पूर्वम्: ७।३।५८
अनन्तरम्: ७।३।६०
 
सूत्रम्
न क्वादेः॥ ७।३।५९
काशिका-वृत्तिः
न क्वादेः ७।३।५९

कवर्गादेः धातोः चजोः कवर्गादेशो न भवति। कूजो वर्तते। खर्जः। गर्जः। कूज्यम् भवता। खर्ज्यम्, गर्ज्यम् भवता।
न्यासः
न क्वादेः। , ७।३।५९

"चजोः कु घिण्ण्यतोः" ७।३।५२ इति कुत्वे प्राप्ते प्रतिषेधोऽयमारभ्यते। "कूजः, खजः, गर्जः" इति। "कूज अव्यक्ते शब्दे" (धा।पा।२२३), "खर्ज व्यथने" (धा।पा।२२९) "गर्ज शब्दे" (धा।पा।२२६)॥
बाल-मनोरमा
न क्वादेः ६९५, ७।३।५९

न क्वादेः। कुः आदिर्यस्येति विग्रहः। "चजो कुः" इत्यनुवर्तते। तदाह-- क्वादेरिति। कवर्गादेरित्यर्थः। वार्तिककारस्त्वित। "चजोः कु घिण्ण्यतोः" इति सूत्रे "निष्ठायामनिटः" इति पूरितम्। तथा च निष्ठायां योऽनिट् तद्धात्ववयवयोश्चजोः कुः" स्याद्धिति ण्यति चेत्यर्थः फलति। तथा "न क्वादे"रिति सूत्रम् "अजिव्रज्योश्चे"ति सूत्रं "यजयाचरुचप्रवचर्चश्चे"त्यत्र याचरुचग्रहणं च न कर्तव्यमिति प्रत्याचख्यावित्यर्थः। किं तत इत्यत आह-- तेनेति। सूत्रमते अर्जितर्जिप्रभृतीनां ण्यति कुत्वं स्यात्, "न क्वादेः" इति निषेधस्य तत्राऽप्रवृत्तेरिति भावः। तदेवं सूत्रमतेऽतिव्याप्तिमुक्त्वा अव्याप्तिमाह-- ग्रुचुरग्लुञ्चुप्रभृतीनामिति। तेषां कवर्गादित्वे।ञपि ण्यति ग्रोक्यमित्यादौ कुत्वमिष्टं स्यादेव, वार्तिकमते "न क्वादे"रिति निषेधस्य प्रत्यख्यातत्वात्, सूत्रमते तु "न क्वादे"रिति निषेधात् "ग्रोक्य"मित्यादौ कुत्वमिष्टं स्यादित्यव्याप्तिरित भावः। नन्विदं वार्तिकं विपरीतफलमपि संमतत्वाद्ग्राह्रमेव, विरोधे विकल्पसय् वक्तुं शक्यत्वादिति शङ्कते-- सूत्रमते तु यद्यपीति। परिहरति-- तथापीति। यथोत्तरमिति। अयं वैयकारणसमयः।

तत्त्व-बोधिनी
न क्वादेः ५७६, ७।३।५९

गज्र्यमिति। गर्ज शब्दे "ऋहलो"रिति ण्यति चजोरिति कुत्वे प्राप्तेऽयं निषेधः। कुत्वं स्यादेवेति। "उदितो वे"ति क्त्वायामिड्विकल्पात् "यस्य विभाषे"ति निष्ठायामनिट्()त्वादिति भावः। विपरीतमिति। सूत्रकारमते ग्रुचुग्लुञ्चुप्रभृतीनां "न क्वादे"रिति कुत्वं न भवति,वार्तिकारमते तु निष्ठायामनिट्त्वात् "चजो"रिति कुत्वं भवतीति परस्परविरद्धमित्यर्थः। यथोत्तरमिति। तथाच वार्तिककानुरोधेन कुत्वं स्वीकर्तव्यमिति भावः।