पूर्वम्: ७।३।४
अनन्तरम्: ७।३।६
 
सूत्रम्
न्यग्रोधस्य च केवलस्य॥ ७।३।५
काशिका-वृत्तिः
न्यग्रोधस्य च केवलस्य ७।३।५

न्यग्रोधशब्दस्य केवलस्य यकारादुत्तरस्य अचामादेः अचः स्थाने वृद्धिर् न भवति, तस्माच् च पूर्वम् ऐकार आगमो भवति। न्यग्रोधस्य विकारः नैयग्रोधः चमसः। केवलस्य इति किम्? न्यग्रोधमूले भवाः शालयः न्याग्रोधमूलाः शालयः। न्यग्रोधयति इति न्यग्रोधः इति व्युत्पत्तिपक्षे नियमार्थम्, अव्युत्पत्तिपक्षे विध्यर्थम्।
न्यासः
न्यग्रोधस्य च केवलस्य। , ७।३।५

"नैयग्रोधः" इति। "तस्य विकारः" ४।३।१३२ इत्यण्()। "न्यग रोहतीति न्यग्रोधः" इति। न्यञ्चतीति ऋत्वि३।२।५९गादिनाऽञ्चतेः क्विन्(), "क्विन्प्रत्ययस्य कुः" ८।२।६२ इति कुत्वम्()--ककारः, नेर्यणादेशः। न्यक्पूर्वाद्रूहेः पचाद्यच्()। तत्र "न्यङ्क्वादीनाञ्च" ७।३।५३ इति हकारस्य धकारः, "झलां जशोऽन्ते" ८।२।३९ इति ककारस्य गकारः, लघूपधगुणः--एवं यदा न्यग्रोधशब्दो व्युत्पाद्यते तदा पदान्तत्वाद्यकारस्य "न य्वाभ्याम्()" ७।३।३ इत्यादिनैव सिद्धे नियमार्थंमेतत्()--केवलस्यैव यथा स्यात्(), तदादेर्मा भूदिति। "अव्युत्पत्तिपक्षे विध्यर्थमेतत्()" इति। अपदान्तत्वाद्यकारस्य॥
बाल-मनोरमा
न्यग्रोधस्य च केवलस्य १५२२, ७।३।५

न्यग्रोधस्य च। "न य्वाभ्या"मित्युत्तरसूत्रमिदम्। अस्येति केवलस्य न्यग्रोधस्येत्यर्थः। केवलत्वं पदान्तरविहीनत्वं। न्यक् रोहितीति न्यग्रोध इति व्युत्पत्तिपक्षे यद्यपि "नय्वाभ्या"मित्येव सिद्धं, यकारस्य पदान्तत्वात्। तथापि केवलस्यैव इति नियमार्थं सूत्रम्। अव्युत्पत्तिपक्षे तु यकारस्य अपदान्तत्वाद्विध्यर्थमेव। केवलस्य किम्?। न्याग्रोधमूलाः शालयः।

तत्त्व-बोधिनी
न्यग्रोधस्य च केवलस्य ११८५, ७।३।५

न्यग्रोधस्य च। केवलस्येति किम्()। न्यग्रोमूले भवा न्याग्रोधमूलाः--शालयः। न्यक्--रोहतीति न्यग्रोध इति व्युत्पत्तिपक्षे नियमार्थम्, अव्युत्पत्तिपक्षे तु विध्यर्थम्।