पूर्वम्: ७।३।१८
अनन्तरम्: ७।३।२०
 
सूत्रम्
हृद्भगसिन्ध्वन्ते पूर्वपदस्य च॥ ७।३।१९
काशिका-वृत्तिः
हृद्भगसिन्ध्वन्ते पूर्वपदस्य च ७।३।१९

हृद् भग सिन्धु इत्येवम् अन्तो ऽङ्गे पूर्वपदस्य उत्तरपदस्य च अचामादेरचो वृद्धिर् भवति तद्धिते ञिति, णीति, किति च परतः। सुहृदयस्य इदम् सौहार्दम्। सुहृदयस्य भावः सौहार्द्यम्। सुभगस्य भावः सौभाग्यम्। दौर्भाग्यम्। सुभगायाः अपत्यम् सौभागिनेयः। दौर्भागिनेयः। कल्याण्यादिषु सुभगदुर्भगेति पठ्यते। सुभग मन्त्रे इत्युद्गात्रादिषु पठ्यते। तत्र उत्तरपदवृद्धिर् न इष्यते। महते सौभगाय। छन्दसि सर्वविधीना विकल्पितत्वात्। सक्तुप्रधानाः सिन्धवः सक्तुसिन्धवः, सक्तुसिन्धुषु भवः साक्तुसैन्धवः। पानसैन्धवः। सिन्धुशब्दः कच्छादिषु पठ्यते, तेन तदन्तविधिरिष्यते इति अण्प्रत्ययः।
न्यासः
ह्मद्भगसिन्ध्वन्ते पूर्वपदस्य च। , ७।३।१९

"सौहार्दम्()" इति। तस्येदम्()" ४।३।१२० इत्यण्()। यदा सुह्मदयशब्दादण्(), तदा "ह्मदयस्य ह्मल्लेखयदण्लासेषु" ६।३।४९ इति ह्मद्भावः। "सौहाद्र्यंम्()" इति। "गुणवचनब्राआहृणादिभ्यः" ५।१।१२३ इति ष्यञ्(), "वा शोकष्यञ्रोगेषु" ६।३।५० इति ह्मद्भावः। "सौभागिनेयः, दीर्भागिनयः" इति। "कस्याण्यादीनामिनङ च" ४।१।१२६ इति ढकि कृत इनङादेशः। "सक्तुसिन्धवः" इति। शापकपार्थिवादित्वान्मध्यमपदलोपो समासः। "साक्तुसैन्धवः" इति। ओर्देशे ४।२।११८ ठञि प्राप्ते "कच्छादिभ्यश्च" ४।२।१३२ इत्यण्()। ननु च केवलस्तत्र सिन्धुशब्दः पठ()ते, कथं तदन्ताद्भवति? इत्याह--"तेन" इत्यादि। कथं पुनस्तेन सिन्धुशब्देन तदन्तविधिर्लभ्यते, यावता "ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति" (व्या।प।८९) इति तदन्तविधिः प्रतिषिध्यते? नैष दोषः; चकारस्तत्रानुक्तसमुच्चयार्थः, तेन सिन्धुशब्दात्? तदन्तादपि भवति॥
बाल-मनोरमा
ह्मद्भगसिन्ध्वन्ते पूर्वपदस्य च १११७, ७।३।१९

ह्मद्भग। ह्मदाद्यन्त इति। ह्मत्, भग, सिन्धु-एतदन्तेषु समासेष्वित्यर्थः। चकारादुत्तरपदस्येत्यनुकृष्यते। तदाह--पूर्वोत्तरपदयोरिति। सौहार्द इति। अणि उभयपदादिवृद्धिः। ऋकारस्य तु आकारो रपरः। सौभागिनेय इति। कल्याण्यादित्वाड्ढकि इनङि उबयपदादिवृद्धिरिति भावः। एतत्प्रसह्गादेव इदं सूत्रमत्रोपन्यस्तम्। "महते सौभगाय" इत्यत्र तु उद्गात्रादित्वाद्भावे अञ्। उत्तरपदादिवृद्ध्यभावश्छान्दसः। सिन्धव इति। अ()आआ इत्यर्थः।

तत्त्व-बोधिनी
हद्भगसिन्ध्वन्ते पूर्वपदस्य च ९३४, ७।३।१९

हद्भद। "पूर्वपदस्य चे"ति चकारेण "उत्तरपदस्य" इत्यनुकृष्यते। तदाह---पूर्वोत्तरपदयोरिति। "महते सौभगाये"त्यत्र तूद्रात्रादित्वादञ्। छान्दसत्वान्नोत्तरपदवृद्धिरित्याशयः। "चटकायाऋ"इति स्त्रीलिङ्गनिर्देशात्पुंसि न स्यादित्याशङ्क्याह।

चटकस्येति वाच्यम्। चटकस्येति वाच्यमिति। एवं च "चटकादैरगि"त्येव सांप्रदायिकः पाठ इति न्यासकृदुक्तिर्वार्तिकविरोधादुपेक्ष्या।

स्त्रियामपत्ये लुग्वक्तव्यः। तयोरेवेति। तत्र टाबन्तात्तद्धित लुकि "लुक्तद्धितलुकी"ति टापो लुकी जातिलक्षमङीषं बाधित्वा अजादिलक्षणष्टाबिति भावः।