पूर्वम्: ७।३।३४
अनन्तरम्: ७।३।३६
 
सूत्रम्
जनिवध्योश्च॥ ७।३।३५
काशिका-वृत्तिः
जनिवध्योश् च ७।३।३५

जनि वधि इत्येतयोः चिणि कृति च ञ्णिति यदुक्तं तन् न भवति। अजनि। जनकः। प्रजनः। अवधि। वधकः। वधः। वधिः प्रकृत्यन्तरं व्यञ्जनान्तो ऽस्ति, तस्य अयं प्रतिषेधो विधीयते। भक्षकश्चेन्न विद्येत वधको ऽपि न विद्यते इति हि प्रयोगो दृश्यते। वधादेशस्य अदन्तत्वादेव वृद्धेरभावः। चिण्कृतोः इत्येव, जजान गर्भ महिमानमिन्द्रम्।
लघु-सिद्धान्त-कौमुदी
जनिवध्योश्च ६४५, ७।३।३५

अनयोरुपधाया वृद्धिर्न स्याच्चिणि ञ्णिति कृति च। अजनि, अजनिष्ट॥ दीपी दीप्तौ॥ २०॥ दीप्यते। दिदीपे। अदीपि, अदीपिष्ट॥ पद गतौ॥ २१॥ पद्यते। पेदे। पत्ता। पत्सीष्ट॥
न्यासः
जनिवध्योश्च। , ७।३।३५

वधिरयं हनादेशोऽस्ति, तस्यैदं ग्रहणमिति कस्यचिदाशङ्का स्यात्(), अतस्तां निराकर्त्तुमाह--"वधिः प्रकृत्यन्तरम्()" इत्यादि। प्रकृत्यन्तरमपि भवन्? यदयकारान्तः स्यात्(), अनर्थकः प्रतिषेधः स्यात्(), धोपधत्वादेव न वृद्धिर्भवतीति मत्वाऽ‌ऽह--"व्यञ्जनान्तस्य" इति। कुतः पुनर्विधिः प्रकृत्यन्तरमस्तीत्येतदवसितम्()? इत्याह--"भक्षकश्च" इत्यादि। अथ हनादेशस्यैव वधेरयं प्रतिषेधः कस्मान्न भवति? इत्याह--"हनादेशस्य" इत्यादि। "जजान गर्भम्()" इत्यादि। छान्दसः प्रयोगः॥
बाल-मनोरमा
जनिवध्योश्च ३४१, ७।३।३५

जनीवध्योश्च। "अत उपधायाः" इत्यत उपधाया इति, "मृजेर्वृद्धि"रित्यतो वृद्धिरिति, "नोदात्तोपदेशस्ये"त्यतो नेति, "आतो यु"गित्यतश्चिणकृतोरिति, "अचो ञ्णिती"त्यतो ञ्णितीति चानुवर्तते। तदाह--अनयोरिति। दीपीधातुरीदित्।"दीपजने"ति च्लेश्चिण्विकल्पं मत्वाह---अदीपि अदीपिष्टेति। पूरीधातुरपि ईदित्। "दीपजने"ति चिण्विकल्पं मत्वाह-- अपूरि अपूरिष्टेति।तूरी इत्यादयोऽपि "चूरी दाहे" इत्यन्ता ईदित एव।तप ऐ()आर्ये वेति। "श्यन् आत्मनेपदं चे"ति शेषः। उभयोः प्रकृतत्वादित्यभिप्रेत्य शेषं पूरयति--श्यनं तङं चेति। अन्यदा त्विति। ऐ()आर्यादन्यार्थे वृत्तिदशायामित्यर्थः। केचित्त्विति। "तप ऐ()आर्ये" "वावृतु वरणे" इति धातुपाठे स्थितम्। तत्र "वावृतु वरणे" इत्येवं वाशब्दं वृतु इत्यस्य आद्यवयवमिच्छन्तीत्यर्थः। एवं च "तप ऐ()आर्ये" इत्येव स्थितम्। अस्मिन्पक्षेतपधातोर्नित्यमेव श्यन् तङ् चेति भावः। तप्यते इति। ईष्टे इत्यर्थः। प्रथमपक्षे ऐ()आर्ये तपतीत्यपि भवति। पत इतीति। तपधातोस्तकारपकारयोः क्रमव्यत्यासेन "पत ऐ()आर्ये वा" इति पाठान्तरमित्यर्थः। एवं व्यत्यासेन पाठे प्रयोगं दर्शयति--द्युतद्यामा नियुत इति। प्रवायुमच्छा बृतीत्यृच एकदेशोऽयम्। "पत्यमान" इत्यस्य ईशान इत्यर्थः। अत्र लटः शानजात्मनेपदं श्यन् च। पक्षान्तरे इति। "वावृतु" इति पाठपक्षे इत्यर्थः। वावृत्यते इति। वृणोतीत्यर्थः। अपेक्षते इति यावत्। वावृतुधातोः प्रयोगं दर्शयति-- ततोवावृत्यमानेति। अपेक्षमाणेत्यर्थः।न्यविवक्षतेति।"नेर्विशः " इत्यात्मनेपदम्। "शल इगुपधा"दिति क्सः। अथ पञ्च स्वरितेत इति। "शप आक्रोसे" इत्यन्ता इत्यर्थः। शुच्यतीति। क्लिन्नं भवतीत्यर्थः। अशुचदिति। इरित्त्वादङिति भावः। णह बन्धने इति। णोपदेशोऽयम्। अनिट्। ननाहेति। नेहतुः। भारद्वाजनियमात्थलि वेडिति मत्वाह-- नेहिथ ननद्धेति। इट्पक्षे "थलि चे सेटी"त्येत्त्वाभ्यासलोपौ। इडभावे तु "नहो धः" इति हस्य ध इति भावः। रञ्ज रागे। अनिट्। रज्यतीति। "अनिदिता"मिति नलोप इति भावः। ररञ्ज ररञ्जतुः। ररञ्जिथ- ररङ्क्थ। ररञ्जिव। रङ्क्ता इत्यादि। अथैकादशेति। "लिश अल्पीभावे" इत्यन्ता इत्यर्थः। पद गतौ। अनिट्।

तत्त्व-बोधिनी
जनिवध्योश्च २९८, ७।३।३५

ञिति णिति कृति चेति। ञिति कृत्युदाहरणं घञि-- जनः। णिति कृति तु -- जनकः। जनयतीत्यत्रोपधावृद्धौ सत्यां "जनीजृ()"षिति मित्त्वात् "मितां ह्यस्वः" इति ह्यस्वः। रदीपी दीप्तौ। ईदत्त्वान्निष्ठायामिण्न। दीप्तः। एं पूरीत्यादेरीदित्त्वात्पूर्ण इत्यादि ज्ञेयम्। केचित्त्विति। तेषां मते ऐ()आर्ये तप्यते इत्येव प्रयोगो न तु तपतीति। न्यविक्षतेति। निपूर्वाद्विशतेर्लुङि "शल इगुपधे"ति क्सः। "नेर्विशः" इति तङ्। वाशृ शब्दे। "मन्दिवाशी"त्युरच्। वाशुरा रात्रिः। तितिक्षायामिति। "गुप्तिज्किद्भ्यः" इति सन्। तत्र हि "तिजे क्षमाया"मित्युक्तम्। ई शुचिर्। ईदित्त्वान्नेट्। शुक्तम्। क्लिन्नमित्यर्थः। ननद्धेति। "नहो धः" इति धत्वम्।