पूर्वम्: ७।३।७६
अनन्तरम्: ७।३।७८
 
सूत्रम्
इषुगमियमां छः॥ ७।३।७७
काशिका-वृत्तिः
इषुगमियमां छः ७।३।७७

इषु गमि यम इत्येतेषां शिति परतः छकारादेशो भवति। इच्छति। गच्छति। यच्छति। इषेरुदितो ग्रहणम्। इह मा भूत्, इष्यति, इष्णाति इति। ये तु इषिमुदितं न अधीयते ते इह च सूत्रे अचि इति अनुवर्तयन्ति। तच् च प्रधानम् अज्ग्रहणम् शिति इत्यनेन विशेष्यते इति वर्णयन्ति। तथा च सति तदादिविधिर्न भवति। यस्मिन् विधिस् तदादावल्ग्रहणे इत्येतदपि विशेष्णेन एव इस्यते, तेन इषाण इत्यत्र छत्वं न भवति। न ह्ययम् अजेव शितिति।
लघु-सिद्धान्त-कौमुदी
इषुगमियमां छः ५०६, ७।३।७७

एषां छः स्यात् शिति। गच्छति। जगाम॥
न्यासः
इषुगमियमां छः। , ७।३।७७

"इच्छति" इति। "तुदादिभ्यः शः" ३।१।७७। "गच्छति, यच्छति" इति। "कत्र्तरि शप्()" ३।१।६८। अथ किमर्थम्(), "इषु इच्छायाम्()" (धा।पा।१३५१) इत्येतस्योदितो ग्रहणम्()? इत्याह--"इषेः" इत्यादि। "इष गतौ" (धा।पा।११२७) इत्यसय दैवादिकस्येष्यतीत्यत्र मा भूत्()। "इष आभीक्ष्ण्ये" (धा।पा।१५२५) इत्यस्य क्रैयादिकसय इष्णातीत्यत्र मा भूदित्येवमर्थमुकारानुबन्ध इषिरिह गृह्रते। ये तर्हीषिमुदितमिह न पठन्ति, तेषामिष्यति, इष्णातीत्यत्रापि प्राप्नोति? इत्यत आह--"ये त्विषिमुदितम्()" इत्याद। य इषिमुकारानुबन्धविशिष्टमिह न पठन्ति; त इष्यति, इष्णातीत्यत्र च्छत्वं मा भूदित्येवमर्थम्(), "क्सस्याचि" ७।३।७२ इत्यतोऽज्ग्रहणमनुवत्र्तयन्ति। अनुवत्र्तमानेऽप्यस्मिन्? यदि तेन शितीत्येतद्विशिष्यते--शित च्छो भवति, किं विशिष्टे? अजादाविति, तदेष्णातेर्लोट्()सिपो हीत्यादेशे कृते "हलः श्नः शानज्झौ" (३।१।८३) इति श्नाप्रत्ययस्य शानजादेशे कृते सति इषणेत्यत्र "यस्मिन्? विधिस्तदादावल्ग्रहणे" (व्या।प।१२७) इति तदादिविधिना छत्वं स्यादेवेति मन्यमान आह--"तच्च प्रधानमन्ग्रहणं शितीत्यनेन विशिष्यत इति वर्णयन्ति" इति। अचि च्छो भवति स चेच्छिद्भवति। प्राधान्पं पुनरज्ग्रहणस्य विशिष्यमाणत्वादेव। "तथा च सति" इत्यादि। एवमचीत्यस्मिन्? प्रधाने शितीत्यनेन विशिष्यमाणे तदादिविधिर्न भवति। किं कारणम्()? इत्याह--"यस्मिन्? विधिः" इत्यादि। न केवलं "येन वधिस्तदन्तस्य" १।१।७१ इत्येतदेव तदन्तविधानं विशेषणेनेष्यते, अपि तु "यस्मिन्विधिस्तददावल्ग्रहणे" (व्या।प।१२७) इत्येतदेव तदादिविधानं विशेषणेनैवेष्यते। तेन च तदादिविधेरभावादषाणेत्यत्र छत्वं न भवति। असत्यपि तदादिविधौ शानजदेशस्य योऽयमादिराकारस्तत्र शिति परतश्छत्वं कस्मान्न भवति? इत्याह--"न ह्रयम्()" इत्यादि। शकारः समुदायानुबन्धः, नाकारस्याचः। तस्मान्नाजेव शित्(), अपि तु समुदाय एवेति न भवति च्छत्वम्()॥
बाल-मनोरमा
इषुगमियमां छः २३५, ७।३।७७

इषुगमि। शितीति। "ष्ठिवुक्लमुचमा"मित्यतस्तदनुवृत्तेरिति भावः। उदिन्निर्देशात्तौदादिकस्य इषेग्र्रहणम्। अत्राऽचीत्यनिवर्त्त्य अजादौ शितीत्याश्रित्य इष्यति इष्णाति इत्यत्र छत्वं नेति भाष्ये स्थितम्। एवं चात्र सूत्रे, तुदादौ च उदित्पाठोऽनार्ष इति शब्देन्दुशेखरे स्थितम्। गच्छतीति। शपि मकारस्य छकारः। जग्मतुरिति। "गमहने"त्युपधालोपः। एवं जग्मुः। भारद्वाजनियमात्थलि वेट्। तदाह--जगमिथ जगन्थेति। जग्मथुः जग्म। जगाम-- जगम जग्मिव जग्मिम। क्रादिनियमादिट्।

तत्त्व-बोधिनी
इषुगमियमां छः २०६, ७।३।७७

जग्मतुरिति। "गमहने"त्युपधालोपः।