पूर्वम्: ७।३।१९
अनन्तरम्: ७।३।२१
 
सूत्रम्
अनुशतिकादीनां च॥ ७।३।२०
काशिका-वृत्तिः
अनुशतिकाऽदीनाम् च ७।३।२०

अनुशतिक इत्येवम् आदीनां चाङ्गानां पूर्वपदस्य च उत्तरपदस्य च चामादेरचः स्थाने वृद्धिर् भवति तद्धिते ञिति, णिति, किति च परतः। अनुशतिकस्य इदम् आनुशातिकम्। अनुहोडेन चरति आनुगौडिकः। अनुसंवरणे दीयते आनुसांवरणम्। अनुसंवत्सरे दीयते आनुसांवत्सरिकः। अङ्गारवेणुः नाम कश्चित्, तस्य अपत्यम् आङ्गारवैणवः। असिहत्य तत्र भवम् आसिहात्यम्। अस्यहत्य इति केचित् पठन्ति, ततो ऽपि विमुक्तादित्वादण्। अस्यहत्यशब्दो ऽस्मिन्नध्याये ऽस्ति आस्यहात्यः। अस्यहेतिः इत्येवम् अपरे पठन्ति। अस्यहेतिः प्रयोजनम् अस्य आस्यहैतिकः। अत एव वचनादस्य समुदायस्य प्रातिपदिकत्वं विभक्तेश्च अलुक्। वध्योग इति बिदादिः अयम्, तस्य अपत्यम् वाध्यौगः। पुष्करसद्, अनुहरतिति बाह्वादिषु पठ्येते। पौष्करसादिः। आनुहारतिः। कुरुकत गर्गादिः , कौरुकात्यः। कुरुपञ्चाल कुरुपञ्चालेषु भवः कौरुपाञ्चालः। जनपदसमुदायो जनपदग्रहणेन न गृह्यते इति वुञ् न भवति। उदकशुद्धस्य अपत्यम् औदकशौद्धिः। इहलोक, परलोक तत्र भवः ऐहलौकिकः, पारलौकिकः। लोकोत्तरपदस्य इति ठञ्। सर्वलोक तत्र विदितः सार्वलौकिकः। सर्वपुरुषस्य इदम् सार्वपौरुषम्। सर्वभूमेः निमित्तं संयोगः उत्पातो वा सार्वभौमः। प्रयोग तत्र भवः प्रायौगिकः। परस्त्री पारस्त्रैणेयः। कुलटाया वा ४।१।१२७ इति इनङ्। राजपुरुषात् ष्यञि। राजपौरुष्यम्। ष्यञि इति किम्? राजपुरुषस्य अपत्यम् राजपुरुषायणिः। उदीचां वृद्धादगोत्रात् ४।१।१५७ इति फिञ्। शतकुम्भसुखशयनादयः शतकुम्भे भवः शातकौम्भः। सौखशायनिकः। पारदारिकः। सूत्रनडस्य अपत्यम् सौत्रनाडिः। आकृतिगणश्च अयम् इष्यते। तेन इदमपि सिद्धं भवति, अभिगममर्हति आभिगामिकः। अधिदेवे भवम् आधिदैविकम्। आधिभौतिकम्। चतस्र एव विद्याः चातुर्वैद्यम्। स्वार्थे ष्यञ्। अनुशतिक। अनुहोड। अनुसंवरण। अनुसंवत्सर। अङ्गारवेणु। असिहत्य। वध्योग। पुष्करसद्। अनुहरत्। कुरुकत। कुरुपञ्चाल। उदकशुद्ध। इहलोक। परलोक। सर्वलोक। सर्वपुरुष। सर्वभूमि। प्रयोग। परस्त्री। राजपुरुषात् ष्यञि। सूत्रनड। अनुशतिकादिः।
लघु-सिद्धान्त-कौमुदी
अनुशतिकादीनां च १०९८, ७।३।२०

एषामुभयपदवृद्धिर्ञिति णिति किति च। आधिदैविकम्। आधिभौतिकम्। ऐहलौकिकम्। पारलोकिकम्। आकृतिगणोऽयम्॥
न्यासः
अनुशतिकादीनां च। , ७।३।२०

