पूर्वम्: ७।३।३६
अनन्तरम्: ७।३।३८
 
सूत्रम्
शाच्छासाह्वाव्यावेपां युक्॥ ७।३।३७
काशिका-वृत्तिः
शाच्छासाह्वाव्यावेपां युक् ७।३।३७

शा धा सा ह्वा व्या वे पा इत्येतेषम् अङ्गानां युगागमो भवति णौ परतः। शा निशाययति। छा अवच्छाययति। सा अवसाययति। ह्वा ह्वाययति। व्या संव्याययति। वे वाययस्ति। पा पाययति। पाग्रहणे पै ओवै शोषणे इत्यस्य अपि इह ग्रहणम् इच्छन्ति। पा रक्षणे इत्यस्य लुग्विकरणत्वान् न भवति। लुगागमस्तु तस्य वक्तव्यः। पालयति। धूञ्प्रीञोर् लुग्वक्तव्यः। धूनयति। प्रीणयति। एते ऽपि पूर्वान्ता एव क्रियन्ते, तेन न्यशीशयत्, अपीपलत्, अदूधुनत्, अपिप्रिणतिति उपधाह्रस्वत्वं भवति। शाछासाह्वाव्यावेपां कृतात्वानां ग्रहणं पुकः प्राप्तिमाख्यातुम्। किम् एतस्य आख्याने प्रयोजनम्? एतस्मिन् प्रकरणे लक्षणप्रतिपदोक्तपरिभाषा न अस्ति इत्युपदिश्यते। तेन अध्यापयति, जापयति इत्येवम् आदि सिद्धं भवति।
न्यासः
शाच्छासाह्वाव्यावेपां युक्?। , ७।३।३७

"शो तनूकरणे" (धा।पा।११४५), "छो छेदने" (धा।पा।११४६), "षोऽन्तकर्मणि" (धा।पा।११४७), "ह्वेञ्? स्पर्धायाम्()" (धा।पा।१००८), "व्येञ्? संवरणे" (धा।पा।१००७), "वेञ्? तन्तुसन्ताने" (धा।पा।१००६), "पा पाने" (धा।पा।९२५), "पै ओवै शोषणे" (धा।पा।९२०,९२१)-इति द्वयोरपि। एषामाकारान्तत्वात्? पुकि प्राप्ते युको विधानम्()। "निशाययति" इत्यादि। "आदेच उपदेशेऽशिति" ६।१।४४ इत्यात्त्वम्()। "पाग्रणे" "पै ओवै शोषणे" इत्येतस्यापि ग्रहणमिज्छन्ति" इति। यत्र ह्रस्य ग्रहणं नेष्यते, तत्र पिबतेरित्याह; यथा--"लोपः पिबतेरीच्च" ७।४।४ इति भावः। अथ "पा रक्षणे" (धा।पा।१०५६) इत्यस्यापि ग्रहणं कस्मान्न भवति? इत्याह--"पा रक्षण इत्यस्य तु" इत्यादि। "लुगागमस्तु तस्य वक्तव्यः" इति। ननु च "पाल रक्षणे" (धा।पा।१६०९) इति चुरादौ पठ()ते, तस्य पालयतीति भविष्यति? सत्यमेतत; पुकस्तु निवृत्त्यर्थो लुगागम उपसंख्यायते, अन्यथा हि पातेः पाययतीति स्यात्()। "धूञ्प्रीञोर्नुग्वक्तव्यः" इति "धूञ्? कम्पने" (धा।पा।१८३५), "प्रीञ्? तर्पणे" (धा।पा।१८३६) इति--एतयोर्नुग्वक्तव्यः, व्याख्येय इत्यर्थः तत्रेदं व्याख्यानम्()--धूञ्? विधूनने" (धा।पा।१३९८), "तृप प्रीणने" (धा।पा।११९५) इति निपातनादेतयोर्लुग्भविष्यतीति। "एतेऽपि" इति। युगादयः। निशाययतीत्यादिषु "आदेच उपदेशेऽशिति" ६।१।४४ इत्यात्त्वम्। न्यशीशयदित्यादीनि अदीदपदित्यनेन तुल्यानि, पूर्ववल्लुङादीनि विधाय व्युत्पाद्यानि। "अदूधनत्()" इति। अनकारान्तत्वादिह सन्वद्भावोऽभ्यासस्य नास्तीति। "अपिप्रिणत्()" इत्यत्राप्यलघुत्वाद्दीर्घत्वं नास्ति। ननु च शाच्छासाह्वाव्याः--इत्येत एजन्ता गणे पठ()न्ते, तत्कथमेषां कृतात्त्वानां ग्रहणम्()? इत्याह--"शाच्छासाह्वा"["शाह्वेत्यादि"---मुद्रितपाठः] इत्यादि। कथं पनः कृतात्त्वानां ग्रहणेन पुकः प्राप्तिराख्यायते? आकारान्तानां पुग्विधानात्()। "अध्यापयति" इत्यादिना ज्ञापस्य प्रयोजनं दर्शयति। अध्यापयतीति "क्रोङ्जीनां णौ" ६।१।४७ इत्वात्त्वम्()। आदिशब्देन जापयतीत्यादीनां ग्रहणम्()। यदु पुकः प्राप्तिमाख्यातुं शाप्रभृतीनां कृतात्त्वानां गरहणं कृतम्(), तदा वेञोऽपि कृतात्त्वस्यैव ग्रहणं युक्तम्()? नैवं शक्यम्(), वेत्युच्यमाने "पै ओवै शोषणे" (धा।पा।९२०,९२१) इत्यस्यापि ग्रहणं स्यात्()। तस्मादकृतात्त्वस्यैव वेञो ग्रहणं युक्तम्()॥
बाल-मनोरमा
शाच्छासाह्वाव्यावेपां युक् ४१३, ७।३।३७

