पूर्वम्: ७।३।३२
अनन्तरम्: ७।३।३४
 
सूत्रम्
आतो युक् चिण्कृतोः॥ ७।३।३३
काशिका-वृत्तिः
आतो युक् चिण्कृतोः ७।३।३३

आकारान्तस्य अङ्गस्य चिणि कृति ञ्णिति युगागमो भवति। अदायि। अधायि। कृति दायः। दायकः। धायः। धायकः। चिण्कृतोः इति किम्? ददौ। दधौ। चौडिः, बालाकिः, बाह्वादित्वातिञ्। ज्ञा देवता अस्य ज्ञः।
लघु-सिद्धान्त-कौमुदी
आतो युक् चिण्कृतोः ७६०, ७।३।३३

आदन्तानां युगागमः स्याच्चिणि ञ्णिति कृति च। दायिता, दाता। दायिषीष्ट, दासीष्ट। अदायि। अदायिषाताम्॥ भज्यते॥
न्यासः
आतो युक्चिण्कृतोः। , ७।३।३३

"चिणि कृति च" ["च" नास्ति--काशिका] इति। चिण्ग्रहणमकृदर्थम्()। अकृत्त्वं तु तस्य द्वितीयधात्वधिकारेऽविहितत्वात्()। "अदायि, अधायि" इति। ददातिदधात्योः पूर्ववल्लुङादिकार्यम्()। "दायः, धायः" इति। धञ्()। "दायकः, धायकः" इति। ष्वुल्()। "ददौ, दधौ" इति। "आत औ णलः" ७।१।३४ इत्यौत्वम्()। "चौङिः, बालाकिः" इति। चूडाबलाकाभ्यां बाह्वादीञ्()। अचामादेरित्यनुवृत्तेरत्र न भविष्यतीति यो मन्येत, तं प्रत्युदाहरणान्तरमाह--"ज्ञा देवता अस्येति ज्ञः" (इति)। "सास्य देवता" ४।२।२३ इत्यण्()। अत्र व्यपदेशिवदभावेनाचामादिराकारो भवति। अत्रासति चिण्कृद्ग्रहणे सत्यामप्यचामादेरित्यनुवृत्तौ स्यादेवात्र युक्। "व्यपदेशिवदभावोऽप्रातिपदिकेन" (शाक।प।६५) इत्येतच्च प्रत्ययवधिविषय एव ह्रुक्तम्()॥
बाल-मनोरमा
आतो युक् चिण्कृतोः ५८६, ७।३।३३

आतोयुक्। अङ्गस्येत्यत्यधिकृतमाता विशेषितं, तदन्तविधिः। "अचो ञ्णिती"त्यो ञ्णितीत्यनुवृत्तं कृतएव विशेषणं, नतु चिणः, तस्य णित्त्वाऽव्यभिचारात्। तदाह-- आदन्तानामित्यादि। दायितेति।चिण्वदिट्पक्षे युक्। अदायिषातामिति। "स्थाध्वोरिच्चे"त्येतद्बाधित्वा परत्वाच्चिम्वदिटि कृते "घुमास्थे"तीत्त्वं न, अजादित्वात्त्वं न, अजादित्वात्। पुनः "स्थाध्वोरिच्चे"रिति तु न भवति, अझलादित्वात्। तत्र हि "इको झ"लिति सूत्रझलित्यनुवृत्तं। तथा च झलादिरेव सिच् किदिति लाभादिडादिः सिज्न कित्, तत्संनियोगादित्त्वमपि न भवतीत्याहुः। वस्तुतस्तु सत्यपि तस्मिन्नाऽत्र काचित् क्षतिः। सिचः कित्तवेऽप्यनिग्लक्षणया वृद्ध्या रूपसिद्धेरिति दिक्। अथ हनधातोः कर्मलकारे आह-- हन्यते इति। अचिण्णलोरिति। लुटि चिण्वदिटि वृद्धौ "हनस्तोऽचिण्णलो"रिति हनो नकारस्य