पूर्वम्: ७।३।४३
अनन्तरम्: ७।३।४५
 
सूत्रम्
प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः॥ ७।३।४४
काशिका-वृत्तिः
प्रत्ययस्थात् कात् पूर्वस्य अत इदाप्यसुपः ७।३।४४

प्रत्ययस्थात् ककारात् पूर्वस्य अकारस्य इकारादेशो भवति आपि परतः, स चेदाप् सुपः परो न भवति। जटिलिका। मुण्डिका। कारिका। हारिका। एतिकाश्चरन्ति। प्रत्ययग्रहणं किम्? शक्नोति इति शका। स्थग्रहणम् विस्पष्तार्थम्। ककारमात्रं प्रत्ययो न अस्ति इति सामर्थ्यात् प्रत्ययस्थस्य ग्रहणम् शक्यते विज्ञातुम्। कातिति किम्? मण्डना। रमणा। पूर्वस्य इति किम्? परस्य मा भूत्, पटुका। मृदुका। अतः इति किम्? गोका। नौका। तपरकरणं किम्? राका। धाका। आपि इति किम्? कारकः। धारकः। अथ आपि इत्यनेन किम्? विशिष्यते? ककारः। यद्येवम्, कारिका इत्यत्र अपि न प्राप्नोति, अकारेण व्यवहितत्वात्? एकादेशे कृते न अस्ति व्यवधानम्। एकादेशः पूर्वविधौ स्थानिवद्भवति इति व्यवधानम् एव? वचनाद् व्यवधानमीदृशं यत् स्थानिवद्भावकृतम् एकेन वर्णेन तदाश्रीयते। रथकट्यादिषु तु श्रुतिकृतम् अनेकेन वर्णेन व्यवधानम् इति इत्वं न भवति। असुपः इति किम्? बहवः परिव्राजका अस्यां मथुरायाम् बहुपरिव्राजका मथुरा। सुबन्तादयं बहुपरिव्राजकशब्दात् परः आपिति प्रतिषेधो भवति। प्रसज्यप्रतिषेधश्चायम्, न पर्युदासः। पर्युदासे हि सति समुदायादसुबन्तात् परतः आपिति इत्वम् अत्र स्यादेव। अविद्यमानः सुप् यस्मिन् सो ऽयम् असुपिति? एवम् अपि नाशीयते। तथा हि सति बहुचर्मिका इत्यत्र अपि न स्यात्। मामकनरकयोरुपसङ्ख्यानं कर्तव्यम् अप्रत्ययस्थत्वात्। मम इयं मामिका नरिका। अणि ममकादेशः। केवलमामक इति नियमात् संज्ञाछन्दसोः ईकारो न अस्त्यत्र, तेन अण्प्रत्ययान्तादपि टाप् भवति, नरान् कायति इति नरिका। आतो ऽनुपसर्गे कः ३।२।३ इति कः प्रत्ययः। प्रत्ययनिषेधे त्यक्त्यपोश्च उपसङ्ख्यानम्। उदीचामातः स्थाने यक्पूर्वायाः ७।३।४३ इति विकल्पो मा भूतिति। दीक्षिणात्यिका। इहत्यिका।
लघु-सिद्धान्त-कौमुदी
प्रत्ययस्थात्कात्पूर्वस्यात इदाप्यसुपः १२६५, ७।३।४४

प्रत्ययस्थात्कात्पूर्वस्याकारस्येकारः स्यादापि स आप्सुपः परो न चेत्। गोपालिका। अश्वपालिका। सर्विका। कारिका। अतः किम्? नौका। प्रत्ययस्थात्किम्? शक्नोतीति शका। असुपः किम्? बहुपरिव्राजका नगरी। (सूर्याद्देवतायां चाब्वाच्यः)। सूर्यस्य स्त्री देवता सूर्या। देवतायां किम्? (सूर्यागस्त्ययोश्छे च ङ्यां च)। यलोपः। सूरी - कुन्ती; मानुषीयम्॥
न्यासः
प्रत्ययस्थात्कात्पूर्वस्यात इदापयसुपः। , ७।३।४४

