पूर्वम्: ७।३।११७
अनन्तरम्: ७।३।११९
 
सूत्रम्
औदच्च घेः॥ ७।३।११८
काशिका-वृत्तिः
औत् ७।३।११८

इदुद्भ्याम् उत्तरस्य ङेः औकारादेशो भवति। यन् न नदिसंज्ञं न अपि घिसंज्ञम् इकारान्तम् , तदिह उदाहरणम्। सख्यौ। पत्यौ।
काशिका-वृत्तिः
अच् च घेः ७।३।११९

औतिति वर्तते। घिसंज्ञकादुत्तरस्य ङेः औकारादेशो भवति, तस्य च घेः अकारादेशो भवति। अग्नौ। वायौ कृतौ। धेनौ। पटौ। अतिति तपरकरणं स्त्रियां टापो निव्र्त्त्यर्थम्। औदच्च घेः इति येषाम् एकम् एव इदं सूत्रम्, ते प्रधानशिष्टम् इदुद्भ्याम् औत्त्वं वर्णयन्ति, अन्वाचयशिष्तं घेः अकारम् इति।
लघु-सिद्धान्त-कौमुदी
औत् १८४, ७।३।११८

इतः परस्य ङेरौत्। सख्यौ। शेषं हरिवत्॥
लघु-सिद्धान्त-कौमुदी
अच्च घेः १७४, ७।३।११८

इदुद्भ्यामुत्तरस्य ङेरौत्, घेरच्च। हरौ। हरिषु। एवं कव्यादयः॥
न्यासः
औत्?। , ७।३।११८

नदीसंज्ञकात्? परस्य ङेराम्? पूर्वेण विहितः, घिसज्ञकादुत्तरेणात्त्वसन्नियुक्तमौकारं वक्ष्यति, तस्मात्? पारिशेष्यात्? ताभ्यां यदन्यदिकारोरान्तं तदिहोदाहरणं विज्ञायत इत्याह--"यग्न नदीसंज्ञम्()" इत्यादि। अत्र च सखिपतिशब्दावस्त्र्याख्यात्वान्नदीसंज्ञकावपि न भवतः। घखिसंज्ञको यथा न भवतस्तथा पूर्वमेव प्रतिपादितम्()॥
न्यासः
अच्च घेः। , ७।३।११८

अथात्त्वे कृते "अजाद्यतष्टाप्()" ४।१।४ इति--कृतौ, धेनादित्येवमादौ टाप्? कस्मान्न भवति? इत्याह--"अदिति तपरकरम्()" इत्यादि। यस्मात्? तपरकरणं टाब्निवृत्त्तयर्थं क्रियते, तस्मात्? कृतेऽप्यत्त्वे टाब्न भवतीति भावः। तपरकरणं हि तत्कालावधारणार्थम्()। न चात्र भाव्यमानत्वादणो मात्रिकत्वाच्च स्थानिनो दीर्घत्वस्य प्राप्तिरस्ति। अतोऽन्येनापि हेतुना यद्दोर्घत्वमापद्यते तत्प्रतिषेधार्थमुपजायमानं तट्टापोऽभावमापादयति। टापि हि सत्यकः सवर्णे ६।१।९७ दीर्घत्वं स्यात्()। तथा चानर्थकं तपरकरणं स्यात्()। तस्मान्मा भूदनर्थकमिति कृतेऽप्यत्त्वे टापा न भवितव्यमिति। "औदच्च धेरिति येषाम्()" इत्यादि। इह केचित्? "औदच्च र्घेः" इत्येकं योगं कुर्वन्ति; तथा च सत्यौत्त्वात्त्वयोः सन्नियोगशिष्टत्वाद्यत्रात्त्वं तत्रैवोत्त्वेन भवितव्यम्()। घेश्चात्त्वमिति सख्यौ, पत्यावित्यत्रात्त्वाभावादौत्त्वमपि न स्यात्()। अतस्तस्य दोषस्य परीहाराय येषामेक एवायं योगस्ते प्रधानशिष्टमौत्त्वमाचक्षते। यथा "कर्त्तुः क्यङ्? सलोपश्च" ३।१।११ इत्यत्र प्रधानशिष्टमाचक्षते क्यङम्(), अक्षवाचयशिष्टं सलोपम्()। यथा तत्रैव--तत्रासत्यपि सलोपे यथा क्यङ्? भवति श्येनायते--इत्यादौ; एवमसत्यप्यत्त्वे सख्यौ, पत्यावित्यत्रौत्त्वं भवतीति तेषामभिप्रायः॥
बाल-मनोरमा
औत् २५४, ७।३।११८

