पूर्वम्: ७।३।७९
अनन्तरम्: ७।३।८१
 
सूत्रम्
प्वादीनां ह्रस्वः॥ ७।३।८०
काशिका-वृत्तिः
प्वादीनां ह्रस्वः ७।३।८०

पू इत्येवम् आदीनां ह्रस्वो भवति शिति परतः। प्वादयः क्र्यादिषु पठ्यन्ते। पूञ् पवनित्यतः प्रभृति प्ली गतौ वृतिति यावत् केचितिच्छन्ति, वृत्करणम् एतत् ल्वादीनां प्वादीनां च परिसमाप्त्यर्थम् इति। अपरे तु ल्वादीनाम् एव परिसमाप्त्यर्थं वृत्करणम् एतदिच्छन्ति, आगणान्ताः प्वादयः इति। पूञ् पुनाति। लूञ् लुनाति। स्तृ̄ञ् स्तृणाति। येषाम् आगणान्ताः प्वादयः तेषां जानाति इत्यत्र ह्रस्वः प्राप्नोति, ज्ञाजनोर् जा ७।३।७९ इति दीर्घकरणसामर्थ्यान् न भवति। जनेरपि हि जादेशे सति अतो दीर्घो यञि ७।३।१०१ इति दीर्घत्वेन जायते इति सिध्यति।
लघु-सिद्धान्त-कौमुदी
प्वादीनां ह्रस्वः ६९३, ७।३।८०

पूञ् लूञ् स्तॄञ् कॄञ् वॄञ् धूञ् शॄ पॄ वॄ भॄ मॄ दॄ जॄ झॄ धॄ नॄ कॄ ॠ गॄ ज्या री ली व्ली प्लीनां चतुर्विंशतेः शिति ह्रस्वः। पुनाति, पुनीते। पविता॥ लूञ् छेदने॥ १२॥ लुनाति, लुनीते॥ स्तॄञ् आच्छादने॥ १३॥ स्तृणाति। शर्पूर्वाः खयः। तस्तार। तस्तरतुः। तस्तरे। स्तरीता। स्तरिता। स्तृणीयात्, स्तृणीत। स्तीर्यात्॥
न्यासः
प्वादीनां ह्वस्वः। , ७।३।८०

"व्ली गतौ वृदिति यावत्? केचिदिच्छन्ति" इति। तेषां ततः परेण पठितयोः "व्री वरणे" (धा।पा।१५०४), "भ्री भये" (धा।पा।१५०५)--इत्येतयोह्र्यस्वत्वेन न भवितव्यम्()--व्रीणाति, भ्रीणातीति। ननु ल्वादीनां परिसमाप्त्यर्थं तद्()वृत्करणम्(), अन्यथा आ गणान्तात्? तेभ्यो निष्ठानत्वं स्यात्(), ल्वादिपरिसमाप्त्यर्थे च तस्मिन्नागणान्ताः प्वादयो युक्ताः? इत्यत आह--"वृत्करणम्()" इत्यादि। न ह्रुभयगणपरिसमाप्त्यर्थता केनचिद्विरुध्यत इत्यभिप्रायः। "अपरे" इत्यादि। ल्वादेर्गणस्यानन्तरत्वात्? तत्परिसमाप्त्यर्थतैव वृत्करणस्य युक्तेति भावः। तेषामेवमिच्छतां व्री वरणे, भ्रो भये--इत्येतयोरपि भवितव्यं ह्यसवत्वेन व्रिणाति, भ्रिणातोति; प्वादिषूभयोरन्तर्भावात्()। "जानातीत्यत्र ह्यस्वः प्राप्नोति" इति। तल्याप प्वाद्यन्तर्भावादित्याह--"ज्ञाजनोर्जा" इत्यादि। यदि "जा" इत्यादेशे कृते ह्यसवः स्यात्? तदा दीर्घोच्चारणमनर्थकं स्यात्(), "ज" इत्येवं ब्राऊयात्()। तस्मात्? दीर्घोच्चारणसामथ्र्यज्जानातीत्यत्र ह्यस्वो न भविष्यति। ननु च दीर्घोच्चारणं जन्यर्थं स्यात्(), न हि जनेर्ज इत्यादेशे कृते जायत इति रूपं सिध्यति? इत्यत आह--"ज इत्यपि ह्रादेशे कृते" इत्यादि। येषान्तूभयगणपरिसमाप्त्यर्थं वृत्करणं तेषां किमर्थं जा इति दीर्घोच्चारणम्()? जानातीत्यत्र दीर्घो यथा स्यात्()? नैतदस्ति; "अतो दीर्घो यञि" (७।३।१०१) इति दीर्घो भविष्यति? ननु च "अङ्गवृत्ते पुनर्वृत्तावविधिर्निष्ठितस्य" (व्या।प।३८) इति न प्राप्नोति? नैतदस्ति; "निष्ठितस्य" इत्युच्यते, न च ज इत्यादेशे कृते निष्ठितमङ्गं भवति; अप्रयोगार्हत्वात्()। प्रतिपत्तिलाघवार्थं दीर्घोच्चारणम्()॥
बाल-मनोरमा
प्वादीनां ह्यस्वः ३८५, ७।३।८०