तकारो न भवति, चिण्ववत्त्वादित्यर्थः। कुत्वमिति। तस्यणिति विहितस्याऽत्र चिण्वत्त्वात्प्राप्तिरिति भावः। घानिष्यते इति। "ऋद्धनो"रिति बाधित्वा नित्यत्वाच्चिण्वदिट। "ऋद्धनो"रिति तु चिण्वदिटि कृते न भवतीत्यनित्यं, तत्र वलीत्यनुवृत्तेरिति भावः। नन्वाशीर्लिङि घानिषीष्टेत्यत्र हन् सीष्ट इत#इ स्थिते परमपि चिण्वत्त्वं बाधित्वा वधादेशः प्राप्नोति, आद्र्धधातुके विवक्षिते विहितत्वेन वधादेशस्याऽन्तरङ्गत्वादित्यत आह-- आशीर्लिङीत्यादि। नु घानितेत्यादौ अप्राप्तेऽपि वधादेशे आरम्भात्कथं वधादेशस्य चिण्वद्भावोऽपवादः स्यादित्यत आह-- आद्र्धधातुके सीयुटीति। "स्यसिच्सीयु"डिति सूत्रे अजन्तस्य स्ये, अजन्तस्य सिचि, अजन्तस्य आद्र्धधातुके, सीयुटि, अजन्तस्य तासौ, इत्यजन्तस्य चत्वारि वाक्यानि। एवं हनग्रहदृशामप्येकैकस्य चत्वारि वाक्यानीति स्थितिः। तत्र हन आद्र्धधातुके सीयुटिचिण्वदिड्विधिर्निरवकाशत्वाद्वधादेशापवादः, अप्राप्त एव वधादेशे आरम्भात्। वधादेशस्तु न चिण्वदिटोऽपवादः, तस्य वध्यादित्यत्रकर्तरि लिङि चरितार्थत्वादिति भावः। पक्षे इति। चिण्वत्त्वाऽभावपक्षे। "हनो वध लिङी"ति वधादेशे वलादिलक्षणे इटि अतो लोपे रूपम्, वधादेशस्याऽदन्तत्वात्। न च हनधातोरनुदात्तत्वादुपदेशे एकाच्त्वात्तदीयवधादेशस्यापि तथाविधत्वादिह कथं वलादिलक्षम इडिति वाच्यम्, "एकाच उपदेशे" इत्यत्र "अच" इत्येकत्वसामथ्र्यादेकत्वे सिद्धे पुनरेकग्रहणबलेन इटि अतो लोपे रूपम्, वधादेशस्याऽदन्तत्वात्। न च हनधातोरनुदात्तत्वादुपदेशे एकाच्त्वात्तदीयवधादेशस्यापि तथाविधत्वादिह कथं वलादिलक्षण इडिति वाच्यम्, "एकाच उपदेशे" इत्यत्र "अच" इत्येकत्ववसामथ्र्यादेकत्वे सिद्धे पुनरकेग्रहणबलेन "य उपदेशे एकाजेव नतु कदाप्यनेका"जिति लभ्यते। तेन वधेर्हन्त्युपदेशमादाय एकाचोऽपि न निषेधः। आदेशोपदेशे अनेकाच्त्वादित्युक्तं प्राक्। लुङि तु सिचश्चिणि उपधावृद्धौ कुत्वेन घः। " आत्मनेपदेष्वन्यतरस्या"मिति वधादेशाऽभावः। अघानिषातामिति। चिण्वदिटि वधादेशाऽभावपक्षे रूपम्।