पूर्वम्: ७।३।१६
अनन्तरम्: ७।३।१८
 
सूत्रम्
परिमाणान्तस्यासंज्ञाशाणयोः॥ ७।३।१७
काशिका-वृत्तिः
परिमाणान्तस्य असंज्ञाशाणयोः ७।३।१७

परिमाणान्तस्य अङ्गस्य सङ्ख्यायाः परं यदुत्तरपदं तस्य अचामादेरचः वृद्धिर् भवति तद्धिते ञिति, णिति, किति च परतः, संज्ञायां विषये शाणे च उत्तरपदे न भवति। द्वौ कुडवौ प्रयोजनम् अस्य द्विकौडविकः। द्वाभ्यां सुवर्णाभ्यां क्रीतं द्विसौवर्णिकम्। विभाषा कार्षापणसहस्राभ्यां ५।१।२९ इत्यत्र सुवर्णशतमानयोरुपसङ्ख्यानम् इति लुको विकल्पः। द्वाभ्यां निष्काभ्यां क्रीतम् द्वित्रिपूर्वान् निष्कात् ५।१।३० द्विनैष्किकम्। असंज्ञाशाणयो इति किम्? पाञ्चलोहितिकम्। पाञ्चकलापिकम्। पञ्च लोहित्यः परिमाणमस्य, पञ्च कलापाः परिमाणमस्य इति विहृह्य तदस्य परिंआणम् ५।१।५६ इति योगविभागात् प्रत्ययः, तद्धितान्तश्चायं समुदायः संज्ञा। द्वाभ्यां शाणाभ्यां क्रीतम् द्वै शाणम्। त्रैशाणम्। शाणाद् वा ५।१।३५, द्वित्रिपूर्वादण् च ५।१।३५ इत्यण् प्रत्ययः। असंज्ञाशाणकुलिजानाम् इति केचित् पठन्ति। द्वे कुलिजे प्रयोजनमस्य द्वैकुलिजिकः।
न्यासः
परमाणान्तस्यासंज्ञाशाणयोः। , ७।३।१७

संज्ञायाः परत्वं न सम्भवतीत्यतः संज्ञाशाणयोरिति विषयसप्तमीं दर्शयन्नाह--"संज्ञायां विषये" इत्यादि। "शाणे चोत्तरपदे" इति। विषय इत्यपेक्षते। यद्यप्युत्तरपदस्य[यद्युत्तरपदस्य--मुद्रित पाठः] शाणस्य परत्वमुपपद्यते, तथापि दुर्घटमेकस्याः सप्तम्या विषयसप्तमीत्वम्(), परसप्तमीतवञ्चेति। तेन शाणशब्दमप्युत्तरपदं प्रति विषयसप्तम्येषा युक्ता। "द्विकौडविकम्()" इति। "प्राग्वतेष्ठञ" ५।१।१८। अनार्हीयत्वाच्च प्रत्ययस्य "अध्यर्थपूर्वद्विगोः" ५।१।२८ इति लुग्न भवति। "द्विसौवर्णिकः" [द्विसौवरणिकम्--काशिका] इति। स एव प्रत्ययः। कथं पुनरत्र वृद्धिः, यावता परिमाणान्तस्येत्युच्यते, सुवर्णञ्च गुरुत्वमानादुन्मानम्(), न परिमाणमिति? नैव दोषः; आचार्यप्रवृत्तिज्र्ञायति--"गुरुत्वपरिमाणमपीह परिच्छेदहेतुत्वात्? पूरिमाणं गृह्रते" इति; यदयम्? "असंज्ञाशाणयोः" इति शाणप्रतिषेधमारमते। अथ "अध्यर्धपूर्व" (५।१।२८) इति लुक्कस्मान्न भवति? इत्याह--"विभावा" इत्यादि। "द्विनैष्किकम्()" इति। "असमासे निष्कादिभ्यः" (५।१२०) इति ठक्()। "पाञ्चलोहितिकः" [पाञ्चलोहितिकम्()--काशिका] इति। तस्मिन्नेव ठकि कृते "भस्याढे तद्धिते" (वा।७३१) इति पुंवद्भावेन "वर्णादनुदात्तात्(), तोपधात्? तो तः" ४।१।३९ इत्यनेन विहितयोर्ङीब्नकारयोर्निवृत्ति। "द्वैकुलिजिकम्()" [द्वैकुलिजिकः--काशिका] इति। प्राग्वतीयष्ठञ्च॥
बाल-मनोरमा
परिमाणान्तस्याऽसंज्ञाशाणयोः १६६१, ७।३।१७