"सुपः परो न भवति" इति। सुबन्तात्परो न भवतीत्यर्थः। एवं चार्थः प्रत्ययग्रहणपरिभाषया वेदितव्यः। "जटिलिका, मुण्डिका" इति। अज्ञातादिष्वर्थेषु "प्रागिवात्? कः" ५।३।७०। "कारिका, हारिका" इति। ण्वुल्()। "एतिका" इति। एतदः "अव्ययसर्वनाम्नाम्()" ५।३।७१ इत्यकच्(), त्यादाद्यत्वम्(), "अतो गुणे" ६।१।९४ पररूपत्वम्(), टाप्(), अकः सवर्णे दीर्घत्वम्? ६।१।९७। "शका" इति। पचाद्यच्(), टाप्()। "स्थग्रहण विस्पुष्टार्थम्()" इति। अत्र यत्र ककारमात्रं हि प्रतययसतत्र मा भूदित्येवमर्थं कस्मान्न भवति? इत्याह--"ककारमात्रं हि" इत्यादि। कादिति वर्णग्रहणम्()। अकारस्तूच्चारणार्थः। न तु केवलः ककारः प्रत्ययोऽस्ति यन्निवृत्त्यर्थं स्थग्रहणं स्यात्()। "कात्? प्रत्ययात्()" इत्युच्यमाने प्रत्ययावयवे प्रत्ययशब्दो वर्त्तिष्यते, अतोऽन्तरेणापि स्थग्रहणं प्रत्ययस्थस्य ककारस्य ग्रहणं शक्यते विज्ञातुम्()। तस्माद्वस्पष्टार्थं स्थग्रहणम्()। "मण्डना, रमणा" इति। नन्द्यादभ्यो लयुः (३।१।१३४। "पटुक" मृदुका, गोका, नौका" इति। पूर्ववत् कः। "राका, धाका" इति। "रालाऽदाने" (धा।पा।१०५७,१०५८) इत्यस्माद्दषातेश्च "कृदाधारार्चिकलिभ्यः कः" (द।उ।३।१८) इत्यौणादिकः कप्रत्ययः। "अथ" इत्यादि। चोदतः। "ककारः" इतीतरः। ककरस्य श्रुतत्वात्? तस्यैवापीति विशेषणं युक्तमित्यभिप्रायः। येनाभिप्रायेण चोदकः पृष्टवांस्तमाविष्कर्तुमाह--"यद्येवम्()" इत्यादि। यद्यपीत्यनेन ककारो विशिष्यते--आपि परतो यः ककार इति। एवं सति करिकेत्यत्र न प्राप्नोति; ककारस्याकारेणायो व्यवहितत्वात्()। "एकादेशे कृते" इत्यादीतरः। व्यवसर्गे हि सति व्यवधानं भवति। न चैकादेशे कृते व्यवसर्गोऽस्तीत्यतो नास्ति व्यवधानम्()। "एकादेशः पूर्व" इत्यादि। चोदकः। स्थानिवद्भावस्तु "अचः परस्मिन्? पूर्वविधौ" १।१।५६ इत्यनेन। "वचनात्()" इतीतरः। उच्यते चेदं वचनम्(), न चाप्यनन्तरं ककारः सकम्भवतीति तत्र वचनसामथ्र्यात् स्थानिवद्भावे कृते नैकेन वर्णेन सर्वत्र व्यवधानमाश्रीयते। यद तर्हि वचनसामथ्र्यात्? कारिकेत्यादौ व्यवधानेऽपि भवति, तदारथकट()आ, पुत्रकाम्येत्यत्रापि स्यात्()? इत्यत आह--"रथकट()आदिषु" इत्यादि। रथानां समूहः "इनित्रकट()चश्च" ४।२।५० इति कट()च्(), ततष्टाप्()। पुत्रमिच्छतीति "कम्यच्च" ३।१।९ इति काम्यच्प्रत्ययः। "अ प्रत्ययात्()" ३।३।१०२ ततष्टाप्()। तत्र श्रुतिकृतमनेकेन वर्णेन व्यवधानमितीत्त्वं न भवति। "येन नावयवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात्()" (व्या।प।