पूर्वम्: ७।३।७८
अनन्तरम्: ७।३।८०
 
सूत्रम्
ज्ञाजनोर्जा॥ ७।३।७९
काशिका-वृत्तिः
ज्ञाजनोर् जा ७।३।७९

ज्ञ जन इत्येतयोः जादेशो भवति शिति परतः। जानाति। जायते। जनेर् दैवादिकस्य ग्रहणम्।
लघु-सिद्धान्त-कौमुदी
ज्ञाजनोर्जा ६४२, ७।३।७९

अनयोर्जादेशः स्याच्छिति। जायते। जज्ञे। जनिता। जनिष्यते॥
न्यासः
ज्ञाजनोर्जा। , ७।३।७९

"जनेर्देवादकसय ग्रहणम्()" इति। द्वौ जनी--दैवादिकः "जनी प्रादुर्भावे" (धा।पा।११४९), जौहोत्यादिकः "जन जनने" (धा।पा।११०५) इति। तत्रैह दैवादिकस्य ग्रहणम्(), नेतरस्य। न हि ततः परः शित्? सम्भवति, श्लुविधानात्()। दीर्घोच्चारणस्य प्रयोजनमुत्तरत्र वक्ष्यति॥
बाल-मनोरमा
ज्ञाजनोर्जा ३४०, ७।३।७९

ज्ञाजनोर्जा। शितीति। "ष्ठिवुक्लमुचमा"मित्यतस्तदनुवृत्तेरिति भावः। जायते इति। ज्ञाधातोस्तुश्नविकरणत्वाज्जानातीत्युदाहरणम्। उभयत्रापि जादेशस्य ह्यस्वान्तत्वे "अङ्गकार्ये कृते पुनर्नाङ्गकार्य"मिति परिभाषया "अतो दीर्घो यञी" त्यप्रप्तर्जार्देशस्य दीर्घान्तत्वमाश्रितम्। जज्ञे इति। "गमहने"त्युपधालोपे नस्य श्चुत्वेन ञः। जायेत।जनिषीष्ट। लुङि अजन् त इति स्थिते आह-- दीपेति। वा चिणिति। "च्ले"रिति शेषः। अजन् इ त इति स्थिते उपधावृद्धौ प्राप्तायाम्--

तत्त्व-बोधिनी
ज्ञाजनोर्जा २९७, ७।३।७९

ज्ञाजनोर्जा। जानाति। शिति किम्?। ज्ञाता। "ज" इति ह्यस्वोच्चारणेऽपि "अतो दीर्घोयञी"ति दीर्घे सिद्धे जाग्रहणमङ्गवृत्तपरिभाषाज्ञापनार्थम्। तेन पाधातोः पिबादेशे कृते गुणो न भवति, पिबादेशस्याऽदन्तत्वाश्रयणं तूपायान्तरमित्याहुः।