शाच्छासा। "शो तनूकरणे, "छो छेदने", "षो अन्तकर्मणिट, "ह्वेञ् स्पर्धायां शब्दे च", "व्येञ् संवरणे", एषां कृतात्त्वनिर्देशः। "वेञ् तन्तुसंताने" "पा पाने भ्वादिः। एषां द्वन्द्वात्षष्ठीबहुवचनात्। णौ परे इति। शे,फूरणमिदम्। आदन्तलक्षणपुकोऽपवादः। युकि ककार इत्। उकार उच्चारणार्थः। कित्त्वादन्तागमः। अत्र "लुग्विकरणाऽलुग्विकरणयोरलुग्विकरणस्य ग्रहण"मिति वचनात् "पा रक्षणे" इति न गृह्रते। तस्यतु पालयतीति रूपमनुपदमेव वक्ष्यति। शाययतीति। लुङि अशीशयत्। छाययतीति। अचिच्छयत्। साययतीति। असीषयत्। ह्वाययतीति। लुङि तु विशेषो वक्ष्यते। व्याययतीति। अविव्ययत्। वाययति। अवीवयत्। पाययति। लुङि तु विशेषो वक्ष्यते।

तत्त्व-बोधिनी
शाच्छासाह्वाव्यावेपां युक् ३६१, ७।३।३७

शास्छासा। "शो तनूकरणे"। "छो छेदने"। "षोऽन्तकर्मणि"। "ह्()वेञ् स्पर्धायाम्"। "व्येञ्? संवरणे"। "वेञ् तन्तुसंताने"। पा पाने"। "लुग्विकरमाऽलुग्विकरणे"ति परिभाषया "पा रक्षणे" इति नेह गृह्रते। तस्य तु पालयतीति रूपमनुपदं वक्ष्यति। शाययति। अशीशयत्। छाययति। अचिच्छयत्। साययति। असीषयत्। ह्वाययति। अविह्वयत्। व्याययति। अविव्ययत्। वाययति। अवीवयत्। पाययति। अपीपयत्। इह शाच्छासादीनां कृतात्वानां निर्देशः पुकः प्रा()प्त ध्वनयितुम्। तत्प्रयोजनं त्वस्मिन्प्रकरणे लक्षमप्रतिपदोक्तपरिभाषाया अप्रवृत्तिः। तेन ध्यापयति, क्रापयतीत्यादि सिद्धम्।