पूर्वम्: ७।३।२२
अनन्तरम्: ७।३।२४
 
सूत्रम्
दीर्घाच्च वरुणस्य॥ ७।३।२३
काशिका-वृत्तिः
दिर्घाच् च वरुणस्य ७।३।२३

दिर्घादुत्तरस्य वरुणस्य यदुक्तं तन् न भवति। ऐन्द्रावरुणम्। मैत्रावरुणम्। दीर्घातिति किम्? आग्निवारुणीमनड्वाहीमालभेते। अग्नेः ईदग्नेः सोमवरुणयोः ६।३।२६ इत्यस्य अनङपवादस्य इद्वृद्धौ ६।३।२७ इति प्रतिषेधो विधीयते, तेन दीर्घात् परो न भवति।
न्यासः
दीर्घाच्च वरुणस्य। , ७।३।२३

"ऐन्द्रावरुणम्(), मैत्रावरुणम्()" इति। "देवताद्वन्द्वे च" (७।३।२१) इत्यानङि कृते दीर्घात्? परो वरुणशब्दः॥
बाल-मनोरमा
दीर्घाच्च वरुणस्य १२२३, ७।३।२३

दीर्घाच्च वरुणस्य। ऐन्द्रावरुणमिति। इन्द्रावरुणौ देवता अस्येति विग्रहे द्वन्द्वः। आनङ्। इन्द्परावरुमशब्दादणि दीर्घाकारात्परत्वाद्वरुणस्य नादिवृद्धिः। आग्निवारुणमिति। "इद्वृद्धौ" इत्यग्नेरानङं बाधित्वा इत्त्वे कृते दीर्घातत्परत्वा।ञभावान्निषेधाऽभावेसति "देवताद्वन्द्वे च" इत्युभयपदवृद्धिरिति भावः इतिप्रसङ्गिकम्।

अथ प्रकृतम्। तदस्मिन्निति। "महाराजप्रोष्ठपदाट्ठ"ञिति सूत्रे वार्तिकमिदम्। "तदस्मिन्वर्तते" इत्यर्थे नवयज्ञादिभ्यः प्रथमान्तेभ्यष्ठञ उपसङ्ख्यानमित्यर्थः। नावयज्ञिकः काल इति। नवयज्ञो नूतनधान्यद्रव्यको यज्ञः-आग्रयणाख्याः, स यस्मिन्काले वर्तते स नावयज्ञिकः। आग्रयणकाल इति यावत्। पाकयज्ञिक इति। पाकयज्ञः-औपासनाग्निसाध्यः-पार्वणस्थालीपाकादिः स यस्मिन्काले वर्तते स पाकयज्ञिकः।

पूर्वमासादिति। "तदस्मिन्वर्तते" इत्यर्थे पूर्णमासशब्दात्प्रथमान्तादण् वक्तव्य इत्यर्थः। पूर्णो मासोऽस्यामिति। मासः-चन्द्रमाः, पूर्णश्चासौ मासश्च पूर्णमासः=पूर्वणचन्द्रः, स यस्यां तिथौ वर्तते सा पौर्णमासी तिथिरित्यर्थः। अणि "टिड्ढाणञि"ति ङीप्। यद्यपि पूर्वणो माः-चन्द्रः-पूर्वमाः। तस्येयमित्यर्थे "तस्येद"मित्यणि पौर्णमासीति सिद्धम्। तथापि ईदृश एवार्थे अयं साधुरिति भावः।