पूर्वम्: ७।३।५३
अनन्तरम्: ७।३।५५
 
सूत्रम्
हो हन्तेर्ञ्णिन्नेषु॥ ७।३।५४
काशिका-वृत्तिः
हो हन्तेर् ञ्णिन्नेषु ७।३।५४

हन्तेः हकारस्य कवर्गादेशो भवति ञिति णिति प्रत्यये परतः नकारे च। घातयति। घातकः। साभुघाती। घातंघातम्। घातो वर्तते। नकारे घ्नन्ति। घ्नन्तु। अघ्नन्। हः इति किम्? अलो ऽन्त्यस्य मा भूत्। हन्तेः इति किम्? प्रहारः। प्रहारकः। ञ्णित्प्रत्ययो हन्तेर् विशेषणम्, नकारो हकारस्य, नकारे ऽनन्तरस्य हन्तिहकारस्य इति। तच्चानन्तर्य श्रुतिकृतं सन्निपातकृतम् आश्रीयते। स्थानिवद्भावशास्त्रकृतं तु यदनानन्तर्यं तदविघातकम्, वचनसामर्थ्यात्। यद्यपि सर्वैरेव ञ्णिन्नैर्हन्तिहकारो विशिष्यते तथापि येन नाव्यवधानं तेन व्यवहिते ऽपि वचनप्रामाण्यातिति ञ्णिति धात्ववयवेन व्यवहिते ऽपि सति भवति। इह तु न भवति, हननम् इच्छति हननीयति, हननीयतेर् ण्वुल् हननीयकः इति।
लघु-सिद्धान्त-कौमुदी
हो हन्तेर्ञ्णिन्नेषु २८९, ७।३।५४

ञिति णिति प्रत्यये नकारे च परे हन्तेर्हकारस्य कुत्वम्। वृत्रघ्नः इत्यादि। एवं शार्ङ्गिन्, यशस्विन्, अर्यमन्, पूषन्॥
न्यासः
हो हन्तेर्ञ्णिन्नेषु। , ७।३।५४