४६) इत्येकेन वर्णेन व्यवधानमाश्रीयते। येन नावयवधानमपि तु सर्वत्र व्यवधानम्(), तेनैकेन वर्णेन व्यवहिते भवित्तुं युक्तम्()। स्थानिवद्भवकृतमेकेन वर्णेन सर्वत्र वयवधानमस्ति, सङ्घातेन त्वस्ति नास्ति च। तस्मात्? तदिह नाश्रीयते। "सुबन्तादयम्()" इति। परिव्राजकशब्दात्? पर आबिति प्रतययलक्षणे सुबन्तता वेदितव्या। "प्रसज्यप्रतिषेधश्चायम्()" इति। न चेत्सुबन्तादाप्? परो भवति। कः पुनः परयुदासे दोषो यतः स साश्रोयते? इत्याह--"पर्युदासे हि" इत्यादि। यद्ययं पर्युदासः स्यात्? सुपोऽन्योऽसप्(), ततश्चोदाप्? परो भवतीति; ततो बहुपरिब्राआजकेत्यत्रापि स्यादेवेत्त्वम्, असुबन्तात्? पूर्वोत्तरपदसमुदायात्? पर आबिति कृत्वा। असुबन्ततवं पुनः समुदायस्य, तस्मात्? सुदनुत्पत्तेः; अवयवाद्धि परिव्राजकशब्दादत्र सुबुत्पत्तिः, न तु समुदायात्()। "अविद्यमानः सुब् यस्मिन्? सोऽयमसुबित्ययमपि नाश्रीयते" इति। बहुव्रीहिरपि नाश्रीयत इत्यर्थः। कः पुनस्तदाश्रयणे दोषो यतः स नाश्रीयते? इत्याह--तथा हि" इत्यादि। एवं तर्हीत्यर्थः। बहुव्रीहौ पूर्वोत्तरपदयोः प्रत्ययलक्षणेन सुबन्तव्यपदेशोऽस्तीति नासावसुप, अपि तु विद्यमानसुबेव। तेन बहुचर्मिकेत्यत्र नासुपः पर आबितीत्त्वं न स्यात्()। बहूनि चर्माण्यस्यां विद्यन्त इति बहुव्रीहिः। "शेषाद्विभाषा" ५।४।१५४ इति कप्(), टाप्()। "मामिका" इति। ममेयमिति "तस्येदम्()" (४।३।१२०) इत्यण्? "तवकममकौ" ४।३।३ इति ममकादेशः। नन्वणन्तान्ममकशब्दात्? "टिड्ढाणञ्()" ४।१।१५ इति ङीपा भवितव्यम्(), तत्? कथं टाब्भवति? "केवलमामकेति नियमात्()" इत्यादि। "नरिका" इति। "कै गे शब्दे" (धा।पा।९१६,९१७)। "आदेच उपदेशेऽशिति" ६।१।४४ इत्यत्त्वम्(), "आतोऽनुपसर्गे कः" ३।२।३, ततष्टाप्()। "दाक्षिणात्यिका, इहत्यिका" इति। दक्षिणस्यां दिशि भवेत "दक्षिणापश्चात्पुरसस्त्यक्()" ४।२।९७ इति त्यक्()। इह भवेति "अव्ययात्यप्()" ४।२।१०३। उभयत्राज्ञातादिष्वर्थेषु "प्रागिवात्कः" ५।३।७०। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। तत्रेवं प्रतिपादनम्()--"उदीचामातः, स्थाने" (७।३।४६) इत्यत्र व्यवस्थितविभाषाविज्ञानात्? त्यक्त्ययोर्नित्यं भविष्यतीति॥
बाल-मनोरमा
प्रत्ययस्थात्कात्पूर्वस्यात् इदाप्यसुपः ४५७, ७।३।४४

