पूर्वम्: ७।३।४५
अनन्तरम्: ७।३।४७
 
सूत्रम्
उदीचामातः स्थाने यकपूर्वायाः॥ ७।३।४६
काशिका-वृत्तिः
उदीचामातः स्थाने यकपूर्वायाः ७।३।४६

उदीचाम् आचार्याणां मतेन यकारपूर्वायाः ककारपूर्वायाश्च आतः स्थाने यो ऽकारः, तस्यातः स्थाने इकरादेशो भवति। उदीचां ग्रहणं विकल्पार्थम्। इभ्यिका, इभ्यका। क्षत्रियिका, क्षत्रियका। ककारपूर्वायाः चटकिका, चटकका। मूषिकिका, मूषिकका। आतः इति किम्? साङ्काश्ये भवा साङ्काश्यिका। स्थानग्रहणम् अनुवादे ऽपि स्थानसम्बन्धप्रतिपत्त्यर्थम्। आतः इत्यनेन ह्यतः इति स्थानी विशिष्यते। यकपूर्वायाः इति किम्? अश्वा अश्विका। यकपूर्वायाः इति स्त्रीलिङ्गनिर्देशः आतः स्त्रीप्रत्ययस्य प्रतिपत्त्यर्थम्। इह न भवति, शुभं याति इति शुभंयाः शुभंयिका। भद्रं याति इति भद्रंया भद्रंयिका। यकपूर्वाया धात्वन्तप्रतिषेधः। धात्वन्तयोः यकारककारयोरस्य प्रतिषेधस्य प्रतिषेधो वक्तव्यः। सुनयिका। सुशयिका। सुपाकिका। अशोकिका।
न्यासः
उदिचामातः स्थाने यकपूर्वायाः। , ७।३।४६