अहसातामिति। चिण्वदिडभावपक्षे "हनः सि"जिति कित्त्वादनुदात्तोपदेशेत्यनुनासिकलोपः। पक्षे अवधीति। "आत्मनेपदेष्वन्यतस्या"मिति वधादेशपक्षे इत्यर्थः अवधिषातामिति। "आत्मनेपदेष्वन्यतस्या"मिति वधादेशस्यापि पाक्षिकतयाऽप्राप्तेपि वधादेशे चिण्वत्त्वस्यारम्भन्नापवादत्वमिति भावः। ननु चिणि वधादेशस्य दृष्टत्वात्स्यादिषु चिण्वत्त्वाद्वधादेशः स्यादित्याशङ्क्य परिहरति-- न चेत्यादिना। आङ्गस्यैवेति। वधादेशस्तु द्वैतीयीकः, न त्वङ्गाधिकारस्थ इति भावः। अथ "ग्रह उपादाने" इत्यस्माददुपधात्कर्मलकारे उदाहरति-- गृह्रते इति। "ग्रहिज्ये"ति संप्रसारणम्। अथ लुटि तासि चिण्वदिटि "ग्रहोऽलिटी"ति दीर्घमाशङ्क्याह-- चिण्वदिटो न दीर्घत्वमिति। कुत इत्यत आह-- प्रकृतस्येति। वलादिलक्षणस्य इटः प्रकृतत्वात्तस्यैव "ग्रहोऽलिटी"ति दीर्घविधौ ग्रहणं नतु चिण्वदिट इति भाष्ये स्पष्टम्। अथ दृशेः कर्मलकारे उदाहरति-- दृश्यते इति। लिटि- ददृशे। लुटि तासि चिण्वदिट्पक्षे-- दर्शिता। चिण्वत्त्वाऽबावे "सृजिदृशो"रित्यम्। द्रष्टा।दर्शिष्यते। द्रक्ष्यते। दर्शिषीष्ट। चिण्वदिडभावे तु "लिङ्सिचावात्मनेपदेषु" इति सिचः कित्त्वात् "सृजिदृशो"रित्यम्न। नापि लघूपधगुणः। दृक्षीष्ट। अदर्शीति।चिणि लघूपधगुणः। अदर्शिषातामिति। चिण्वदिटि रूपम्। चिण्वत्त्वाऽभावे त्वाह--सिचः कित्त्वादम्नेति। "लिङ्सिचावात्मनेपदेषु" इति सिचः कित्त्वात् "सृजिदृशो"रित्यम्न भवति, अकितीति पर्युदासादित्यर्थः। अथ गृ()धातोः कर्मलकारे यकि ऋत इत्त्वे "हलि चे"ति दीर्घे-- गीर्यते। जगरे। लुटि तासि चिण्वत्त्वपक्षे-- गारिता। चिण्वत्त्वाऽभावे वलादिलक्षणे इटि गुणे रपरत्वे-- गरिता गरीता। "वृ()तो वे"ति वा दीर्घः। गारिष्यते गरिष्यते गरीष्यते। गीर्यताम्। अगीर्यत। गीर्येत। गारिषीष्ट। चिण्वत्त्वाऽभावपक्षे तु "लिङ्सिचोरात्मनेपदेषु" इति इड्विकल्पः। इडभावपक्षे "उश्चे"ति कित्त्वम्। इत्त्वम्। रपरत्वम्। "हलि चे"ति दीर्घः। षत्वम्। गीर्षीष्ट। इट्पक्षे तु --गारिषीष्ट। लुङि-- अगारि। अगारिषाताम्। अगीर्षाताम्- अगरिषातामिति सिद्धवत्कृत्य आह-- लुङि ध्वमि चतुरधिकं शतमिति। "रूपाणी"ति शेषः। तदेवोपपादयति-- तथाहिति। अगारिध्वमिति। गृ? स् ध्वम् इति स्थिते चिण्वदिटि वृद्धौ रपरत्वे "धिचे"ति सलोपे रूपमिति भावः। द्वितीये त्विटीति। चिण्वदिडभावपपक्षे वलादितलक्षणे सिच इटि ऋकारस्य गुणे रपत्वे "धि चे"ति सलोपे "वतो वा" इति दीर्घविकल्पे अगरिध्वम्, अगरीध्वमिति रूपद्वयमित्यर्थः। एषामिति। एषां त्रयाणां मध्ये एकैकस्मिन् रेफस्य "अचि विभाषे"ति लत्वम्। "विभाषेटः" इति