प्रत्ययस्थात्। ककारादिति। क् इति वर्णादित्यर्थः। अकार उच्चारणार्थः। "वर्णात्कारः" इत्युक्तेः। एवंच सूत्रे कादित्यत्राऽकार उच्चारणार्थ इति सूचितम्। स आबिति। इत्त्वविधौ यः परनिमित्तत्वेनोपात्तः स आबित्यर्थः। सुपः परो न चेदिति। सूत्रे "असुपः" इति पञ्चम्यन्तम्, असमर्थसमासः। आपि सुपः परस्मिन्सति इत्त्वं न भवतीत्यर्थो विवक्षित इति भावः। सर्विकेति। सर्वशब्दाट्टापि सवर्णदीर्घे सर्वाशब्दः। एकादेशस्य पूर्वान्तत्वेन ग्रहणात्सर्वनामकार्यम्। ततश्च अव्ययसर्वनाम्ना"मिति टेः प्रागकच्। तत्र ककारादकार उच्चारणार्थः। चकार इत्। अक् इति ककारान्तः प्रत्ययष्टेः प्राग्भवति। सर्वकाशब्देऽस्मिन्ककारात्पूर्वस्य अत इत्त्वे सर्विकेति रूपम्। ननु ककारात्पूर्वस्य अकारस्य कथमित्त्वम्, ककारेण व्यवहिततया आप्परकत्वाऽभावादिति चेत्, न, "येन नाव्यवधान"मिति न्यायेन तद्व्यवधानस्य अबाधकत्वात्। कारिकेति। कृञो ण्वुल्, अकादेशः "अचो ञ्णिती"ति ऋकारस्य वृद्धिः, रपरत्वं कारकशब्दाट्टाप्, सवर्णदीर्घः, कात्पूर्वस्य रेफादकारस्य इत्त्वम्। कादिति सङ्घातग्रहणे तु एतिका इति न सिध्यति। एतच्छब्दे टेः प्रागकचि एतकच्छब्दाज्जसि, त्यदाद्यत्वे, पररूपे, अदन्तत्वाट्टापि, कात्पूर्वस्य इत्त्वे एतिका इति रूपम्। अत्राऽकचि अकारस्य उच्चारणार्थतया प्रत्ययस्थकशब्दाऽभावादित्त्वं न स्यात्, ककारादुत्तराऽडवर्णस्याऽकजनवयवत्वात्। न चाऽकचि अकारस्य नोच्चारणार्थत्वमिति शङ्क्यम्, एवं सति निरित्यव्यये अकचि नकिरिति न स्यात्। अतः कादित्यनेन कककारादित्येव विवक्षितम्। यका सकेत्यत्र "न यासयोः" इतीत्त्वनिषेधाल्लिङ्गाच्च। अन्यथा तत्र प्रत्ययस्थककाराऽभावेन इत्त्वस्याऽप्राप्तेः किं तन्निषेधेनेत्यलम्।

नौकेति। नौशब्दात्स्वार्थिकः कः, टाप्। अत्र ककारात्पूर्वस्य औकारस्य इत्त्वनिवृत्त्यर्थमत इति वचनम्। शकेति। "शक्लृ शक्तौ" पचाद्यच्, टाप्। अत्र ककारस्य प्रत्ययस्थत्वाऽभावान्न ततः पूर्वस्य इत्त्वम्। बहुपरिव्राजकेति। परिपूर्वाद्व्रजेर्ण्वुल्। बहवः परिव्राजका यस्यामिति बहुव्रीहिः। सुपो लुकि बहुपरिव्राजकशब्दाट्टाप्। अत्राऽकारस्य कात्पूर्वस्य इत्त्वं न, प्रत्ययलक्षणेन आपः सुबपेक्षया परत्वात्। "न लुमते"ति निषेधस्तु न, तस्य लुमता लुप्ते प्रत्यये यदङ्गं तस्य कार्य एव प्रवृत्तेः। इत्त्वं तु टाप्यनाङ्गकार्यमिति नात्र तन्निषेधः। यदि तु "असुपः" इति पर्युदासाअश्रीयते, तर्हि "बहुपरिव्राजक" इति समुदायस्य सुब्भिन्नत्वादापस्ततः परत्वादित्त्वं दुर्वारं स्यादिति भावः। राकेति। "कृदाधारार्चिकलिभ्यः कः" इति राधातोरौणादिकः कप्रत्ययः। "उणादयो बहुल"मिति बहुलग्रहणात् "केऽणः" इति ह्यस्वो न, ककारस्य च नेत्वम्। टाप्। स्त्रीत्वं लोकात्। "कलाहीने सानुमतिः पूर्णे राका निशाकरे" इत्यमरः। अत्र ककारात् पूर्वस्य दीर्घाकारत्वान्नेत्त्वमिति भावः।