"धातयति" इत्याद्युदाहरणानि "हनस्तोऽचिण्णलोः" ७।३।३२ इत्यत्र व्युत्पादितानि। "ध्नन्ति" इति। लट्(), झेरन्तादेशः, "गमहन" ६।४।९८ इत्यादिनोपधालोपः। "ध्नन्तु" इति। लोट्()। "अध्वन्()" इति। लङ्(), "इतश्च" ३।४।१०० इतीकारलोपः। "प्रहारः, प्रहारकः" इति। हरतेर्घञ्णवुलौ। इह णिन्नग्रहणं हन्तिविशेषणं वा स्यात्()--ञ्णिन्नकारपरस्य हन्तेर्यो हकार इति, हकारविशेषणंवा--ञ्णिन्नकारपरसय हकारस्येति स चेद्धन्तेरिति? तत्र यदि पूर्वकः पक्ष आश्रीयेत, ध्नन्त्यादौ न स्यात्(), न ह्रत्र नकारपरो हन्तिः; अवयवेन समुदायस्य पौर्वापर्यानुपपत्तेः, अन्यस्य नकारस्याभावात्()। अथेतरः पक्ष आश्रीयेत, न क्वचित्? स्यात्(), न हि हकारस्य ञ्णिन्नकारपरता सम्भवति। असम्भवस्तु ध्नन्तत्यादावकारलोपस्य पूर्वविधौ स्थानिवद्भावे सत्यकारेण व्यवधानात्, घातयतीत्यादावपि हकारात्? परेण हन्त्यवयवेनानशब्देन व्यवधानात्()। अथ वचनसामथ्र्याद्व्यवधानेऽपि कृत्वं स्यात्(), एवमपि हननमिच्छतीति "सुप आत्मनः क्यच" ३।१।८, "क्यचि च" ७।४।३३ इतीत्त्वम्(), क्यजन्ताण्णवुल्(), "अतो लोपः" ६।४।४८ इत्यकारलोपो हननीयक इत्यत्रापि स्यादिति यश्चोदयेत्(), तं प्रति पक्षान्तरमाश्रित्याह--"ञ्णित्प्रत्ययोऽत्र हन्तेर्विशेषणम्()" इत्याद। न हि सर्वेषां ञ्णिन्नकाराणां ह()न्त प्रति विशेषणत्वमुपपद्यते, नापि हकारं प्रति। तस्माद्यथासम्भवं किञ्चिदेव कस्यचिद्विशेषणम्()। ञ्णित्प्रत्ययस्तु हन्तेः परतः उपपद्यते इति तस्यासौ विशेषणम्()--ञ्णिति प्रत्यये परतोऽनन्तरस्य हन्तेरिति। नकारस्तु हन्तेर्विशेषणँ नोपपद्यते; पूर्वोक्तात्? कारणात्()। इकारस्य तूपपद्यत इति तस्यैव विशेषणम्()--नकारे परतोनन्तरस्य हन्तिहकारस्यानन्तर इति। अयं तु "तस्मिन्निति निर्दिष्टे पूर्वस्य" १।१।६५ इति निर्दिष्टग्रहणस्यानन्तर्यार्थत्वाल्लभ्यते। आनन्तर्याश्रयणे तु--हन्ता, हन्तुमित्यत्राप्यतिप्रसङ्गो निरस्तः। ननु चानन्तर्यमेव हकारस्य णकारेण न सम्भवति, अकारलोपस्य स्थानिवद्भावे सत्यकारेण व्यवधानात्()? इत्यत आह--"तच्च" इत्यादि। "सन्निपातकृतम्" इति। श्रुतिकृतमित्यर्थः। ननु चाश्रितेऽपि सन्निपातकृतानन्तर्ये स्थानिवद्भावशास्त्रेण यत्? कृतमनानन्तर्यं तद्विहन्यादेव कुत्वम्()? इत्यत आह--"स्थानिवद्भावशास्त्रकृतं तु" इत्यादि। किं कारणमविधातकम्()? इत्याह--"वचनसामथ्र्यात्()" इति। यदि स्थानिवद्भावशासतद्रकृतमनानन्तर्य व्यवधायकं बाधकं स्यान्नकारवचनमनर्थकं स्यात्(); निरवकाशत्वात्()। तस्माद्वचनसामथ्र्यान्न विघातकम्()। "यद्यपि" इत्यादिना यौ द्वौ पक्षावुपन्यस्तौ, तत्र द्वितीये पक्षे यो दोषस्तस्य परीहारः। तत्र नकारेण हकारे विशेष्यमाणे यो दोषः स पूर्वमेव परिह्मतः। सम्प्रति तु ञ्णित्प्रत्ययेन हकारे विसेष्यमाणे यो दोषस्तं परिहरति। योऽयं हन्तेरवयवो हकारात्? परोऽकारादिर्नकारान्तः, तेन सर्वत्र ञ्णित्प्रत्ययस्य व्यवधानम्()। अननीयशब्देन तु च्यवधानं सम्भवति, न सम्भवति च तत्र "येन नाव्यवधानं तेन व्यवहितेऽति वचनप्रामाण्यात्()" (व्या।प।४६) इति घातयतीत्यादौ कुत्वं भवति। येन त्वननीयशब्देन व्यवधानं न सम्भवति, सम्भवति च तेन व्यवधाने हननीयक इत्यत्र न भविष्यति। आद्ये तु पक्षे यो दोष उक्तः, स तस्यानभ्युपगमादेवानवसरः। हन्तेः श्तिपा निर्देशो धातुनिर्देशार्थ एव, न यङ्लुग्निवृत्त्यर्थः। तत्र हि "अभ्यासाच्च" ७।३।५५ इति भवितव्यमेव कुत्वेन॥
बाल-मनोरमा
हो हन्तेर्ञ्णिन्नेषु , ७।३।५४

हो हन्तेः। "हः" इति स्थानषष्ठी, "हन्ते"रित्यवयवषष्ठी। ञ् च ण् च ञ्णौ। तौ इतौ ययोस्तौ ञ्णितौ। इच्छब्दः प्रत्येकं सम्बध्यते। ञ्णितौ च नश्च ञ्णिन्नाः, तेष्विति विग्रहः। अङ्गाधिकारात्प्रत्ययत्वं ञ्णितोर्लभ्यते। "चजोः कु घिण्यतो"रित्यतः कुग्रहणमनुवर्तते। तदाह--ञितीत्यादिना। "हन्ते"रिति श्तिपा निर्देशः। हन्धातोरित्यर्थः। प्रकृते हकारस्य नकारपरत्वात्कुत्वम्। तत्र घोषवतो नादवतो महाप्राणस्य संवृतकण्ठस्य हस्य तादृशो वर्गचतुर्थो घकारः। वृत्रघ्नः वृत्रघ्ना इत्यादि सिद्धम्।

तत्त्व-बोधिनी
हो हन्तेर्ञ्णिन्नेषु ३१८, ७।३।५४

हन्तेर्हस्येति। "ञिति" "णिती"त्येतद्धन्तेर्विशेषणम्, "नकारे"इति तु "हस्ये"ति यथासंभवं बोध्यम्। यद्वा ञिण्णिन्नाः सर्वेऽपि ह्यस्यैब विशेषणं। ञिति णितीत्यंशे येन नाव्यवधानन्यायेन द्वाभ्यां व्यवधानं स्वीक्रियते। ते "घातः""घातक"इत्यत्र कुत्वं भवति। इह तु न भवति, हननमात्मन इच्छति हननीयति। हननीयतेर्ण्वुल्--"हननीयक"इति। एतच्च भाष्यकैयटादौ स्पष्टम्।