पूर्वम्: ७।३।३५
अनन्तरम्: ७।३।३७
 
सूत्रम्
अर्त्तिह्रीब्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ॥ ७।३।३६
काशिका-वृत्तिः
अर्तिह्वीव्लीरीक्नूयीक्ष्माय्यातां पुग् णौ ७।३।३६

सर्वं निवृत्तम्, अङ्गस्य इति वर्तते। अर्ति ह्री व्ली री क्नूयी क्ष्मायी इत्येतेषाम् अङ्गानाम् आकारान्तानां च पुगागमो भवति णौ परतः। अर्ति अर्पयति। ह्री ह्रेपयति। व्ली व्लेपयति। री रेपयति। क्नूयी क्नोपयति। क्ष्मायी क्ष्माप्यति। आकारान्तानाम् दापयति। धापयति। अर्ति इति ऋ गतिप्रापणयोः, ऋ गतौ इति द्वयोरपि धात्वोर् ग्रहणम्। री इत्यपि री गतिरेषणयोः, रीङ् श्रवणे इति। पुकः पूर्वान्तकरणम् अदीदपतित्यत्र उपधाह्रस्वो यथा स्यातिति।
लघु-सिद्धान्त-कौमुदी
अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ् णौ ७०५, ७।३।३६

स्थापयति॥
न्यासः
अर्त्तिह्वीव्लीरीक्नूयीक्ष्माय्यातां पुग्णौ। , ७।३।३६

अत्र्तीति श्तिता निर्देशः। ऋकारान्तस्य ग्रहणं मा विज्ञायीति, यथा--"ऋदृशोऽङि गुणः" ७।४।१६ इति। "अर्पयति" इति। हेतुमण्णिच्(), "पुगन्तलघूपधस्य" ७।३।८६ इति गुणः। "ह्येपयति, व्लेपयति" इति। "ह्यी लज्जायाम्()" (धा।पा।१०८५) "व्लो वरणे (धा।पा।१५०२)। "क्नोपयति, क्ष्मापयति" इति। "क्नूयो शब्दे" (धा।पा।४।८५), "क्ष्मायी विधूनने" (धा।पा।४८६)। "लोपो व्योर्वलि" ६।१।६४ इति यकारलोपः। "द्वयोरपि धात्वोग्र्रहणम्()" इति। विसेषाभावात्()। रोत्येतस्यापि "री गतिशोषणयोः" (धा।पा।१५००), "रोङ्? श्रवणे" (धा।प।११३८)--इति द्वयोरपि ग्रहणमित्यपेक्ष्यते। ननु च "निरनुबन्धकग्रहणे न सानुबन्धकस्य" (व्या।प।५३) इति रीङो ग्रहणं न प्राप्नोति? नैष दोषः; अत्र ह्रल्पाच्तरत्वात्? ह्रोव्ल्यातामन्यतमस्य पूर्वनिपाते कत्र्तव्ये "अल्पाच्तरम्()" (२।२।३४) इत्येतदनपेक्ष्यार्त्तिशब्दस्य पूर्वं निपातं कुर्वताऽन्यदपि किञ्चिदिह शास्त्रवचनं नापेक्ष्यत इत्येतत्? सूचितम्()। तेन निरनुबन्धकपरिभाषा नापेक्ष्यत इति रीङोऽपि ग्रहणं भवति। अथ किमर्थं पुनः पुक् पूर्वान्तः क्रियते, न परादिरेव पुङ्? विधीयताम्(); पुटि सति गुणविधौ पुगन्तग्रहणं न कत्र्तव्यं भवति, "सार्वधातुकार्धधातुकयोः" (७।३।८४) इत्येवं सिद्धत्वात्? पुटि; अवश्यं पुड्ग्रहणं कत्र्तव्यम्(), अन्यथा हि "अचो ञ्णिति" (७।२।११५) इति वृद्धिः स्यादिति चेत्()? नैतदस्ति; नाप्राप्ते णिचो वृर्द्धि प्रति निमित्तत्वे पुटं प्रत्यागमित्वमुच्यत इत्युत्तरस्य बाधकं भविष्यतीति नास्ति वृद्धेः प्रसङ्गः। अयं तर्हि परादौ दोषः--दाप्यते, दाप्यत इति--अत्र णेर्लोपेनापह्मतत्वात्? पकारस्य श्रवणं न स्यादिति? एषोऽप्यदोष-; न हि णिलोपः सर्वापहारी भवति, येन णेर्निवृत्तौ पुडागमोऽपि निवत्र्तत। प्रत्ययलश्रणञ्चास्तीति निवृत्तेऽपि णौ पुटः श्रवणं भविष्यतीत्याह--"पुकः पूर्वान्तकरणम्()" इत्यादि। दापयतेर्लुङ्(), च्लिः, तस्य "णिश्रिद्रु रुआउभ्यः कत्र्तर" ३।१।४८ इति चङि णिलोपः, "णौ चङ्युपधाया ह्यस्वः" ७।४।१ इति ह्यस्वत्वम्(), "चङि" ६।१।११ इति द्विर्वचनम्(), "सन्वल्लघुनि चङ्परे" ७।४।९३ इतीत्त्वम्(), "दीर्घो लघोः" ७।४।९४ इति दीर्घत्वम्()--अदीदपत्()। अत्र यदि पुट्? क्रियते तदा ह्यस्वत्वं न स्यात्(); अनुपधात्वात्()। पुकि तु सति भवति। अतो ह्यस्वार्थं पुकः पूर्वान्तकरणम्()॥
बाल-मनोरमा
अर्तिह्यीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ ३९८, ७।३।३६

