पूर्वम्: ७।३।१४
अनन्तरम्: ७।३।१६
 
सूत्रम्
संख्यायाः संवत्सरसंख्यस्य च॥ ७।३।१५
काशिका-वृत्तिः
सङ्ख्यायाः संवत्सरसङ्ख्यस्य च ७।३।१५

सङ्ख्याया उत्तरपदस्य संवत्सरशब्दस्य सङ्ख्यायाश्च अचामादेरचः स्थाने वृद्धिर् भवति तद्धिते ञिति, णिति, किति च परतः। द्वौ संवत्सराबधीष्टो भृतो भूतो भावी वा द्विसांवत्सरिकः। सङ्ख्यायाः द्वे षष्टी अधीष्टो भृतो भूतो भावी वा द्विषाष्टिकः। द्विसाप्ततिकः। द्विषष्ठ्यादिशब्दो वर्षेषु संख्येयेषु वर्तमानः कालाधिकारविहितं प्रत्ययम् उत्पादयति। परिमाणान्तस्य असंज्ञाशाणयोः ७।३।१७ इत्येव सिद्धे संवत्सरग्रहणम् परिमाणग्रहणे कालपरिमाणस्य अग्रहणार्थम्। तेन द्वैसमिकः, त्रैसमिकः इति उत्तरपदवृद्धिर् न भवति। द्विवर्षा, त्रिवर्षा माणविका इति अपरिमाणबिस्ताचित इति पर्युदासो न भवति।
न्यासः
संख्यायाः संवत्सरसंख्यस्य च। , ७।३।१५

"द्विसांवत्सरिकः" इति। पूर्ववत्? तद्धितार्थे समासः। ततः प्राग्वतीयष्ठञ्()। "द्विषाष्टिकः, द्विसाप्ततिकः" इति। ननु च "तमधीष्टो भृतो भृतो भावी" ५।१।७९ इत्यत्र कालादिति। ५।१।७७ वत्र्तते, न द्विषष्ट()आदिः कालशब्दः, किं तर्हि? संख्याशब्दः, तत्कथं कालाधिकारविहितं प्रत्ययमुत्पादयति? इत्याह--"द्विषष्ट()आदिशब्दः" इत्यादि। कालवाचिशब्दस्तत्र कालग्रहणेन गृह्रते, द्विषष्ट()आदिशब्दो हि यदा वर्षेषु संख्येयेषु वत्र्तते, तदा कालवाचित्वात्? कालश्ब्दो भवति। ततः कालाधिकारीयं प्रत्ययमुत्यादयति। अथ संवत्सरग्रहणं किमर्थम्(), यावतः "परिमाणान्तस्यासंज्ञाशाणयोः" ७।३।१७ इत्यत्र परिमाणशब्देन परिच्छेदहेतुमात्र गृह्रते, न तु प्रस्थादिवदारोहपरिणाहपरिच्छेदहेतुः, अन्यथा हि शाणप्रतिषेधोऽनर्थकः स्यात्(), न हि शाणः परिमाणमारोहपरणाहपरिच्छेदहेतुः, अतः कालोऽपि परिच्छेदहेतुर्भवति, ततश्च सोऽपि परिमाणमिति संवत्सरशब्दस्य "परिमाणस्यासंज्ञाशाणयोः" (७।३।१७) इत्येव सिद्धम्()? इति चोद्यनिरासायाह--"संवत्सरग्रहणम्()" इत्यादि। परिमाणग्रहणेन कालपरिमाणस्य ग्रहणं मा भूदित्येवमर्थं संवत्सरग्रहणम्()। संवत्सरग्रहणेनासावर्थो ज्ञाप्यते--"परिमाणग्रहणे कालपरिमाणग्रहणं न भवति" इति। ततश्च यत्र परिमाणग्रहणं तत्र कलपरिमाणं न गृह्रते। "तेन" इत्यादिना परिमाणग्रहणे कालपरिमाणस्याग्रहणे सति यदिष्टं सिध्यति तद्दर्शयति। "उत्तरपदवृद्धिरन भवति" इति। "परिमाणान्तस्य" ७।३।१७ इत्यादिना। "द्विवर्षा" इति। द्वे वर्षे भृतो भूतो भावी वा, पूर्ववट्ठक्, तस्य "वर्षाल्लुक्()" ५।१।८७ इत्यनुवत्र्तमाने "चित्तवति नित्यम्()" ५।१।८८ इति लुक्()। "पर्युदासो न भवति" इति। ङीप्प्रतिषेधे कत्र्तव्ये तेन प्रतिषेधः। प्रवत्र्तत एवेति "द्विगोः" ४।१।२१ इति ङीब्न भवति॥
बाल-मनोरमा
सङ्ख्यायाः संवत्सर सङ्ख्यस्य च १७२९, ७।३।१५

ठञि त्वादिवृद्धौ प्राप्तायां--संख्यायाः संवत्सर। आदिवृद्धिप्रकरणे "उत्तरपदस्ये"त्यधिकारे इदं सूत्रम्। संवत्सरश्चसङ्ख्या चेति समाहारद्वन्द्वात् षष्ठी। संख्याया उत्तरपदस्येति। संख्यायाः परस्य संवत्सरसंख्यस्योत्तरपदस्येत्यर्थः। नन्वत्र संवत्सरग्रहणं व्यर्थं, संवत्सरस्य द्वादशमासपरिमाणतया "परिमाणान्तस्याऽसंज्ञाशाणयो"रित्येव सिद्धेरित्यत आह--परिमाणान्तस्येत्येवेति।

तत्त्व-बोधिनी
सङ्ख्यायाः संवत्सरसङ्ख्यस्य च १३३६, ७।३।१५

उत्तरपदवृद्धिर्नेति। एतच्चोपलक्षणम्। "द्विवर्षा"इत्यत्र "द्विगो"रिति ङीन्बभवति। परिमाणपर्युदासेन पर्युदासाऽबावात् "अपरिमाणबिस्ताचिते"तीह निषेधप्रवृत्तेः। द्विवर्षे भृते "तमधीष्टः"इति ठञ्।"वर्षाल्लुक्च"इति लुक्। "चित्तवति नित्य"मिति नित्यलुको वक्ष्यमाणत्वादचित्तवानिह प्रत्ययार्थ इति प्रत्युदाहरति।