ङौ सखि इ इति स्थिते घित्वाभावात् "अच्च घे"रित्यस्याऽप्रवृत्त्या सवर्णदीर्घे प्राप्ते-औत्। "इदुद्भ्यामि"ति सूत्रमनुवर्तते। "ङेरा"मित्यतो "ङे"रिति च, तदाह--इदुद्भ्यामित्यादिना। ननु घिसंज्ञकेषु हरिकव्यादिषु "अच्च घेः" इति प्रवर्तते, नदीसंज्ञकेषु तु "इदुद्भ्या"मिति पूर्वसूत्रं प्रवर्तते, अतः सूत्रद्वयविषयादन्यौ सखिपतिशब्दौ एवास्य सूत्रस्य विषय इति व्यक्तम्, एवं च उकारानुवृत्तिव्र्यर्थेत्यत आह--उकारेति। उकारानुवृत्तिः "अच्च घेः" इत्युत्तरसूत्रेऽनुवृत्त्यर्थेत्यर्थः। सख्यौ इति। ङेरौत्त्वे यणि रूपमिति भावः। सुसखेति। प्रादिसमासः। "राजाहः सखिभ्यष्ट"जिति टच् तु न भवति, "न पूजना"दिति निषेधात्। "अनङ् सौ" उपधादीर्घः, हल्ङ्यादिलोपः, "न लोपः" इति नकारलोप इति भावः।

सुसखायौ सुसखाय इति। णिद्वद्भावः, वृद्धिः। आयादेश इति भावः। नन्वनङ्णिद्वत्त्वे सखिशब्दस्य विधीयमाने कथं सुसखिशब्दे स्यातामित्यत आह--अनङित्यादि। अङ्गाधिकारस्थतया "पदाङ्गाधिकारे" इति परिभाषया सखिशब्दान्तेऽपि प्रवृत्तिरित्यर्थः। नन्वेवं सति सुसखिशब्दे असखीति पर्युदासाद्धित्वाऽभावे नात्वादि न स्यादित्यत आह--समुदायस्येति। नच सुसखिशब्दस्य सखिशब्दरूपत्वाऽभावेऽपि सखिशब्दान्तत्वादीसिखतपर्युदासोऽपि दुर्निवार इति वाच्यं। "शेषो घ्यसखी"त्यस्य पदाङ्गाधिकारस्थत्वादिति बावः। सुसखिनेति। घित्वान्नात्वे रूपम्। सुसखये इति। "घेर्ङिती"ति गुणेऽयादेशः। ङसीति। ङसिङसोर्घेर्ङिति इति गुणे कृते "ख्यात्या"दित्युत्त्वं नेत्यन्वयः। कुत इत्यत आह-कृतयणादेशत्वाभावादिति। "ख्यत्या"दित्यत्र कृतयणादेशनिर्देशेन यत्र यणादेशप्रवृत्तिस्तत्रैवोत्त्वप्रवृत्तेरिति भावः। सुसखेरिति। ङसिङसोरेतद्रूपम्। सुसखाविति। "अच्च घेः" इत्यौत्त्वम्। एवमिति। सुसखिशब्दवदित्यर्थः। अतिसखेति। प्रादिसमासः, "न पूजाना"दिति न टच्।