अर्ति ह्यी व्ली री क्नूयी क्ष्मायी आत् एषां द्वन्द्वात्षष्ठी। "पुक् णौ" इति छेदः। तदाह -- एषां पुक्स्याण्णौ इति। पुकि ककार इत्, उकार उच्चारणार्थः। कित्त्वादन्तावयवः। चाप् इ इति स्थिते चेत्यनुवर्त्त्य मित्त्वस्याऽनुकर्षणेन मित्त्वाद्ध्रस्वे "चपी"त्यस्मात्तिबादौ परिनिष्ठितमाह -- चपयतीति। आत्त्वाऽभावपक्षे त्वाह -- चययतीति। चेर्णिचि वृद्धौ आयादेशे मित्त्वादुपधाह्यस्व इति भावः। ननु चिञ्धातोरिह ञित्करणं व्यर्थम्, ण्यन्ताण्णिचश्चेत्येव उभयपदसिद्धेः। चौरादिकस्याऽस्य नित्यं ण्यन्तत्वेन चयति चयते इति केवलस्याऽण्यन्तस्य शशशृङ्गायमाणत्वदित्यताअह -- ञित्करणसामथ्र्यादिति। एवं च णिजभावपक्षे उभयपदार्थमिह ञित्करणमर्थवदिति भावः। "शेषे विभाषाऽकखादौ" इति णत्वनविकल्पं मत्वा आह-- प्रणिचयति प्रनिचयति इति। "नान्ये मितोऽहेतौ" इति। चुरादिगणसूत्रम्। अहेताबिति च्छेदः। किमपेक्षया अन्ये इत्याकाङ्क्षायां मितः प्राक् पठितज्ञपादिचिञन्तेभ्य इति लभ्यते। तदाह -- अहेतौ स्वार्थं णिचीत्यादिना। अहेतावित्यस्य व्याख्यानं-- स्वार्थे णिचीति। तेनेति। ज्ञपादिचिञन्तव्यतिरिक्तचुरादीनां मित्त्वनिषेधेनेत्यर्थः। शमादीनामिति। "शम आलोचने" "अम रोगे"इत्यादीनामग्रे चुरादौ पठिष्यमाणानामित्यर्थः। अमन्तत्वेति। "जनीजृष्क्नसुरञ्जौऽमन्ताश्चे"त्यमन्तत्वनिमित्तकमित्यर्थ-। कृ()त संशब्दने।

तत्त्व-बोधिनी
अर्तिह्यीव्लीरीक्नूयीक्ष्माय्यातां पुड्णौ। ३४७, ७।३।३६

अर्तिह्यी। परत्वादन्तरङ्गत्वाच्च आदौ पुक्, पश्चाद्गुणः। अर्पयति। ह्येपयति। व्लेपयति। रेपयति। यलोपः। क्नोपयति। क्ष्मपयति। स्थापयति। चपयतीति। वर्णग्रहणे लक्षणप्रतिपदोक्तपरिभाषा न प्रवर्तते, "आतोऽनुपसर्गे" इति कबाधनाय "ह्वावामश्चे"त्यारम्भादिति भावः। ज्ञपादिभ्य इति। मुख्यमते पञ्च ज्ञपादयः। मतान्तरे तु सप्त पूर्ण इत्येके। पुणेत्यन्ये इति। ईदृशेषु पाठशुद्धिनिर्णेतुमशक्या। अत एव क्षीरस्वामिनोक्तम्()--"पाठेऽर्थे चागमभ्रंशान्महतामपि मोहतः। नविद्मः किं जहीमोऽत्र किमुपादद्महे वयम्"। इति। पूलपूर्णादिषु पाठे भ्रंशः। पजधातोर्मार्गसंस्कारोऽर्थ उत संस्कार एवेत्यर्थे भ्रंशः। आगमभ्रंशात्---शास्त्रभ्रंशात्। चूर्ण संकोवने। प्रेरणे पठितस्य पुनः पाठोऽर्थभेदकृतः। मर्च चेति। क्वचिद्धातुपाठेऽस्याऽदृष्टत्वेऽपि नाऽयम प्रामाणिक इति मन्तव्यम्। "मिदचोऽन्त्यात्परः" इति सूत्रे कैयटेनाऽस्योपन्यस्तत्वात्। "मर्तो मर्तं मर्चयति द्वयेने"ति प्रयोगदर्शनाच्च।