पूर्वेण नित्यमित्त्वे प्राप्ते विकल्पार्थं वचनम्()। यकौ पूर्वे। यस्याः सा यकपूर्वा। कोऽन्यपदार्थः? समुदायः। तथा हि, पूर्वशब्दोऽवयवे वत्र्तते। स चावयवः समुदायस्य भवति, नावयवान्तरस्य। न हि वर्णो वर्णस्यावयवो भवति। अवयवान्तरापेक्षस्तु तस्य पूर्वत्वव्यपदेशः। तत्? पुनरवयान्तरं प्रकृतत्वात्? स्थान्यकार एव विज्ञायते। स्त्रीलिङ्गनिर्देशस्तु तस्य[तस्येत्यारभ्य "तु" इति पर्यन्तं मुद्रितन्यासे नोपलक्ष्यते] समुदायस्यार्थधर्मेण स्त्रीत्वेन वेदितव्यः। प्रयोजनं तु तस्य वक्ष्यते। "आतः स्थाने" इति। योऽकार इति व्यवहितेन सम्बन्धः। "इभ्यिका" इत्यादि। इभ्यादिशब्देभ्यः "प्रागिवात्? कः" ५।३।७०, "केऽणः" ७।४।१३ इति ह्यस्वः। "सांकाश्यिका" इति। "धन्वयोपधाद्वुञ्()" ४।२।१२०। नात्रातः स्थानेऽकार इति नित्यमेवेत्त्वम्()। अथ स्थानग्रहणं किमर्थम्(), यावतात्? इत्येषैव षष्ठी स्थानेयोगं प्रतिपादयिष्यति, "षष्ठी स्थानेयोगा" (१।१।४९) इति वचनात्()? इत्यत आह--"स्थानग्रहणम्()" इत्यादि॥ अकारस्य स्थाने लक्षणान्तरेण दिहितस्याकारस्य संकीत्र्तनम्()नुवादः। अत्रापि स्थाने सम्बन्धप्रतिपत्तिर्यथा स्यात्()--इत्येवमर्थं स्थानग्रहणम्()। किं पुनः कारणम्()--असति स्थानग्रहणेऽनुवादे सम्बन्धप्रतिपत्तिर्न स्यात्()? इत्याह--"आत इत्यनेन" इत्यादि। आदेशविधौ "अस्तेर्भूः" २।४।५२ इत्येवमादौ "षष्ठी स्थानेयोगा" १।१।४८ इत्येषा परिभाषोपतिष्ठते, न त्वनुवादे; विधिवाक्यशेषभूतत्वादस्याः। न चात्राकारस्य स्थानेऽकारोऽनेन विधीयते, किं तर्हि? लक्षणान्तरेणाभिनिर्वृत्तोऽनेन विशिष्यते--आतः स्थाने योऽकार इति। तेन नात्र तस्याः परिभाषाया उपसथानमिति तत्र यदि स्थानग्रहणं न क्रियेत, तदातः समीपो योऽकार इति सामीप्पसम्बन्धप्रतिपत्तिः स्यात्()। अथ वा पूर्ववत्? प्रश्ने कृत इत्याह--"आत इत्यनेन" इत्यादि। इकारस्य यः स्थानित्वेनोपात्तोऽकारः स आत इत्यनेन विशिष्यते। एवञ्च विशेष्यत्वादकारस्य प्रधान्यम्(); आकारस्य विशेषणत्वादप्राधान्यम्()। तत्रासति स्थानग्रहमे यद्यप#इ सा परिभाषानुवाद उपतिष्ठेत तथापि प्रधाने कार्यसम्प्रत्ययादात इत्यस्या एव षष्ठ्याः स्थानसम्बन्धो विज्ञायेत, न त्वात इत्यस्याः। स्थानग्रहणे तु सत्यस्या अपि विज्ञायते--एतदर्थं स्थानग्रहणम्()। "अ()इआका" इति। पूर्ववत्? कः, ह्यस्वत्वञ्च। अथ "यकपूर्वायाः" इति स्त्रीलिङ्गेन निर्देशः क्रिमर्थः? इत्याह--"स्त्रीलिङ्गेन निर्देशः। असति तस्मिन्नाकारमात्रस्थाने योऽकारस्तस्य स्थानित्वं विज्ञायेत, ततश्च यातेः शुभम्भद्रंशब्दयोरुपपदतः "विजुपे च्छब्दसि" ३।२।७३ इति "आतो मनिब्क्वनिब्वनिपश्च" ३।२।७४ इति विच्()। तदन्तात्? कप्रत्यये शुर्भयिका, भद्रंयिका इत्यत्रापि विकल्पः प्रसज्येत। तस्मात्? तन्निवृत्त्यर्थं स्त्रीलिङ्गनिर्देशः। शुभम्भद्रंशब्दौ मकारान्तौ निपातौ। "यकपूर्वायाः" इत्यादि। ग्रहणवाक्याम्()। तस्य "धात्वन्तयोर्यकारककारयोः" इत्यादि। विवरणम्()। "वक्तव्यम्()" इति। व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्()--व्यवस्थितविभाषाविज्ञानाद्धात्वन्तयोरपि यकारवकारयोरनन्तरस्याकारस्येत्त्वप्रतिषेधः प्राप्नोति, स न भविष्यतीति। "सुनयिका, सुशयिका" इति। णीञ्शीङ्भ्यां "एरच्()" ३।३।५६ इत्यच्()। शोभनो नयोऽस्याः, शोभनः शयोऽस्याः--सुनया, सुशया, ततः "प्रागिवात्? कः"५।३।७०, "केऽणः" ७।४।१३ इति ह्यस्वत्वम्()। "सुपाकिका", "अशोकिका" इति। "डुपचष्? पाके" (धा।पा।९९६), "शुच शोके" (धा।पा।१८३), भावे घञ्()। शोभनः पाकोऽस्याः, अविद्यमानः शोकोऽस्या इति बहुव्रीहिः, "शेषाद्विभाषा" ५।४।१५४ इति कप्(), "आपोऽन्यतरस्याम्()" ७।४।१५ इति ह्यस्वत्वम्()॥
बाल-मनोरमा
उदीचामातः स्थाने यकः पूर्वायाः ४५९, ७।३।४६