वस्तुतस्तु उदाह्मते सुसखिशब्देऽतिसखिशब्दे च घिसंज्ञा न भवत्येव। "शेषो घ्यसखी"त्यत्र हि असखीति शेष विशेषणम्। तदन्तविधिः। सखिशब्दान्तभिन्नः शे,#ओ घिसंज्ञक इति लभ्यते। अत एव "यस्येति चे"ति सूत्रे इकारे परत इकारलोपे किमुदाहरणम्?। सखीत्यत्र "सख्यशि()आईति भाषाया"मिति ङीषि इकारलोपः। न च सवर्णदीर्घेण निर्वाहः सङ्क्यः। सखीमतिक्रान्तोऽतिसखिः। प्रादिसमासः। "गोस्त्रियोः" इति ह्यस्वः। "अतिसखेरागच्छती"त्यत्र इकारलोपाऽभावात्सवर्णदीर्घे तस्य एकादेशस्य पूर्वान्ततया सखिग्रहणेन ग्रहणादसखीति पर्यादासे घिसंज्ञाप्रतिषेधापत्तेः। इकारलोपे तु सति ङीषो ह्यस्वत्वे कृते नायं सखिशब्दः। ङीषस्तदवयवत्वाऽभावादिति भाष्यं सङ्गच्छते इति शब्देन्दुशेखरे प्रपञ्चितम्। परमसखेति। बहुव्रीहित्वात्तत्पुरुषत्वाऽभावान्न टच्। ननु बहुव्रीहौ सखिशब्दस्य गौणत्वात्कथ मनङ्णित्त्वे, "गौणमुख्ययोर्मुख्ये कार्यसंप्रत्ययः" इति न्यायादित्यत आह--गौणत्वेऽपीति। "मिदचोऽन्त्या"दिति सूत्रे "तृज्वत् क्रोष्टुः" "स्त्रियां चे"ति भाष्यकैयटयोस्तथा दृष्टत्वादिति भावः। अतिसखिरिति। "अत्यादयः क्रान्ताद्यर्थे द्वितीयया" इति समासः। "गोस्त्रियोः" इति ह्यस्वः। "राजाहःसखिभ्यष्ट"जिति टच् तु न भवति, तस्मिन् कर्तव्ये ह्यस्वस्य बह्वपेक्षतया बहिरङ्गतयाऽसिद्धत्वेन ईकारान्तत्वात्। नन्वेवमपि "प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहण"मिति परिभाषया सखीशब्दान्तादपि टच्स्यादित्याशङ्क्य आह--लिङ्गविशिष्टति। "शक्तिलाङ्गलाङ्कुशे"ति वार्तिके घटघटीग्रहणात्तस्या अनित्यत्वमिति भावः। ननु हरिवदिति कथम्, अनङ्णिद्वद्भावयोः प्रवृत्तौ रूपभेदादित्यत आह-इहेति। कुतो न भवति इत्यत आह--गोस्त्रियोरिति। लाक्षणिकत्वादिति। लक्षणं=शास्त्रं। तत्र भव इत्यर्थे "बह्वचोऽन्तोदात्ता"दिति वा अध्यात्मादित्वाद्वा ठञ्। अतिसखिशब्दस्वरूपस्य सामान्यतश्शास्त्रीदुन्नेयत्वादिति यावत्। सखिशब्दस्तु नैवम्। समानं ख्यायते जनैरित्यर्थे इणिति ङिच्चेति यलोप इति चानुवर्तमाने "समाने ख्यः स चोदात्तेः" इति ख्याधातोरिणश्च विशि,()योपादानेन व्युत्पादितत्वेन तस्य प्रतिपदोक्तत्वादिति भावः। ननु लाक्षणिकस्यापि ग्रहणं कुतो नेत्यत आह--लक्षणेति। लक्षणशब्देन लाक्षणिकं विवक्षितम्। विशिष्य प्रत्यक्षोपदिष्टं प्रतिपदोक्तमित्युच्यते तयोर्मध्ये प्रतिपदोक्तस्यैव ग्रहणमिति परिभाषितत्वादित्यर्थः। प्रतिपदोक्तं=झटित्युपस्थितम्। लाक्षणिकं तु लक्षणानुसन्धानाद्विलम्बितोपस्थितिकम्। प्रतिपदोक्तमादाय शास्त्रस्य चरितार्थत्वान्न लाक्षणिके प्रवृत्तिरिति न्यायसिद्धा चेयं परिभाषा।

बाल-मनोरमा
अच्च घेः २४५, ७।३।११८

"हरि इ" इति स्थिते "घेर्ङिती"ति गुणे प्राप्ते--अच्च घेः। ङेरामि"त्यतो "ङे"रित्यनुवर्तते। "इदुद्भ्या"मिति "औ"दिति च सूत्रमनुवर्तते। तदाह--इदुद्भ्यामिति। अन्तादेश इति। अलोऽन्त्यपरिभाषालभ्यमेतत्। वृद्धिरिति। हर-औ इति स्थिते वृद्धिरेची"ति वृद्धौ, हरौ इति रूपमित्यर्थः। हरिष्विति। "आदेशप्रत्यययो"रिति षत्वम्। अथ सखिशब्दात्सुः। सखि-स् इति स्थिते।

