पूर्वम्: ७।३।५
अनन्तरम्: ७।३।७
 
सूत्रम्
न कर्मव्यतिहारे॥ ७।३।६
काशिका-वृत्तिः
न कर्मव्यतिहारे ७।३।६

कर्मव्यतिहारे यदुक्तं तन् न भवति। प्रतिषेधागमयोरयं प्रतिषेधः। व्यावक्रोशी, व्यावलेखी, व्याववर्ती, व्यावहासी वर्तते। कर्मव्यतिहारे णच् स्त्रियाम् ३।३।४३ इति णच्प्रययः, तदन्तात् णचः स्त्रियाम् अञ् ५।४।१४
न्यासः
न कर्मव्यतिहारे। , ७।३।६

"यदुक्तम्()" इति। वृद्धिप्रतिषेधः, ऐजागमश्च। "व्यावक्रोशो" ["व्याक्रोशी" इति मु। पाठः] इत्यादि। "क्रुश आह्वाने" ["आह्वाने रोदने च"--धा।पा।] (धा।पा।८५६), "लिख अक्षरविन्यासे" (दा।पा।१३६५), "चर्च अध्ययने" (धा।पा।१७१२) चुरादिः, "हसे हसने" (धा।पा।७२१)--एभ्यो व्यवपूर्वेभ्यो णच्(), तदन्तादञ्()। अत्र यथोक्ते कार्ये प्रतिषिद्धे वृद्धिरेव भवति, द्वौ प्रतिषेधो प्रकृत्यर्थं गमयत इति कृत्वा। "टिड्ढाणञ्()" ४।१।१५ इति ङीप्()॥
तत्त्व-बोधिनी
न कर्मव्यतिहारे १५३२, ७।३।६

ऐच् नेति। "न य्वाभ्या"मिति प्राप्तस्य निषेधेनादिवृद्धिरेव। णचस्तद्धितत्वाऽभावेऽप्यञस्तद्धितत्वादिति भावः। कृद्ग्रहमपरिभाषया सोपसर्गधातोर्णजन्तत्वात्ततोऽञि तत्प्रयुक्तादिवृद्धिरुपसर्गस्येत्याशयेनोदाहरति-- वयावक्रोशीति। क्रुश आह्वाने, हसे हसने।स्यादेतत्--"स्त्रियां क्ति"न्निति प्रकरण एवायं मज्विधेयः। एवंच स्त्रियामिति न कर्तव्यमिति लाघवमिति चेन्मैवम्। स्त्रियामित्यधिकारे वासरूपविधिनिषेधापत्तेः। इष्यते तु व्यावक्रुष्टिरिति। स्त्रियां क्तिन्नपि अपवादविषये क्वचिदिष्यते-- व्यावचोरी। इह "ण्यासश्रन्थे" ति युच्प्राप्तः। व्यात्यक्षी। अत्र "गुरोश्च हलः" इत्यकारप्रत्ययः प्राप्तः। क्वचिदकार एवेष्यते, न तु णच्। व्यतीक्षा, व्यतीहा। सैषा व्यवस्था न्यायतो दुर्लभाऽपि बाहुलकात्स्वीकार्या।