पूर्वम्: ७।३।३३
अनन्तरम्: ७।३।३५
 
सूत्रम्
नोदात्तोपदेशस्य मान्तस्यानाचमेः॥ ७।३।३४
काशिका-वृत्तिः
न उदात्तौपदेशस्य मान्तस्य अनाचमेः ७।३।३४

उदात्तोपदेशस्य मान्तस्य अनाचमेः ७।३।३४। उदातोपदेशस्य मान्तस्य अङ्गस्य आचमिवर्जितस्य चिणि कृति च ञ्णिति यदुक्तं तन् न भवति। किं च उक्तम्? अत उपधायाः ७।२।११६ इति वृद्धिः। अशमि। अतमि। अदमि। कृति खल्वपि शमकः। तमकः। दमकः। शमः। तमः। दमः। उदात्तोपदेशस्य इति किम्? यामकः। रामकः। कथम् उद्यमोपरमौ? अड उद्यमे, यम उपरमे इति निपातनादनुगन्तव्यौ। उपदेशग्रहणम् किम्? शमी, दमी, तमी इत्यत्र यथा स्यात्, इह मा भूत्, यामकः, रामकः इति। मान्तस्य इति किम्? चारकः। पाठकः। अनाचमेः इति किम्? आचामकः। अनाचमिकमिवमीनाम् इति वक्तव्यम्। आचामः। कामः। वामः। आमः इति चौरादिकस्य णिचि वृद्धौ सत्यां भवति। तत्र हि मित्त्वं न अस्ति न अन्ये मितो ऽहेतौ इति। सूर्यविश्रामा भूमिः इत्येवम् आदिकं प्रयोगमन्याय्यम् एव मन्यन्ते। चिण्कृतोः इत्येव, शशाम। तताम।
न्यासः
नोदात्तोपदेशस्य मान्तस्यानाचमेः। , ७।३।३४

"अशमि, अतमि, अदमि" इति। "शमु उपशमे" (धा।पा।१२०१), "तमु काङक्षायाम्()" (धा।पा।१२०२), "दमु उपशमे" (धा।पा।१२०३), लुङादि पूर्ववत्()। "शमकः" इत्यादौ ण्वुल्()। "शमः" इत्यादौ घञ्()। "यामकः, रामकः" इति। "यम उपरमे" (धा।पा।९८४), "रमु क्रीडायाम्()" (धा।पा।८५६)। अनुदात्तोपदेशावेतौ। अथ कथमुद्यमोपरमौ? इत्याह--"उद्यमोपरमौ" इत्यादि। "अनुगन्तश्यौ" इत्यादि। साधुत्वेनेति शेषः। निपातनादेतो साधुत्वेन वेदितव्यावित्यर्थः। "शमी, तमी, दमीत्यत्र यथा स्यात्()" इति। शमादिभ्यः "शमित्यष्टाभ्यो धिनुण्()" ३।२।१४१। असत्युपदेशग्रहणेऽत्र न स्यात्(); प्रत्ययस्वरे कृते धातोरनुदात्तत्वात्()। उपदेशग्रहणे तु सति तेनाद्यवस्था लक्ष्य इति यद्यप्युततरकालमनुदात्तत्वं भवति, तथापि भवत्येव प्रतिषेधः; उपदेशावस्थायामुदात्तत्वात्()। "इह" इत्यादि। यद्युपदेशग्रहर्ण न क्रियते, ततो यामकः, रामक इत्यत्रापि स्यात्(); "लिति" (६।१।१९३) इति प्रत्ययात्? पूर्वस्योदात्तत्वविधानात्()। उपदेशग्रहणे तु न भवति; उपदेशेऽनुदात्तत्वात्()। "अनाचमिकमिवमीनामिति वक्तव्यम्()" इति। "कमु कान्तौ" (धा।पा।४४३), "टुवम उद्गिरर्णे" (धा।पा।८४९), "चम छमु, चमु, झमु अदने" (धा।पा।४६९,४७०,४७१,४७२) एषां त्रयाणां धातुनां प्रतिषेधो न भवतोत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्()--चमेस्तावदनाचमेरिति सूत्र एवोपादानात्? प्रतिषेधो न भवतीति। इतरयोस्तु "धामदेवाङ् ड()डड()औ" ४।२।८, "धनहिरण्यात्? कामे" ५।२।६४ इति निपतनादिति। अथ कथमामः? इत्याह--"आम ति चौरादिकस्य" इत्यादि। "अम रोगे" (धा।पा।१७२०) इत्यस्य चौरादिकस्य णिचि वृद्धौ, "एरच्()" ३।३।५६ इत्यचि कृते-आम इति। न हि णिच्यपि वृद्धेः प्रतिषेधो भवति; तस्याचिण्कृत्त्वात्()। अकृत्त्वं तु पूर्ववद्वेदितव्यम्()। ननु "जनीजृ()ष्क्ससुरञ्जोऽमन्ताश्च" (धा।पा।८१७ अनन्तरम्? ग।सू।) इति मित्संज्ञायां सत्याम्? "मितां ह्यस्वः" (६।४।९२) इत्यनेनेह णौ भवितव्यम्()? इत्यत आह--"अत्र हि भित्त्वं नास्ति" इति। कथं नास्ति? इत्याह--"नान्ये" इत्यादि। यस्तु भ्वादिः "अम गत्यादिषु" (धा।पा।४६५) पठ()ते, अम इत्येवं तस्य भवितव्यम्()। अथ कथं विश्राम इति, न चायमसाधुरिति शक्यते वक्तुम्(), यतः "सूर्यविश्रामा भूमिः" इति प्रयोगो द#ऋश्यते? इत्याह--"एवमादिकं प्रयोगम्()" इत्यादि॥
बाल-मनोरमा
नोदात्तोपदेशस्य मान्तस्याऽनाचमेः ५८८, ७।३।३४