परिमाणान्तस्या। आदिवृद्धिप्रकरणे उत्तरपदस्येत्यधिकारे इदं सूत्रम्। शेषपूरणेन तद्व्याचष्टे--उत्तरपदवृद्धिः स्यादिति। उत्तरपदस्य आदेरचो वृद्धि स्यादित्यर्थः। ञिदादाविति। ञिति णिति किति चेत्यर्थः। परमनैष्किक इति। परमनिष्केण क्रीत इत्यर्थः। समासत्वाट्ठगभावे औत्सर्गिकष्ठञ्। स्वरे विशेषः। ननु निष्कादिभ्य एव ठको विधानात्तदन्तात् समासाट्ठकोऽप्रसक्तेरसमासग्रहणं व्यर्थम्। न च प्रातिपदिकग्रहणस्यापञ्चमाध्यायसमाप्तेरधिकृतत्वात्प्रातिपदिकविशेषणतया तदन्तविधौ समासादपि ठकः प्रसक्तिरस्तीति वाच्यम्, "ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ती"ति निषेधात्। निष्कादीनां च विशिष्य गृहीतत्वेन ग्रहणवत्त्वादित्यत आह--असमासग्रहममिति। सुगव्यमिति। सु=शोभना गौः-सुगौः, "न पूजना"दिति निषेधात् "गोरतद्धितलुकी"ति न टच्। "उगवादिभ्यः" इति गोशब्दान्ताद्यत्। यवापूप्यमिति। "विभाषहविरपूपादिभ्यः" इत्यपूपान्तत्वाद्यत्। नन्वसमासग्रहणाड्ज्ञापकादिति ऊध्र्वमिति तदन्तविधिः किं न स्यात्। ततश्च "परमपारायणं वर्तयती"त्यत्रापि "पारायणतुरायणचान्द्रायणं वर्तयती"ति ठञ् स्यादित्यत आह--इत ऊध्र्वं त्विति। वार्तिकमिदम्। नन्वेवमपि द्विशूर्पशब्दान्तादपि "शूर्पादञन्यतरस्या"मित्यञ् स्यादित्यत आद--तच्चाऽलुकीति। इत ऊध्र्वं संख्यापूर्वपदानां तदन्तग्रहणमिति यदुक्तं तत्तद्धितलुकि सति न भवतीत्यर्थः। इदमपि वार्तिकमेव। द्विशूर्पमिति। तद्धितार्थ" इति द्विगुरयम्। तद्धितप्रकृतिभूतः शब्दो न लुगन्तः। अतः सङ्ख्यापूर्वपदाच्छूर्पान्तादस्मात् "शूर्पादञन्यतरस्या"मिति प्राप्तस्य अञष्ठञो वा "अध्यर्धे"ति लुक्। द्विशूर्पशब्दो लुगन्तः। ततश्च तस्मात् क्रीतेऽर्थे "शूर्पादञि"ति न भवति, लुकि सति तदन्तग्रहणाऽभावादित्यर्थः। द्विशौर्पिकमिति। "तेन क्रीत"मिति ठञि "परिमाणान्तस्याऽसंज्ञाशाणयो"रित्यनुत्तरपदवृद्धिः। अस्य ठञो लुक्तु न भवति, तस्य द्विगुनिमित्तत्वाऽभावात्।

तत्त्व-बोधिनी
परिमाणान्तस्याऽसंज्ञाशाणयोः १२८३, ७।३।१७

परिमा। अथ किमर्थम् "असमासे "इत्यच्यते , प्रातिपदिक ग्रहणे तदन्ग्रहणाऽभावादेवेष्टसिद्धेरत आह---असमासगद्रहणमिति। सुगव्यमिति। "उगवादिभ्यो यत्"। यवापूप्यमिति। विभाषा हविरपूपादिभ्यः"इति यत्। अन्नविकारत्वादेव सिद्धे "अपूपादीनां प्रतिपदपाठसामथ्र्यात्तदन्तविधिर्नेतिन्यासग्रन्थस्तूपक्ष्यः, वृत्त्यादिग्रन्थविरोधादिति भावः। अतएव तत्सूत्रे "अपूपादीनां केषांचित्पाठः प्रपञ्चार्थः"इत्यवोचाम्। इत ऊध्र्वमिति। ज्ञापकेन तदन्तविधौ लब्धेऽपि विशेषव्यवस्थार्थमिदम्। सङ्ख्यापूर्वपदानामिति किम्()। इह मा भूत्। परमपारायणं वर्तयति।

सङ्ख्यापूर्वपदानां तदन्तग्रहणं प्राग्वतेरिष्यते तच्चाऽलुकि। द्विशूर्पमिति। तद्धितार्थे द्विगुरम्ष। एषा हि प्रकृतिर्लुगन्ता न भवतीति सङ्ख्यापूर्वपदादप्यस्मात् "शूर्पादञन्यतरस्या"मिति प्राप्तस्याऽञष्ठञो वा "अध्यर्धपूर्वे"ति लुक्। द्विशौर्पिकमिति। "परिमाणान्तस्ये"त्युत्तरपदवृद्धिः। ठञो द्विगुं प्रति निमित्तत्वाऽभावाल्लुगभावः। यद्यपि "अध्यर्धे"ति सूत्रे द्विगोः परस्यार्हीयस्य लुगित्येव मूले व्याख्यास्यते तथापि द्विगोर्निमित्तस्येति व्याख्येयमेव। अन्यथा अत्रैव ठञो लुक्स्यात्। एतच्च "अध्यर्धे"ति सूत्रे स्फुटीकरिष्यते। तपरः किमिति। दीर्घाकारस्य वृद्धौ कृतायामपि रूपे विशेषो नास्तीति प्रश्नः निषेधो न स्यादिति। तथा च वृद्धिनिषेदाऽभावाय तपरकरणमावश्यकमिति भावः। इदं च पुंवद्भावनिषेधाऽभावापादनं पूर्वपदस्य वृद्द्यभावपक्षे क्रियते। यदा तु पूर्वपदस्य पाक्षिकी वृद्धि क्रियते, तदा फलोपधायवृद्धिनिमित्तं तद्धित इत्युत्तरपदाऽकारस्य वृद्धिनिषेधेऽपि स्यादेव पुंवद्भावनिषेध इति बोध्यम्।