पूर्वम्: ७।३।११३
अनन्तरम्: ७।३।११५
 
सूत्रम्
सर्वनाम्नः स्याड्ढ्रस्वश्च॥ ७।३।११४
काशिका-वृत्तिः
सर्वनाम्नः स्याड् ढ्रस्वश् च ७।३।११४

सर्वनाम्नः आबन्तादङ्गादुत्तरस्य ङितः प्रत्यय्स्य स्याटागमो ह्रस्वश्च भवति। सर्वस्यै। विश्वस्यै। यस्यै। तस्यै। कस्यै। अन्यस्यै। सर्वस्याः। विश्वस्याः। यस्याः। तस्याः। कस्याः। अन्यस्याः। आपः इत्येव, भवति। भवते।
लघु-सिद्धान्त-कौमुदी
सर्वनाम्नः स्याड्ढ्रस्वश्च २२१, ७।३।११४

आबन्तात्सर्वनाम्नो ङितः स्याट् स्यादापश्च ह्रस्वः। सर्वस्यै। सर्वस्याः। सर्वासाम्। सर्वस्याम्। शेषं रमावत्॥ एवं विश्वादय आबन्ताः॥
न्यासः
सर्वनाम्नः स्याड्ढ्स्वश्च। , ७।३।११४

याटोऽपवादः। आकारोच्चारणं सर्वस्या इत्यत्र यथा स्यात्(), अन्यथा पररूपत्वं प्रसज्येत। अकारोच्चारणसामथ्र्यान्न प्रसज्येत--इत्येतच्च नाशङ्कनीयम्(), तद्धि तस्यामित्यत्र "ऊडिदम्पदाद्यप्पुम्रैद्युभ्यः" ६।१।१६५ इति विभक्त्युदात्तत्वं मा भूत्(), आगमानुदत्तत्वं यथा स्यादित्येवमर्थम्()॥
बाल-मनोरमा
सर्वनाम्नः स्याड्ढ्रस्वश्च २८९, ७।३।११४

सर्वनाम्नः स्याड्। "याडापः" इत्यत "आप" इति पञ्चम्यन्तमनुवृत्तं, तेन "सर्वनाम्न" इत्येतद्विशेष्यते। तदन्तविधिः। "घेर्ङिती"त्यतो ङितीत्यनुवृत्तं षष्ठ()आ विपरिणम्यते। ततश्च "आबन्तात्सर्वनाम्नः परस्य ङितः स्याट् स्या"दित्यर्थः। टित्त्वादाद्यवयवः। "ह्यस्वश्चे"ति वाक्यान्तरम्। "आप" इत्यनुवृत्तमावर्तते। षष्ठ()न्ततया च विपरिणम्यते। तच्च "ह्यस्व" इत्यत्रान्वेति। "आप स्थाने ह्यस्वो भवती"ति तदर्थः। तदाह--आबन्तादिति। याटोऽपवाद इति। येन नाप्राप्तिन्यायादिति भावः। सर्वस्यै इति। सर्वा-ए इति स्थिते स्याट्। वकारोत्तराकारस्य ह्यस्वः, वृद्धिरिति भावः। सर्वस्या इति। ङसिङसोः सर्वा-अस इति स्थिते-स्याट्, आपो ह्यस्वः, सवर्णदीर्घ इति भावः। नन्वाबन्तस्य सर्वाशब्दस्य सर्वादिगणे पाठाऽभावात्कथं सर्वनामत्वमित्यत आह--एकादेश-स्येति। वकारादकारस्य आपश्च योऽयमेकादेशः सवर्णदीर्घः, तस्येत्यर्थः। नन्वेकादेशनिष्पन्नस्य आकारस्य पूर्वान्तत्वे आप्त्वाव्याघातादाबन्तत्वं व्याहतम्। न च परादिवत्त्वेन आबन्तत्वमपीति वाच्यम्, उभयत आश्रयणे नान्तादिवदिति निषेधादिति चेत्, सत्यम्-लिङ्गविशिष्टपरिभाषयाऽ‌ऽबन्तस्य सर्वनामत्वम्। आबन्तत्वं तु परादिवद्भावेनेत्याहुः। सर्वस्यामिति। ङौ सर्वा-इ इति स्थिते "ङेरा"मित्याम्। सुटं बाधित्वा परत्वात्स्याट्, ह्यस्वश्च। सकृद्गतिन्यायान्न पुनः सुट्। एवमिति। सर्वादिगणपठितावि()आआदय आबन्तत्वं प्राप्ताः सर्वाशब्दवदित्यर्थः। उत्तरस्याश्च पूर्वस्याश्च दिशोर्यदन्तरालम् उत्तरपूर्वा। "दिङ्नामन्यन्तराले" इति बहुव्रीहिविशेषोऽयम्।

तत्त्व-बोधिनी
सर्वनान्मः स्याङ्ढ्रस्वश्च २५१, ७।३।११४

सर्वनाम्नः स्याट्। दीर्घोच्चारणं प्राग्वत्स्पष्टपर्तिपत्त्यर्थाम्। आबन्तस्य सर्वादिगणे पाठाऽभावात्सर्वनामत्वं नेत्याशङ्क्याह---एकाजेशस्य पूर्वान्तत्वेनेति।