मामकेति। मामकनरकशब्दयोः कात्पूर्वस्य इत्त्वं वक्तव्यमित्यर्थः। मामिकेति। ममेयमिति विग्रहे "युष्मदस्मदोरन्यतरस्यां खञ्चे"त्यणि, "तवकममकावेकवचने" इति ममकादेसे, आदिवृद्धिः, टाप्, "टिड्ढाणञ्" इत्यादिना ङीप्तु न, "केवकमामके"त्यादिना संज्ञाच्छन्दसोरेव मामकशब्दान्ङीब्नियमात्। ततस्चात्र ककारस्य प्रत्ययस्थत्वाऽबावात् "प्रत्ययस्था"दित्यप्राप्तौ वचनमिदम्। नरानिति। कैशब्दे "आदेच उपदेशे" इत्यात्त्वे, "आतोऽनुपसर्गे कः" इति कप्रत्यये "आतो लोप इटि चे"ति आलोपः, उपपदसमासः, सुपो लुक्, टाप्। अत्रापि ककारस्य प्रत्ययस्थत्वाऽभावात्।"प्रत्ययस्था"दित्यप्राप्तौ वचनम्। त्यक्त्यपोश्चेति। त्यगन्ते त्यबन्ते च प्रत्ययस्थात्कात्पूर्वस्याऽकारस्य इत्त्वं वक्तव्यमित्यर्थः। "उदीचामातः स्थाने" इति विकल्पस्यापवादः। दाक्षिणात्यिकेति। दक्षिणस्या दिशि अदूरे इति विग्रहे "दक्षिणादाच्" इत्याच्, "तद्धितश्चासर्वविभक्तिः" इत्यव्ययत्वम्। दक्षिणाशब्दाद्भवाद्यर्थे "दक्षिणापश्चात्पुरसस्त्यक्" इति त्यक्, "किति चे"त्यादिवृद्धिः, दाक्षिणात्यशब्दाट्टाप्। ततः स्वार्थिकः कः, "केऽणः" इति टारो ह्यस्वः, पुनष्टाप्, इत्त्वम#इति भावः। "दक्षिणस्यां दिशि भवे"ति विग्रहे दक्षिणाशब्दाट्टाबन्तादेव त्यकन्" इति मतं तु प्रौढमनोकमायां दूषितम्। इहत्यिकेति। "अव्ययात्य"बिति त्यप्, टाप्, स्वार्थिकः कः, "केऽणः" इति ह्यस्वः, पुनः टाप्।

तत्त्व-बोधिनी
प्रत्ययस्थात्कात्पूर्वस्यात इदाप्यसुपः ४१२, ७।३।४४

प्रत्ययस्थात्कात्पूर्वस्य। "का"दित्यकार उच्चारणार्थः। व्यञ्जनमात्रं विवक्षितम्। अन्यथा एतिकाश्चरन्तीत्यादावकचि इत्वं न स्यात्। तत्र हि अकारविशिष्टककारस्य प्रत्ययस्थत्वाऽभावात्। न चाकच्यप्यकारान्तककार एल प्रत्ययस्थो भवतु, "अतो गुणे"इति पररूपे सत्येतिका इत्यादिरूपसिद्धेरिति वाच्यम्, "पचतकी"त्यादिवक्ष्यमाणरूपाऽसिद्धिप्रसङ्गादित्याशयेनाह--ककासादिति। वर्णनिर्देशे हि कारप्रत्ययो विहितः। क्वचित्समुदायात्प्रयोगस्तु "उच्चैस्तरां वा वषट्कारः"इत्यादिनिर्देशरूपत्रसाध्य इति भावः। आपि पर इति। एतच्चाऽकारविशेषणम्। तत्सामथ्र्यात्ककाराकाराभ्यां व्यवायेऽपि भवति, न तु "पुत्रकाभ्या""स्थकटये"त्यादौ त्रिचतुरादिव्यवाये। अतएव "सर्विके"त्यादावाद्याकारस्य न भवति, तदेतदुक्तम्---अकारस्येकारः स्यादापि पर इति। यदि त्वापीति ककारविशेषणं स्यात्तर्हि "रथकठ()ए"त्यादावतिप्रसङ्गः, व्यवहितस्यापि परत्वाऽपायात्। न च निर्दिष्टपरिभाया निस्तारः, अनुवादे परिभाषाणामित्यत्राऽनुवाद इत्यस्याऽनूद्यमानविशेषणेष्वित्यर्थाभ्युपगमात्। "कात्पूर्वस्यात् इ"दित्यत्र हि"अत"इत्यनूद्येत्वविधानादनुवाद्यत्वमेवाऽत