पूर्वम्: ७।३।२१
अनन्तरम्: ७।३।२३
 
सूत्रम्
नेन्द्रस्य परस्य॥ ७।३।२२
काशिका-वृत्तिः
न इन्द्रस्य परस्य ७।३।२२

इन्द्रशब्दस्य परस्य यदुक्तम् तन् न भवति। सौमेन्द्रः। आग्नेन्द्रः। परस्य इति किम्? ऐन्द्राग्नमेकादशकपालं चरुं निर्वपेत्। इन्द्रशब्दे द्वावचौ, तत्र तद्धिते एकस्य यस्येति च ६।४।१४८ इति लोपः, अपरस्य पूर्वेण सह एकादेशः इत्यप्राप्तिरेव वृद्धेः, तदेदं प्रतिषेधवचनं ज्ञापकम्, बहिरङ्गम् अपि पूर्वोत्तरपदयोः पूर्वं कार्यं भवति पश्चादेकादेशः इति। तेन पूर्वैषुकामशमः इत्यादि सिद्धं भवति।
न्यासः
नेन्द्रस्य परस्य। , ७।३।२२

"सैमेन्द्रः, आग्नेन्द्रः" इति। "सास्य देवता" ४।२।२३ इत्यण्(), "देवताद्वन्द्वे च" ७।३।२१ इत्यानङादेशः, पूर्वपदस्याद्गुणः। "ऐन्द्राग्नम्()" इति। अत्रापि पूर्ववदणादिकार्यम्()। "इन्द्रशब्दे द्वावचौ" इत्यादि। प्रागेवोक्तत्वात्? सुबोधम्()॥
बाल-मनोरमा
नेन्द्रस्य परस्य १२२१, ७।३।२२

नेन्द्रस्य परस्य। "देवताद्वन्द्वे चेट"त्युक्ता उभयपदवृद्धिरुत्तरपदस्य इन्द्रशब्दस्य नेत्यर्थः। सौमेन्द्र इति। "चरु"रिति शेषः। तैत्तिरीये सौमेन्द्रं श्यामाकं चरुमिति छान्दसम्।