तत्त्व-बोधिनी
औत् २१५, ७।३।११८

आत्। एतच्च सूत्रं नदीसंज्ञकेषु "इदुभ्द्या"मिति पूर्वसूत्रेण बाध्यते। घिसंज्ञकेषु "अच्च घे"रिति उत्तरसूत्रेण। तस्मात्संज्ञाद्वयशून्योऽस्य विषयः। न च तादृश उकारोऽस्तीत्यत आह-उकारनुवृत्तिरिति। प्राचा तु "घिनदीसंज्ञावर्जिताभ्यामिदुभ्द्यां परस्ये"त्युक्तम्()। तदसत्। तादृसत्। तादृशस्योरकारस्याप्रसिद्धेः। सुसखेति। प्रादिसमासे "राजाहः सखिभ्या"इति टचो "न पूजना"दिति निषेधः। "शेषो ध्यसखी"इत्यत्राऽसखीति नायं प्रसज्यप्रतिषधः, असमर्थसमासादिदोषापत्तेः, किं तु पर्युदास एवेति "सुसखी"त्यस्य सखिशब्दभिन्नत्वाद्धिसंज्ञा स्यादेव। न च समुदायस्य सखिशब्दभिन्नत्वेऽपि सखिशब्दान्तभिन्नत्वं नेति कथमसखीति निषेधाऽपर्वृत्तिरिति शङ्क्यम्। विशेष्याऽसंनिधानादसखीत्यत्र "येन विधिस्तदन्तस्ये"त्यस्याऽप्रवृत्तेः। तदेतत्साकलभिग्रेत्याह--समुदायस्येत्यादि। एवमतिसखेत्यत्रापि समासान्तनिषेधादिकं बोध्यम्। गौणत्वेऽपीति। "अतिदन्धे"त्यादावस्थ्याद्यनङ्वदिति भावः। तथा च "येन विधि"रिति सूत्रे "परमसखाया"विति बहुर्वीहिः, तत्पुरुषे हि टचा भाव्यमिति कैथटः। तथा "द्वितीया श्रिते"ति सूत्रे "सोमसखे"ति प्रतीकमुपादाय बहुव्रीहित्वान्न सम#आसान्त इति स एवाह। "अनुद्युक्षोवरुण इन्द्रसखा," "अग्ने याहि मरुत्सखा", "तीव्रं सोमं पिबति गोसखाय"मित्यादिप्रयोगाश्चैवमेव सङ्गच्छन्ते। तत्र [तु] बहुव्रीहिप्रयुक्तस्य पूर्वपदप्रकृतिस्वरस्य दर्शनेन गौणत्वात्। एतेन घिसंज्ञासूत्रे शोभनः सखा अस्य सुसखिरित्युदाहरन्तौ हरदत्तन्यासकारौ तदनुगामिनश्चान्ये उपेक्ष्याः। अनित्यत्वादिति। "शक्तिलाङ्गलाङ्कुशे"ति वार्तिके घटघटीग्रहणमत्र लिङ्गम्।

तत्त्व-बोधिनी
अच्च घेः २०६, ७।३।११८

अच्च घेः। अत्र"इदुद्भ्याम्", "औ"दिति "डेरा"मित्यतो "ङे"रिति च पदत्रयमनुवर्तत इत्याशयेन व्याचष्टे-इदुद्भ्यां परस्य ङेरौत्स्यादिति। "घेरुत्तरस्ये"ति प्राचां व्याख्यानमिह तु नोक्तम्। सूत्रे "घे"रित्यस्य षष्ठ()न्तत्वात्, तन्त्रावृत्त्यादौ च प्रमाणाऽभावात्। "ओ"दिति पूर्वसूत्रे "इदुभ्द्यामुत्तरस्य ङे"रिति क्लृप्तम्बन्धस्य त्यागाऽयोगाच्च। यत्तु व्याचख्युः--"अ"दिति तपरत्वं "बुद्धा" वित्यादावत्त्वे कृते स्त्रियां टाब्मा भूदित्येतदर्थमिति;। तच्चिन्त्यम्। तपरग्रहणाद्धि टापा सह दीर्घो मा भूट्टाप्तु स्यादेव, लक्षणद्वयबाधे मानाऽभाबात्। अतएव "कृन्मजन्त"इति सूत्रे भाष्यादौ संनिपातपरिभाषया "पद्धता"वित्यत्र टान्मेत्युक्तम्, टापा व्यवधाने ह्रानन्तर्यविघातः स्यादिति। तपकरणाट्टबभावे तु संनिपातपरिभाषेपन्यासस्तत्र विरुध्यते। यदपि व्याचख्युः--"औतस्तकारः स्परितार्थ"इति, तदपि न। "स्तीर्णे बर्हिषि समिधाने अग्नौ" इत्यादौ स्वरितत्वाऽदर्शनात्। "न विभक्तौ इति सूत्रे ङे रौतस्तु तकार उच्चारणार्थो नेत्संज्ञक इति स्वयमेव उक्तत्वाच्च। तस्मादुभयत्र तपरकरणमुच्चारणार्थमेवेति मनोरमायां स्थितम्।"