उदीचामातः। "प्रत्ययस्थात्" इति सूत्रमनुवर्तते। यश्च कश्च यकौ, तौ पूर्वौ यस्या इति विग्रहः। यकेति वर्णग्रहणम्, अकारावुच्चारणार्थौ। "यकपूर्वाया" इत्येतदात इत्यस्य विशेषणम्। तेन अर्थगतं स्त्रीत्वमाकारे आरोप्य "यकपूर्वाया" इति स्त्रीलिङ्गनिर्देशः। तेन आकारस्य स्त्रीवाचकत्वं लभ्यते। तदाह--यकपूर्वस्येत्यादिना। उदीचांग्रहणं विकल्पार्थमेव नतु देशतो व्यवस्थार्थमिति "न वेति विभाषा" इति सूत्रे बाष्ये स्पष्टम्। नच "षष्ठी स्थानेयोगा" इत्येव सिद्धेरिह स्थानेग्रहणं व्यर्थमिति वाच्यम्, अनुवादे परिभाषाणामनुपस्थितेः। तत्र च इदमेव स्थानेग्रहणं ज्ञापकम्। अत एव "वृद्धिर्यस्याचामादिस्तद्वृद्ध"मित्यत्र यस्यादिर्वृद्धिरित्यनुवादे इक्परिभाषा न प्रवर्तते। तत्प्रवृत्तौ तु शालाशब्दस्य वृद्धसंज्ञा न स्यात्, शकारादाकारस्य इक्श्तानिकत्वाऽभावात्। ततस्च शालीय इति "वृद्धाच्छः" इति छो न स्यात्, "औपगवीय" इत्यादावेव स्यादित्यलम्। केऽण इति ह्यस्व इति। आर्याशब्दात्स्वार्थिके कप्रत्यये यकाराकारस्य "केऽणः" इति ह्यस्व इत्यर्थः। पुनष्टापि आर्यकाशब्दः। तत्र यकारादकारस्य आकारस्थानिकत्वादित्त्वविकल्पः। "प्रत्ययस्था"दिति नित्यस्येत्त्वस्यापवादः। तदाह--आर्यका-आर्यिकेति। यकारपूर्वस्य उदाहरणमिदम्। अथ ककारपूर्वस्य उदाहरति--चटकका चटकिकेति। चटकाशब्दात्स्वार्थे कः, "केऽणः" इति ह्यस्वः, पुनष्टाप्, इत्त्वविकल्प इति भावः। साङ्खाश्यिकेति। सङ्काशेन निर्वृत्तं नगरं साङ्काश्यम्। "वृञ्छणकठ"जित्यादिना सङ्काशिद्भ्यो ण्यः, आदिवृद्धिः, "यस्येति चे"त्यकारलोपः। साङ्काश्यशब्दाद्भवार्थे "धन्वयोपधाद्वुञ्"। अकादेशः "यस्येति चे"त्यकारलोपः, टाप्, "प्रत्ययस्था"दिति नित्यमित्त्वम्। इह यकारादकारस्य आकारस्थानिकत्वाऽभावादित्त्वविकल्पो न भवतीति भावः। ननु स्त्रीबोधकस्य अत इद्वा स्यादित्येवास्तु, आत इति मास्तु। साङ्काश्यकाशब्दे यकारादकारस्य वुञादेशावयवत्वेन स्त्रीबोधकत्वाभाऽदिति चेत्, तह्र्रात् इति स्पष्टार्थमित्याहुः। अ()इआकेति। अ()आआशब्दात्कः, "केऽणः" इति ह्यस्वः, पुनष्टाप्, अ()आकाशब्दः। अत्र अकारस्य आकारस्थानिकत्वेऽपि यकपूर्वकत्वा।ञभावादित्त्वविकल्पो न, किंतु "प्रत्ययस्था"दिति नित्यमित्त्वमिति भावः। स्त्रीप्रत्यय इति किमिति। "यकपूर्वाया" इति स्त्रीलिङ्गनिर्देशलब्धं स्त्रीप्रत्ययस्येति किमर्थमिति प्रश्नः। शुभंयिकेति। "शुभ"मिति मान्तमव्ययम्। तस्मिन्नुपपदे "या प्रापणे" इति धातोः "अन्येभ्योऽपि दृश्यते" इति विच्। शुभंयाशब्दात्स्वार्थे कः। "केऽणः" इति ह्यस्वः, टाप्, शुभंयकाशब्दः। अत्र यकारादकारस्य धात्ववयवस्य स्त्रीवाचकत्वाऽभावादित्त्वविकल्पो न, किन्तु "प्रत्ययस्थात्" इति नित्यमेवेत्त्वमिति भावः।