इत्यस्य, न त्वनूद्यमानविशेषणत्वम्। "का"दित्यस्य त्वनूद्यमानविशेषणत्वं स्पष्टमेवेति न तत्र निर्दिष्टपरिभाषोपतिष्ठत इति वैषम्यात्ष। अनूद्यमानविशेषणे परिभाषा नोपतिष्ठत इत्येतत् "उदिचामातः"इति सूत्रस्थस्थाने ग्रहणेन ज्ञापयिष्यते। यदि "असुपः"इति पर्युदासः स्यात्तर्हि "बहुपरिव्राजका नगरी"त्यत्रापि स्यादेव, उत्तरपदस्य सुबन्तत्वेऽपि समुदायस्याऽसुबन्तत्वात्ततः परष्टाबिति। तेनाऽत्रप्रसज्यप्रतिषेध इत्याह--स आप्सुपः परो न चेदिति। सुबन्तात्परो न चेदित्यर्थः। सर्विकेति। "अव्यय सर्वनाम्ना"मित्यज्ञातार्थेऽकच्। कारिकेति। करोतेर्ण्वुल्। णित्त्वाद्वृद्धिः। नौकेति। "नौ"शब्दात्स्वार्थे कः, ततष्टाप्। शकेति। शक्नोतीति विग्रहः। पचाद्यत्। ततष्टाप्। बहुपरिव्राजकेति। परिपूर्वद्व्रजेर्ण्वुल्। बहवः परिव्राजका यस्यामिति बहुव्रीहौ तदवयवस्य सुपो लुकि कृतेऽपि प्रत्ययलक्षणेनोत्तरपदस्य सुबन्तत्वाट्टापः सुबन्तात्परत्वमस्तीतीत्वमत्र न भवति। नन्दनेति। "नन्दीग्रही"ति ल्युः। पूर्वस्य किमति। अर्थादेवेदं लभ्यते। टाबेकादेशे कृते परत्र ह्यस्वाऽकाराभावादिति प्रश्नः। इतरो निर्दिष्टपरिभाषया कात्पूर्वस्येति न लभ्यते, किंतु टाबेकादेशं बाधित्वा कात्परस्यैवाकारस्य स्यादित्याशयेनाह---परस्येत्यादि। कटुकेति। कटुरत्र कटुरसवति। आज्ञातादौ कः। वस्तुतस्तु सूत्रे "प्रत्ययस्थे की"ति सप्तमीनिर्देशमेव कृत्वा "पूर्वस्ये"ति ग्रहणं सुत्यजमित्याहुः। राकेति। "कृदाधारार्चिकलिभ्यः कः"। बाहुलकादित्संज्ञाऽभावः। संज्ञापूर्वकविधेरनित्यत्वात् "केऽणः"इति ह्यस्वो न।

मामकनरकयोरुपसङ्ख्यानम्। मामकनरकयोरिति। ककारस्य प्रत्ययस्थत्वाभावादप्राप्ते वचनम्। मानिकेति। ममेयं मामिका। "युष्मदस्मदोरन्यतरस्यां खञ्चेत्यण्, "तवकममकावेकवचने"इति ममकादेशः, आदिवृद्धिः। "केवलमानके"त्यादिना "संज्ञाछन्दसोरेवे"ति नियमान्नङीप्। नरकेति। "कै शब्दे" "आदेच उपदेशे"इत्यत्वम्, "आतऽनुपसर्गे कः", "आतो लोप इटि चे"त्यलोपः टाप, इत्वम्। त्यक्त्यपोश्च। "उपसङ्ख्यान"मित्यनुषज्यते। "उदीचामातः"इति विकल्पापवादः। दाक्षिणात्यिकेति। दक्षिणस्यामदूरे दक्षिणा। "दक्षिणादाच्"दक्षिणा भवेति विग्रहे "दक्षिणापश्चात्पुरसस्त्यत्", "किति च" इत्यादिना वृद्धिः, टाप्। ततोऽज्ञातार्थे कः। "केऽणः"इति ह्यस्वः, टाप्। प्राचा तु "दक्षिणस्यां दिशि भवे"ति विगृहीतं, तच्च मनोरमायां दूषितम्। त्यग्विधावव्साहचर्यादाजन्तस्यैव दक्षैणाशब्दस्य ग्रहणात्। अन्यथा सर्वनाम्नो वृत्तिमात्रे पुंवद्भावापत्तेश्चेति। इहत्यिकेति। "अव्ययात्त्यप्"।