"अनुशतिक" इति। शतेन क्रीतः--"शताच्च ठन्यतावशते" ५।१।२१ इति ठन्()--शतिकः, अनुगतः शतिकेनानुशतिकः, ततः "तस्येदम्()" ४।३।१२० इत्यण्()। आनुशातिकम्(), आनुहौडिकम्()" इति। "चरति" ४।४।८ इति ठक्()। "आनुसांवत्सरिकम्()" इति। "तत्र च दीयते कार्यं भववत्()" (५।१।९६) इत्यतिदेशात्? "बह्वचोऽन्तोदात्तात्()" ४।३।६७ इति ठञ्()। "आङ्गारवैणवः" इति। "तस्यापत्यम्()" ४।१।९२ इत्यण्()। "आसिहात्यम्()" इति। "तत्र भवः" ४।३।५३ इत्यण्()। "आस्यहात्यम्()" इति। "विमुक्तादिभ्योऽण्()" ५।२।६०। "आस्यहैतिकम्()" इति पाठे "तदस्य प्रयोजनम्()" ५।१।१०८ इति प्राग्वतीयष्ठञ्()। ननु च प्रातिपदिकादिति वत्र्तते, अस्यहत्यास्यहेतिश्च पदसमुदायोऽयम्(), न प्रातिपदिकम्(), तत्कथमतः प्रत्ययः? सत्यपि वा प्रत्यये कथं विभक्तेरलुक्()? इत्याह--"अत एव" इत्यादि। "वाध्यौगः" इति। "अनुष्यानन्तर्ये बिदादिभ्योऽञ्()" ४।१।१०४। "पौष्करसादिरानुहारतिः" इति। "बाह्वादिभ्यश्च" ४।१।९६ इतीण्()। "कौरुकात्यम्()" [कौरुकात्यः--काशिका] इति। गरगादित्वादयञ्()। "कौरुपाञ्चालः" इति। "तत्र भवः" ४।३।५३ इत्यण्()। ननु च जनपदशब्दा "जनपदतदवध्योश्च" ४।२।१२३ इति वुञा भवितव्यम्()! इत्यत आह--"जनपदसमुदायो जनपदग्रहणेन" इत्यादि। कुरुपञ्चालशब्दो हि जनपदमुदायवचनः, न च जनपदसमुदायो जनपदग्रहणेन गृह्रत इति कुतो वुञ्प्रसङ्गः? "औदकशौद्धिः" इति। "अत इञ्()" ४।१।९५। "ऐहलौकिकः, पारलौकिकः" इति। "लोकोत्तरपदस्य" [लोकोत्तरपदाच्च--इति वर्तिकम्()](वा।४५९) इति ठञ्()। एतत्? "समानस्य तदादेश्च" इत्येवमादिकायां कारिकायामियमिष्टिरिति पठ()ते। "सार्वलौकिकः" इति। "लोकसर्वलोकाट्ठञ्()" ५।१।४३। "सार्वपौरुषम्()" इति। "तस्येदम्()" ४।३।१२० इत्यण्()। "सार्वभौमः" इति। "सर्वभूमिपृथिवीभ्यामणञौ" ५।१।४० इत्यण, अञ्चा। "प्रायौगिकः" इति। अध्यात्मादित्वात्? (वा।४५६) ठञ्()। "पारस्त्रैणेयः" इति। "कुलटाया व" ४।१।१२७ इतीनङ्()। तत्र "स्त्रीभ्यो ढक्()" (४।१।१२०) "कल्याण्यादीनामिनङ्? च" ४।१।१४६ इत्यनुवत्र्तते। "राजपौरुष्यम्()" इति। ब्राआहृणादित्वात्? ५।१।१२३ ष्यञ्()। "सौत्रनाडिः" इति। "अत इञ्()" ४।१।९५ "आभिगामिकः" इति। अभिगममर्हतीत्यार्हीयष्ठक्? ५।१।६२। "आधिदैविकम्(), आधिभौतिकम्()" इति। भवार्थेऽध्यात्मादित्वात्? (वा।४५६) ठञ्()। "चातुर्वेद्यम्()" इति। ष्यञ्()। स्वार्थिको वक्तव्यश्चातुर्वण्र्यादिसिद्ध्यर्थमिति स्वार्थं एव ष्यञ्()
बाल-मनोरमा
अनुशतिकादीनां च १४१७, ७।३।२०

अनुशतिकादीनां च। आदिवृद्धिप्रकरणे उत्तरपदस्य, पूर्वपदस्य चेत्यधिकारे इदं सूत्रम्। तदाह--एषामिति। आधिदैविकमिति। देवेष्वित्यधिदेवम्, तत्र भवमित्यर्थः। ठञि उभयपद वृद्धिः। आधिभोतिकमिति। भूतेष्वधिभूतम्। तत्र भवमित्यर्थः। ऐहलौकिकमिति। इह लोके भवमित्यर्थः। पारलौकिकमिति। परलोके भवमित्यर्थः। सर्वत्र ठञि उभयपदवृद्धिः।