"यक पूर्वे धात्वन्तप्रतिषेधः" इति वार्तिकमर्थतः संगृह्णाति--धात्वन्तयकोस्तु नित्यमिति। यश्च कश्चेति विग्रहः। धात्वन्तयकारककारयोरुपरि विद्यमानस्य अकारस्य नित्यमित्त्वम्, न तु विकल्प इत्यर्थः। सुनयिकेति। णीञ्धातोः पचाद्यच्। "सार्वधातुकार्धधातुकयो"रिति गुणेऽयादेशे नयशब्दः। सु=शोभनो नयो यस्याः सा सुनया। ततः स्वार्थे कः, "केऽणः" इति ह्यस्वः। पुनष्टाप्, सुनयकाशब्दः। अत्र यकारस्य धात्वन्तत्वात्ततः परस्याऽकारस्य नेत्वविकल्पः, किंतु "प्रत्ययस्था"दिति नित्यमित्त्वमिति भावः।

तत्त्व-बोधिनी
उदीचामताः स्थाने यकपूर्वायाः ४१४, ७।३।४६

उदीचाम्। यकौ पूर्वौ यस्याः सा। अर्थगतं स्त्रीत्वमाकारे आरोप्य "यकपूर्वाया"इति स्त्रीलिङ्गनिर्देशः। तेन स्त्रीप्रत्ययो लभ्यत इत्यह--स्त्रीप्रत्ययाऽकारस्येति। अत्र "न यासयो"रित्यतो "ने"ति वर्तते। यकपूर्वस्य स्त्रीप्रत्ययाऽ‌ऽकारस्य स्थाने योऽकारस्तस्य कात्पूर्वस्योदीचां मते इत्त्वं नेत्यक्षरार्थः। एवं स्थिते फलितमाह---इद्वास्यादिति। एवमग्रेऽप्यूह्रम्। "षष्ठी स्थानेयोगे"त्यनेनैव लब्धे सूत्रे स्थानग्रहणमनूद्यमानविशेषणेषु परिभाषानोपतिष्ठत, तदा औपगवीय इत्यादावेव "वृद्धाच्छः"स्यात् नतु "शलीयः""मालीय"इत्यादौ।तत्र ह्राकारवृद्धेरिक्स्थानिकत्वाऽभावात्। तथा "अतो गुणे"इत्यत्रेक्परिभाषोपस्थितौ "एधे""पचे""यजे"इत्यादावेव पररूपं स्यात्। "टित आत्मनेपदाना"मिति इट एत्वे कृत्वे इक्स्थानिकत्वादेकारगुणस्य। "भवन्ती""पचन्ती"त्यादौ न स्यात्, तत्रेक्स्थानिकत्वाऽभावादकारगुणस्येत्यपि बोध्यम्। नव्यास्तु वृद्धाच्छं बाधित्वा "अणृगयनादिभ्यः"इत्यण्प्रत्ययो यथा स्यादित्येतदर्थभृगयनादिगणे व्याकरणशब्दः पठ()ते। यद्यनूद्यमानविशेषणेषु परिभाषा उपतिष्ठेरन् तर्हि तत्पठनं व्यर्थं स्यात्। आकारवृद्धेरिक्स्थानिकत्वाऽभावने वृद्धसंज्ञाया अभावाच्छस्याऽप्रवृत्तेः। तथा च तस्मादेव पाठादुक्तार्थज्ञापनसंभवे स्थानेग्रहणमिह स्पष्टर्थमित्याहुः। साङ्काश्यिकेति। शङ्काशेन निर्वृत्तं नगरं साङ्काश्यं, "वृञ्छ"णादिसूत्रेण "सङ्काशादिभ्योः ण्यः"। ततो भवार्थे "धन्वयोपधाद्वुञ्"। अकादेशः। स च साङ्काश्यभवां स्त्रियमाहेति तदकारस्यापि वैकल्पिकमित्त्वं स्यात्, तस्मादात इत्युक्तम्। अत्र वदन्ति--यथाऽयमकारो नाऽ‌ऽकारस्थानिकः, एवं स्त्रीप्रत्ययस्थानिकोऽपि नेति व्द्यङ्गविकलमेतत्, "अके"ति समुदायस्य स्त्रीवाचकवुञ्स्थानिकत्वेऽप्यकारमत्रस्याऽतथात्वात्। तस्मादात इति स्पष्टार्थमेवेति। शुभंया इति। "अन्येभ्योऽपि दृश्यते"इति विच्। "शुभ"मिति मान्तो निपातः।

धात्वन्तयकोस्तु नित्यम्। सुनयिकेत। सुष्ठु नयो यस्याः सा सुनया। ततः कः। "केऽणः"इति ह्यस्वः। एवं सुष्ठु पाको यस्याः सा सुपाकिका।