पूर्वम्: ७।३।१५
अनन्तरम्: ७।३।१७
 
सूत्रम्
वर्षस्याभविष्यति॥ ७।३।१६
काशिका-वृत्तिः
वर्षस्य अभविष्यति ७।३।१६

सङ्ख्याया उत्तरस्य वर्षशब्दस्य अचामादेरचः वृद्धिर् भवति तद्धिते ञिति, णिति, किति च परतः, स चेत् तद्धितो भविष्यत्यर्थे न भवति। द्वे वर्षे अधीष्टो भृतो भूतो वा द्विवार्षिकः। त्रिवार्षिकः। अभविष्यति इति किम्? यस्य त्रैवर्षिकं धान्यं निहितं भृत्यवृत्तये, अधिकं वा अपि विध्येत, स सोमं पातुम् अर्हति। त्रीणि वर्षाणि भावी इति त्रैवर्षिकम्। अधीष्टभृतयोरभविष्यति इति प्रतिषेधो न भवति। गम्यते हि तत्र भविष्यत्ता, न तु तद्धितार्थः। द्वे वर्षे अधीष्टो भृतो वा कर्म करिष्यति इति द्विवार्षिको मनुष्यः।
न्यासः
वर्षस्याभविष्यति। , ७।३।१६

"द्वे वर्षे अधीष्टो भृतो वा कर्म करिष्यतति दैवार्षिको मनुष्यः" इति। अत्राधीष्टभृतयोस्तद्धित उत्पन्ने भविष्यता प्रतीयते, तस्मात्? तयोरपि प्रतिषेधेन भवितव्यमिति कस्याचिद्भ्रान्तिः स्यात्(), अतस्तां निराकर्तुमाह--"अधीष्टभृतयोः" इत्यादि। किं पुनः कारणं न भवति? इत्याह--"गम्यते हि" इत्यादि। तत्र यदि शब्दान्तरम्? "द्वे वर्षे अधीष्टो भृतो वा कर्म करिष्यति" इति प्रयुज्यते, ततो भविष्यत्ता गम्यते, नान्यथा। तस्मान्नासौ तद्धितार्थ इत्यधीष्टभृतयोरभविष्यतीति प्रतिषेधो न भवति। ननु च मनुष्येऽभिधेये "चित्तवति नित्यम्()" ५।१।८८ इति ठञो लुका भवितव्यम्(), तत्कथं द्विवार्षिको मनुष्य इति सिध्यति? नैष दोषः; न ह्रसावदिशेषेण लुक्(), किं तर्हि? विशिष्ट #एव विषये। कथम्()? ततर नित्यग्रहणं कत्र्तव्यम्(), पूर्वेणैव सिद्ध आरम्भसामथ्र्यादेव नित्यं लुग्भविष्यतीति, तत्? कृतं विशिष्टे विषये भूते यथा स्यात्(), अधोष्टादी मा भूदित्येवमर्थम्()। तेनाधीष्टादौ "वर्षाल्लुक्()" ५।१।८७ इति विभाषैव लुग्भवति॥
बाल-मनोरमा
वर्षस्याऽभविष्यति १७३१, ७।३।१६

ठञि आदिवृद्धौ प्राप्तायां--वर्षस्याभविष्यति। आदिवृद्धिप्रकरणे उत्तरपदस्येत्यधिकारे इदं सूत्रम्। शेषपूरणेन तद्व्याचष्टे--उत्तरपदस्य वृद्धिः स्यादिति। अभविष्यति यो ञिदादिः, तस्मिन्परे इत्यर्थः। निर्वृत्तादिषु पञ्चस्वर्थेषु भविष्यदर्थं वर्जयित्वा तदितरेषु चतुष्र्वर्थेषु यस्तद्धितस्तस्मिन्परे इति यावत्। द्विवार्षिक इति। "व्याधि"रिति। शेषः। चित्तवति नित्यलुको वक्ष्यमाणत्वात्। नन्वेवं सति द्वे वर्षे अधीष्टो भृतो वा कर्म करिष्यति द्विवार्षिक इत्यत्र कथमुत्तरपदवृद्धिः, भविष्यत्त्वस्य प्रतीतेरित्याशङ्क्याह--अधीष्टभृतयोरभविष्यतीति प्रतिषेधो नेति। कुत इत्यत आह--गम्यते हि तत्र भविष्यत्तेति। अध्येषणभरणयोः क्तप्रत्ययेन भूतत्वमेव शब्दशक्त्या गम्यते। तद्धितप्रत्ययेन च तथाविधाऽध्येषणभरणकर्मीभूतौ प्रतीयेते। एवंविधाऽध्येषणभरणविशिष्टयोस्तु भविष्यता कर्माचरणेन सम्बन्धः कर्म करिष्यतीत्यनेनावगत इति न स तद्धितार्थः। एवंच तत्रापि भविष्यदर्थकतद्धितपरकत्वाऽभावात्स्यादेवोत्तरपदवृद्धिरित्यर्थः। द्विवार्षिको मनुष्य इति। "चित्तवति नित्य"मिति वक्ष्यमाणस्तु नित्यलुङ्ग भवति, चित्तवतीत्येवारम्भसामर्थ्यान्नित्यत्वे सिद्धे पुनर्नित्यग्रहणेन भूत एवार्थे नित्यं लुगित्यभ्युपगमादिति हरदत्तः। केचित्तु "द्विवार्षिकः--अमनुष्य" इति छिन्दन्ति।