पूर्वम्: ७।३।११६
अनन्तरम्: ७।३।११८
 
सूत्रम्
इदुद्भ्याम्॥ ७।३।११७
काशिका-वृत्तिः
इदुद्भ्याम् ७।३।११७

इकारोकाराभ्यां नदीसंज्ञकाभ्याम् उत्तरस्य ङेः आम् आदेशो भवति। कृत्याम्। धेन्वाम्।
लघु-सिद्धान्त-कौमुदी
ङेराम्नद्याम्नीभ्यः १९९, ७।३।११७

नद्यन्तादाबन्तान्नीशब्दाच्च परस्य ङेराम्। बहुश्रेयस्याम्। शेषं पपीवत्॥ अङ्यन्तत्वान्न सुलोपः। अतिलक्ष्मीः। शेषं बहुश्रेयसीवत्॥ प्रधीः॥
लघु-सिद्धान्त-कौमुदी
इदुद्भ्याम् २२४, ७।३।११७

इदुद्भ्यां नदीसंज्ञकाभ्यां परस्य ङेराम्। मत्याम्, मतौ। शेषं हरिवत्॥ एवं बुद्ध्यादयः॥
न्यासः
इदुद्भ्याम्?। , ७।३।११७

नदीग्रहणमिहनुवत्र्तते। तेन चेदुतौ विशिष्यतेते नदीसंककौ यादिदुताविति। यद्येवम्(), अनर्थकमिदम्(), पूर्वेणैव सिद्धत्वात्()? नैतदस्ति; औकरो हि परत्वदुत्तरसूत्रेण स्यात्(), अ()स्मश्च सत्यामेव भवति॥
बाल-मनोरमा
इदुद्भ्याम् २९५, ७।३।११७

इदुद्भ्याम्। "ङेराम्" इति सूत्रान्नदीग्रहणं ङेरामिति चानुवर्तते। तदाह--नदीसंज्ञकाभ्यामित्यादिना। पक्षे इति। नदीत्वाऽभावपक्षे "अच्च घेः" इत्यत्वसंनियोगशिष्टमौत्वमित्यर्थः। मत्यां मताविति। नदीत्वे तदभावे च रूपम्। मत्यामित्यत्र संनिपातपरिभाषाया अनित्यत्वाद्यण्। एवं श्रुत्यादय इति। आदिना स्मृत्यादिसग्रहः।

तत्त्व-बोधिनी
इदुद्भ्याम् २५७, ७।३।११७

औत्त्वे प्राप्ते इति। "ङेरा"मित्यपेक्षया परत्वादिति भावः। प्राचा तु "औ"दिति सूत्रे "इदुभ्द्याम्"च्च घे"रिति पूर्वोत्तरसूत्रद्वयबललभ्यार्थमुपादाय "घिनदीसंज्ञावर्जिताभ्या"मिति व्याख्यातम्। "इदुभ्द्या"मिति सूत्रं च नोपन्यस्तमित्यसमज्जसमेतत्।