषु प्रत्ययेष्वित्यर्थः। "इतः प्रकरणात्()" इति। "अम्बार्थनद्योह्र्यस्वः" ७।३।१०७ इत्येवमादिकात्()। "छबदसीति वक्तव्यम्()" इति। छन्दसि विषये वा कार्यं भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं तु तदेव बहुलवचनमाश्रित्य कत्र्तव्यम्()। "अम्बे" इत्यादि। "अम्बार्थनद्योह्र्यस्वः" ७।३।१०७ इति ह्यस्वो न भवति। "दर्वी" इत्यत्र ह्यस्वस्य गुणः। "शतक्रत्वः" इत्यत्रापि "जसि च" ७।३।१०९ इति। "प()ओ" इति। "धेर्ङिति" ७।३।१११ इति गुणः। "किकिदीव्या" इति। अत्र "आङो नास्त्रियाम्()" ७।३।११९ इति नाभावः॥
बाल-मनोरमा
जसि च २३९, ७।३।१०९

जसि च। "ह्यस्वस्य गुणः" इत्यनुवर्तते। "अह्गस्ये"त्यधिकृतं ह्यस्वेन विशेष्यते। तेन तदन्तविधिः। तदाह--ह्यस्वान्तस्येत्यादिना। हरय इति। अलोऽन्त्यपरिभाषयाऽन्त्यस्य गुणः। इकारस्य तालुस्थानसाम्यादेकारः। अयादेशः। रुत्वविसर्गाविति भावः।