वा धस्य ढत्वम्। तथा धस्य,तदादेशढस्य,वस्य, मस्य च द्वित्वत्रयमित्येवं पञ्च वैकल्पिकानीत्यर्थः तत्र धढयोर्मस्य च "अनचि चे"ति द्वित्वविकल्पः। वकारस्य तु "मय" इति पञ्चमीमाश्रित्य "यणो मयः" इति द्वित्वविकल्पैति विवेकः। यद्यपि धढयोर्वस्य मसय् च द्वित्वचतुष्टयमिति वक्तुमुचितं, तथापि ढस्य धस्थानिकतया धढयोरेकत्वमभिप्रेत्य "द्वित्वत्रय"मित्युक्तिः। इत्थमिति। एवं च त्रयाणामेषां लत्वविकल्पे रेफवन्ति त्रीणि, लकारवन्ति त्रीणीति षट् (६)। एषु षट्सु धस्य द्वित्वविकल्पे एकधानि षट्, द्विधानि च षडिति द्वादश (१२)। तथा रेफवत्सु त्रिषु लकारवत्सु च त्रिषु ढस्य द्वित्वविकल्पे एकढानि षट्, द्विढानि च षडिति द्वादश (१२)। उभयेषामपि द्वादशानां मेलने चतुर्विंशतिः। (२४)। एषु वस्य द्वित्वविकल्पे एकवानि चतुर्विंशति, द्विवानि चतुर्विंशतिरित्यष्टाचत्वारिंशत्। (४८)। एषु मस्यद्वित्वविकल्पे एकमान्यष्टाचत्वारिंशत्,द्विमान्यष्टाचत्वारिंशदिति (९६) षण्णवतिरित्यर्थः। लिङ्सिचोरितीति। चिण्वदिडभावपक्षे वलादिलक्षणस्य इटो "लिङ्सिचोरिति विकल्पितत्वात्तदभावपक्षे "उश्चे" ति सिचः कित्त्वाद्गुणाऽभावे ऋत इत्त्वे रपरत्वे "हलि चे"तिदीर्गे रेफादिणः परत्वात् "इणः षीध्व"मिति नित्यं ढत्वे अर्गीढ्वमिति रूपमित्यर्थः। ढवमानामिति। ढस्य "अचो रहाभ्या"मिति द्वित्वविकल्पे एकढं द्विढमिति द्वे रूपे। तयोर्वस्य "यणो मयः" इति द्वित्वविकल्पे एकवे द्वे , द्विवे द्वे इति चत्वारि (४)। एषु चतुर्षु मस्य "अनचि चे"ति द्वित्वविकल्पे एकमानि चत्वारि, द्विमानि चत्वारीत्यष्टौ (८) रूपाणीत्यर्थः। षण्णवत्येति। उक्तषण्णवत्या अष्टानां मेलने सति या सङ्ख्या सिध्यति सा चतुरुत्तरशतसङ्क्या (१०४) उक्तेति ज्ञेयमित्यर्थः। उक्तप्रक्रियां श्लोकेन सङ्गृह्णाति-- इट्दीर्घ इत्यादिना। वलादिलक्,ण इट्, "वृ()तो वे"ति दीर्घः। अजन्तलक्षणश्चिण्वदिट्, "अचि विभाषे"ति लत्वं, "विभाषेट" इति वा ढत्वं, धढवमानां द्वित्वत्रिकमित्यष्टानां विकल्पाच्चतुरधिकं शतं रूपाणीत्यर्थः। "शमय्ते मोहो मुकुन्देने"त्यत्र प्रक्रियां दर्शयति-- हेतुमण्ण्यन्तादिति। शमधातोर्हेतुमण्णौ उपधावृद्धौ मन्तत्वेन मित्त्वाद्ध्रस्वे शमीत्यस्मात्कर्मणि लः, नतु भावे, हेतुमण्ण्यन्तस्य सकर्मकत्वनियमादिति भावः। यगिति। तङि कृते "सार्वधातुके य"गित्यनेन"ति शेषः। णिलोप इति। "णेरनिटीत्यनेने"ति शेषः। लुटि तासि शमि इ ता इति स्थिते अमन्तत्वेन मित्त्वान्नित्यमुपधाह्यस्वे प्राप्ते---

