पूर्वम्: ७।३।५४
अनन्तरम्: ७।३।५६
 
सूत्रम्
अभ्यासाच्च॥ ७।३।५५
काशिका-वृत्तिः
अभ्यासाच् च ७।३।५५

अभ्यासादुत्तरस्य हन्तिहकारस्य कवर्गादेशो भवति। जिघांसति। जङ्घन्यते। अहं जघन। अभ्यासनिमित्ते प्रत्यये हन्तेरङ्गस्य यो ऽभ्यासः तस्मादेव एतत् कुत्वम्। इह न भवति, हननीयितुम् इच्छति जिहननीयिषति।
लघु-सिद्धान्त-कौमुदी
अभ्यासाच्च ५६२, ७।३।५५

अभ्यासात्परस्य हन्तेर्हस्य कुत्वं स्यात्। जघनिथ, जघन्थ। जघ्नथुः। जघ्न। जघ्निव। जघ्निम। हन्ता। हनिष्यति। हन्तु, हतात्। हताम्। घ्नन्तु॥
न्यासः
अभ्यासाच्च। , ७।३।५५

"जिघांसति" इति। सन्(), "अज्झनगमां सनि" ६।४।१६ इति दीर्घः, द्विर्वचनम्, "कुहोश्चुः" ७।४।६२ इति चुत्वम्()--झकारः; "अभ्यासे चर्च" ८।४।५३ इति जश्त्वम्()--जकारः, "सन्यतः" ७।४।७९ इत्तीत्त्वम्()। "जङ्घन्यते" इति। "नुगतोऽनुनासिकान्तस्य" ७।४।८५ इति नुक्()। जघान" इति। उत्तमपुरुषेणलि यदा णित्वं नास्ति तदेदमुदाहरणम्()। णित्त्वपक्षे तु पूर्वेणैव सिद्धम्()। अग्र हननशब्दात्? क्यचि कृते तदन्तात्? सनि जिहननीयिषतीत्यत्र कस्मान्न भवतीति, भवति ह्रवाभ्यासात्? परो हन्तिहकरः? इत्याह--इहाभ्यासनिमित्तप्रत्यये" इत्यादि। इह "हन्तेः" ७।३।५४ इत्यनुवत्र्तते, अङ्गस्येति च। अभ्यासेनाभ्यासनिमित्तं प्रत्ययः सन्निधापितः, तस्य प्रत्ययः विशेषनिमित्तत्वात्(), तत्र तेनाभ्यासनिमित्तेन प्रत्ययेन हन्तेरङ्गं विशिष्यते। "अभ्यासनिमित्ते[अभ्यासनिमित्ते प्रत्येये हन्तेरङ्गस्य--काशिका] प्रत्यये यदङ्गं हन्तिः" इति। तेनाप्येवंविधेन हन्तिनाभ्यासो विशिष्यते। यथोक्तविशेषणविशिष्टस्य हन्तेरङ्गस्य योऽभ्यासः--इत्येवं विशेषणविशेष्यभावे सत्यभ्यासनिमित्ते सनादौ प्रत्यये हन्तेरङ्गस्य योऽभ्यासस्तस्मादेव कुत्वेन भवितव्यम्()। "तेनेह ["तेन" नास्ति--काशिका] न भवति--"जिहननीयिषति" इति। न ह्रतराभ्यासनिमित्ते प्रत्यये सनि हन्तिरङ्गम्(), किं तर्हि? हननीयशब्दः। य()स्मस्तु हन्तिरङ्गम्(), ल्युटि स नाभ्यासनिमित्त्म्()॥
बाल-मनोरमा
अभ्यासाच्च २६१, ७।३।५५

अभ्यासाच्च। "हो हन्ते"रित्यनुवर्तते। "चजोः कु घिण्ण्यतो"रित्यतः कुग्रहणं च। तदाह--अभ्यासात्परस्येत्यादिना। जघनिथ जघन्थेति। इडभावे नस्याऽनुस्वारपरसवर्णौ। जघ्नथुः। जघ्न। जघान--जघन, जघ्निव जघ्निम। लृटि स्ये इण्निषेधमाशङ्क्याह-- ऋद्धनोरिति। हन् हि इति स्थिते "हुझल्भ्यः" इति धित्वे प्राप्ते--।