पूर्वम्: ७।३।१२
अनन्तरम्: ७।३।१४
 
सूत्रम्
दिशोऽमद्राणाम्॥ ७।३।१३
काशिका-वृत्तिः
दिशो ऽमद्राणाम् ७।३।१३

दिग्वाचिनः उत्तरस्य जनपदवाचिनो मद्रवर्जितस्य अचामादेरचः वृद्धिर् भवति तद्धिते ञिति, णिति, किति च परतः। पूर्वपाञ्चालकः। अपरपाञ्चालकः। दक्षिणपाञ्चालकः। पूर्ववत् तदन्तविधिः प्रत्ययश्च। दिशः इति किम्? पूर्वः पञ्चालानाम् पूर्वपञ्चालः, तत्र भवः पौर्वपञ्चालकः। आपरपञ्चालकः। अमद्राणाम् इति किम्? पौर्वमद्रः। आपरमद्रः। मद्रेभ्यो ऽञ् ४।२।१०७ इति अञ्प्रत्ययः।
न्यासः
दिशोऽमद्राणाम्?। , ७।३।१३

"पूर्वपाञ्चालकः" इति। पूर्वेषु पाञ्चालेषु भवति इति तद्धितार्थे समासः, ततो वृञ्()। दिश इति किम्()? पूर्वं पाञ्चालानां पूर्वापाञ्चालः। पूर्वापरादि २।२।१ सूत्रेणैकादेशिसमासः, तत्र भवः पौर्वपाञ्चालः। दिशि यो वत्र्तते स इह दिक्शब्दोऽभिप्रेतः। न चायं पूर्वशब्दो दिशि वत्र्तते, किं तर्हि? अवयवे। तेन पूर्वपदवृद्धिरेव भवति। योगविभाग उत्तरार्थः। प्राचां ग्रामनगराणां दिश एवोत्तरपदस्य यथा स्यात्(), सुसर्वार्धान्मा भूदिति॥
बाल-मनोरमा
ब्राउव ईट् २८३, ७।३।१३

ब्राउव ईट्। "नाभ्यस्तस्ये"त्यतः पितीति, "उतो वृद्धि"रित्यतो हलीति चानुवर्तते। तदाह--ब्राउवः परस्येत्यादिना। ननु आत्थेत्यत्र आहादेशस्य स्थानवत्त्वेन ब्राऊत्वात्ततः परस्य थस्य ईडागमः स्यादित्यत आह-- आत्तेत्यत्रेति। स्थानिवद्भावात्प्राप्तोऽयमीडागमो न भवतीत्यन्वयः। कुत इत्यत आह-- झलीति थत्वविधानादिति। "आहस्थः" इति झलि परत आहादेशस्य थत्वं विधीयते। इटि तु सति झलादित्वाऽभावात्तन्निर्विषयं स्यात्। अत आत्थेत्यत्र ईण्नेति विज्ञायत इत्यर्थः। ब्राउवन्तीति। ब्रावीषि ब्राऊथः ब्राऊथ। ब्रावीमि ब्राऊवः ब्राऊमः। लट आत्मनेपदे आह-- ब्राऊते इति। ब्राउवः पञ्चाना"मित्यत्र परस्मैपदानामित्यनुवृत्तेराहादेशो न। ब्राउवाते ब्राउवते। ब्राऊषे ब्राऊवाथ ब्राऊध्वे। ब्राउवे ब्राऊवहे ब्राऊमहे।

बाल-मनोरमा
दिशोऽमद्राणाम् १३७९, ७।३।१३

दिशोऽमद्राणाम्। "अमद्राणा"मिति च्छेदः। दिग्वाचकादिति। "परस्ये"ति शेषः। जनपदवाचिन इति। मद्रवाचिभिन्नस्येत्यपि बोध्यम्। वृद्धिरिति। "आदे"रिति शेषः। पौर्वपञ्चाल इति। अत्र पूर्वशब्दः कालवाचीति भावः। पौर्वमद्र इति। "मद्रेभ्योऽञि"त्यञ्। ननु "सुसर्वार्धदिशो जनपदस्याऽमद्राणा"मित्येकसूत्रमेवास्त्वित्यत आह--योगविभाग उत्तरार्थ इति। "प्राचां ग्रामनगराणा"मित्युत्तरसूत्रे दिश एव संबन्धो यथा स्यादित्येवमर्थमित्यर्थः। एकसूत्रत्वे तु सुसर्वादिभ्यः परस्यापि मद्रशब्दस्य पर्युदासः प्रसज्येतेति इहार्थोऽपीत्येके।

तत्त्व-बोधिनी
ब्राउव ईट् २४७, ७।३।१३

ब्राउव ईट्। हलादेः किम्?। ब्रावाणि। पितः किम्?। ब्राऊतः। झलीति थत्वविधानादिति। ईडागमे कृते झलादित्वाभावादिति भावः। इण् गतौ।

तत्त्व-बोधिनी
दिशोऽमद्राणाम् १०८४, ७।३।१३

दिशो। पौर्वमद्रैति। "मद्रेभ्योऽ"ञित्यञ्। पूर्वाह्णक इथि। "विभाषा पूर्वाह्णापराह्णाभ्या"मित्यस्यापवादः।