पूर्वम्: ७।३।४१
अनन्तरम्: ७।३।४३
 
सूत्रम्
शदेरगतौ तः॥ ७।३।४२
काशिका-वृत्तिः
शदेरगतौ तः ७।३।४२

शदेः अङ्गस्य अगतौ अर्थे वर्तमानस्य तकारादेशो भवति णौ परतः। पुष्पाणि शातयति। अगतौ इति किम्? गाः शादयति गोपालकः।
न्यासः
शदेरगतौ तः। , ७।३।४२

किमर्थं पुनरिदमुच्यते, यावता "शद्लृ शातने" (धा।पा।१४२८) इत्यस्मादेव निपातनात्? तकारो भविष्यतीति? गतेरन्यत्र यथा स्यात्? गतौ मा भूदिति चेत्()? न; शातनशब्दो हि गतेरन्यमर्थमाचष्टे। एवं तर्हि एतज्ज्ञापयति---"अबाधकान्यपि निपातनानि भवन्ति" (पु।ल।प।वृ।९९) इति। तेन पुराशब्दात्? "सायञ्चिरम्()" ४।३।२३ इत्यादिना विधीयमानयोष्ट()उट()उलोः "पुराणप्रोक्तेषु" ४।३।१०५ इति निपातनेन तुदो बाधनं न भवतीतित। तेन पुरातनमित्यपि सिद्धं भवति॥
बाल-मनोरमा
शदेरगतौ तः ४२६, ७।३।४२

शदेरगतौ तः। "अर्तिह्यी"त्यतो णावित्यनुवृतिं()त मत्वाह-- शदेर्णाविति। तोऽन्तादेश इति। तकार इत्यर्थः। अकार उच्चारणार्थः।