तत्त्व-बोधिनी
आतो युक् चिण्कृतोः ४८२, ७।३।३३

आतो युक्। "अचो ञ्णिती"त्यतो ञ्णितीत्यनुवर्तते। तच्च कृतो विशेषणं न तु चिणः, तस्य णित्त्वेनाऽव्यभिचारात्। चिण्कृतोः किम्?। चौडिः। बालाकिः। बाह्वादित्वादिञ्। ददौ। ञ्णितीति किं?। पानीयम्। दानीयम्। अदायिषातामिति। "स्थाधवोरिच्चे"त्येतद्बाधित्वा परत्वाच्चिण्वदिटि कृते "घुमास्थे" तीत्वं न भवति, अजादित्वात्। "स्थाध्वोरिच्चे"त्यपि पुनर्न् भवति, अज्झलादित्वादित्याहुः। तेषामयमाशयः-- इको झ"लिति सूत्राज्झलनुवर्तते। तथा च झलादिरेव सिच् किन्न त्वयमिडादिः सिच्। एवं च तत्संनियोगशिष्टत्वादित्त्वमप्यत्र न भवतीति। वस्तुतस्तु सत्यपि तस्मिन्नेह काचित्क्षतिः- सिचः कित्त्वेऽप्यनिग्लक्षणाया अनिषेधात् "अचो ञ्णिती"ति वृद्ध्या रूपनिष्पत्तेः। आशीर्लिङीति। न तु लुङि। तत्र चिण्वद्भावात् "आत्मनेपदेष्वन्यतस्यार"मिति वधादेशस्यापि वैकल्पिकतया येन नाप्राप्तिन्यायऽभावादिति भावः। आद्र्धधातुके सीयुटीत्यादि। यद्यपि "हनो वध लिङी" त्यत्रापि आद्र्धधातुकाधिकारादाद्र्धधातुके लिङीत्यपि समानं, तथापि लिङीति पदद्वयसाधारणं , सीयुट् तु आत्मनेपद एवेति विशेषविहितत्वमस्तीति भावः। अहसातामिति। चिण्वदिटोऽभावे "हनः सि"जिति कित्त्वात्, "अनुदात्तोपदेशे" त्यनुनासिकलोपः। चिणि वधादेशस्य दृष्टत्वाच्चिण्वद्भावेन स्यादिषु प्राप्तिमाशङ्क्य परहरति-- नचेत्यादिना। अदर्शिषातामिति। "न दृशः" इति क्सस्य निषेधादिह सिचि चिण्वदिट्। सिचः कित्त्वादिति। "लिङ्गिचावात्मनेपदेषु" इत्यनेन। लत्वमिति। "अचि विभाषे"ति। गिरते रेफस्य ल्वे षट्। ढत्वमिति। "विभाषेटः" इत्यनेन। षण्णां ढत्वे द्वादश। द्वित्वत्रयं चेति। "अनचि चे"ति। द्वादशानां मध्ये षण्णां ढस्य, षण्णां धस्य च द्वित्वे चतुर्विशतिः (२४)। "मय" इति पञ्चमी "यण" इति षष्ठीति पक्षे वकारस्य द्वित्वे त्वष्टाचत्वारिंशत् (४८)। अनचि चे"ति मकारस्य द्वित्वे षण्णवतिः (९६)। ढवमानामिति। "अचो रहाभ्या"मिति द्वित्वे द्वयम् (२)। द्वयोरपि वस्य "यणो मयः" इति द्वित्वे चत्वारि (४)। चतुर्णामपि मस्य "अनचि च" इति द्वित्वे त्वष्टौ (८)।