पूर्वम्: ७।३।७४
अनन्तरम्: ७।३।७६
 
सूत्रम्
ष्ठिवुक्लम्याचमां शिति॥ ७।३।७५
काशिका-वृत्तिः
ष्ठिवुक्लम्याचमां शिति ७।३।७५

ष्थिवु क्लमि आचम् इत्येतेषां दीर्घो भवति शिति परतः। ष्थीवति। क्लमु क्लामति। आचम् आचामति। क्लमिग्रहणम् शबर्थम्। चमेराङ्पूर्वस्य ग्रहणम्। इह मा भूत्, वमति। विचमति।
न्यासः
ष्ठिवुकलभ्याचमां शिति। , ७।३।७५

"ष्ठिवु निरसने" (धा।पा।१११०) "क्लमु ग्लागौ" (धा।पा।१२०७), "चमु छमु जमु झमु अदने" (धा।पा।४६९-४७२) आङ्पूर्वः। "क्लामति" इति "वा भ्राश" ३।१।७० इत्यादिना श्यनोऽभावे शप्()। "क्लमिग्रहणं शवर्थम्()" (इति। न तु श्यनर्थम्(), तत्र पूर्वेणैव सिद्धत्वात्()। "चमेराङ्पूर्वस्य" इत्यादिना केवलस्यान्योपसर्गपूर्वस्य वा मा भूदित्येवमर्थं चमेराङ्पूर्वस्य ग्रहणमिति दर्शयति॥
बाल-मनोरमा
ष्ठिवुक्लमुचमां शिति १६०, ७।३।७५

ष्ठिवुक्लम्वाच। "शमामष्टानां दीर्घः श्यनी"त्यतो दीर्घ इत्यनुवर्तते। दीर्घश्रुत्या अच इत्युपस्थितम्। तदाह---- एषामचो दीर्घ इति। ष्टिवु क्लमु आचम् एषां द्वन्द्वः। आचमित्यनेन आङपूर्वकस्य चमेग्र्रहणम्()। अचमीदिति। "ह्म्यन्ते"ति न वृद्धिः। क्रमु पादेति। उदित्त्वमुदितो वेति विकल्पार्थम्।

तत्त्व-बोधिनी
ष्ठिवुक्लमुचमां शिति १३४, ७।३।७५

ष्ठिवुक्लमु। ष्ठीवति। क्लामति। आङि चम इति। "ष्ठिवुक्लम्वाचमा"मिति वृत्तिकारोक्तपाठोऽयुक्त इति भावः। जिमिं केचिदिति। तथा च जेमनमिति भोजने प्रयुञ्जते।