नोदात्तोपदेशस्य। "मृजेर्वृद्धि"रित्यतो वृद्धिरिति, "अत उपधायाः" इत्यत उपधाया इति, "अचो ञ्णिती"त्यतो ञ्णितीति, "आतो युक्" इत्यततश्चिण्णकृतोरिति चानुवर्तते। तत्र णितीति कृतएव विशेषणं, न तु चिणः, अव्यभिचारात्। तदाह-- उपधाया इत्यादिना। अनुदात्तोपदेशाः - सङ्गृहीताः। ततोऽन्यः सर्वोऽपि धातुरुदात्तोपदेशः। आङ्पूर्वश्चमिराचमिः, तद्वर्जस्येत्यर्थः। अशमि अदमीति। शमधातोर्दमधातोश्च लुङि चिणि "अत उपधायाः" इति वृद्धिर्न। अगामीति। गमेरनुदात्तोपदेशत्वादिति भावः। अवादीति। वदधातुर्न मान्त इति भावः। आचामीति। "अनाचमे"रित्युक्तेरिह नोपधावृद्धिनिषेधः। अनाचमिकमिवमीनामिति। आचामिकमिवमिवर्जानामित्यर्थः। एवं च कमिवम्योरपि न निषेध इति फलितम्। ननु कर्मेर्णिङन्तत्वात्केवलस्य तस्य चिणादौ प्रयोग एव नास्तीत्यत आह-- चिण्यायादय इति। णिङणिचोरप्येवमिति। णिङन्ताण्णिजन्ताद्वा कमेश्चिणि णिलोपे सति पूर्ववद्रूपं शिष्यते इत्यर्थः। ननु "जनिवध्योश्चे"ति वधेरुपधावृद्धिनिषेधो व्यर्थः, वधादेशस्याऽदन्ततया अल्लोपस्य स्थानिवत्त्वादेव अवधीत्यादौ उपधावृद्ध्यभावसिद्धेरित्याशङ्क्य वधर्धात्वन्तरं हलन्तमेव "जनिवध्योश्चे"त्यत्र गृह्रत इत्यभ#इप्रेत्य आह--- वध हिंसायां हलन्त इति।

तत्त्व-बोधिनी
नोदात्तोपदेशस्य मान्तस्याऽनाचमेः ४८४, ७।३।३४

नोदात्तोपदेशस्य। ञिति कृति--शमः। दमः। घञ्। णिति कृति शमकः। दमकः। ण्वुल्। उपदेशैति किम्?। शमी।दमी। इह घिनुणि कृते वज्र्यमानस्वरेण उदात्तत्वाऽभावान्निषेधो न स्यात्। कथं तर्हि "हरेर्यदक्रामि पदैककेन खमिति श्रीहर्षप्रयोग इतिचेत्। अत्राहुः-- निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिचि ततश्चिण् बोध्यः। तथा च णिचोऽकृत्त्वाद्वृद्धेर्न निषेधः। "मिता"मिति ह्यस्वस्तु न भवति, "वा चित्तविरागे" इत्यतो वेत्यनुवत्र्य व्यवस्थितविभाषाश्रयणादिति घटादावुक्तत्वात्। किं च ह्यस्वे जातेऽपि न क्षतिः, "चिण्णमुलो"रिति दीर्घविकल्पनादिति। कथमड उद्यमे यम उपरमे इति प्रयोगः?। संज्ञापूर्वकविधेरनित्यवाद्वृरद्ध्यभाव इति ज्ञेम्। अथवा उद्यमोपरमशब्दौ घञर्थे कविधानाद्बोध्यौ। णिङूणिचोरप्येवमिति। णिङन्ताण्णिजन्ताद्वा कमश्चिणि "णेरनिटी"ति णिलोपे सति रूपं तुल्यमिति भावः।