प्वादीनां ह्यस्वः। "ष्ठिवुकलमुचमा"मित्यः शितीत्यनुवर्तत इत्यभिप्रेत्य शेषं पूरयति-- शिति परे इति। पवितेति। ऊकारान्तत्वात्सेडिति भावः। स्तृ()ञ् आच्छादने। सेट्। तस्तरतुरिति। कित्त्वेऽपि "ऋच्छत्यृ()ता"मिति गुणः। स्तरिता स्तरीतेति। "वृ()तो वा इति दीर्घविकल्पः। आशिषि स्तीर्यादिति। "ॠत इद्धातो"रिति इतत्वे रपरत्वे "हलि चे"ति दीर्घः। स्तृ? - षीष्ट इति स्थिते आह -- लिङ्()सिचोरिति वेडिति। "वृ()तो वा" इति दीर्घविकल्पनिषेधसूत्रं स्मारयति - न लिङीति। वृ()त इटो दीर्घो नेत्यर्थः। इडभावपक्षे स्तृ()षीष्टेत्यत्र गुणमाशङ्क्याह-- उश्चेति कित्त्वमिति। लुङि परस्मैपद सिचि अस्तरिष्टामित्यत्र "वृ()तो वे"ति इटो दीर्घविकल्पे प्राप्ते आह -- सिचि चेति। अस्तरीष्ट अस्तरिष्टेति। "वृ()तो वे"ति दीर्घः। अस्तीष्र्टति। "लिङ्सिचो"रिति इडभावपक्षे ऋत इत्त्वे "हलि चे"ति दीर्घ इति भावः। कृ()ञ् हिंसायाम्।चकरे इति। "ऋच्छत्यतृ()ता"मितिगुणः। वृ()र()ञ् वरणे इति। आशिषीति। वृ? यात् इति स्थिते "उदोष्ठ()पूर्वस्ये"ति ऋकारस्य उत्त्वमित्यर्थः, तत्र दन्त्योष्ठ()पूर्वस्यापि ग्रहणादिति बावः। ॠत उत्त्वे रपरत्वे "हलि चे"ति दीर्घ इति बोद्ध्यम्। वरिषीष्ट पूर्षीष्टेति। "लिङ्सिचो"रिति वेट्। इडभावे "उश्चे"ति कित्त्वाद्गुणाऽभावे उत्त्वे रपरत्वे "हलि चे"ति दीर्घ इति भावः। अवारिष्टामिति। "सिचि चे"ति इटो न दीर्घ इति भावः। अवरिष्ट अवरीष्टेति। "वृ()तो वा"इति सिच इटो दीर्घविकल्प इति भावः। दुधविथ-- दुधीथेति। "स्वरतिसूतिसूयतिधूञूदितः"इति वेडेति भावः। श हिंसायाम्। सेट्। णलि -- शशार। श अतुस् इत्यत्र कित्त्वेऽपि "ऋच्छत्यृ()ता"मिति नित्ये गुणे प्राप्ते आह--शृ()दृ()प्रामिति। गुणाऽपवादे पाक्,िके ह्यस्वे कृते ऋकारस्य यणि रेफ इत्यर्थः। शशरिथ। पृ()धातुरपि शृ()धातुवत्। आशिषि पूर्यादिति। "उदोष्ठ()ऊपूर्वस्ये"त्युत्त्वमिति भावः। दृ? विदारणे। "शृ()दृ()प्रा"मिति हस्र्वविकल्पं मत्वाह -- ददरतुः दद्रतुरिति। ऋ गतौ। अरांचकारेति। व्यपदेशिवत्त्वेन गुरुमत्त्वादाम्। लङ्याह -- आर्णादिति। ज्या वयोहानौ। अनिट्। ज्या ना तीति स्थिते "ग्रहिज्ये" ति संप्रसारणे पूर्वरूपे च जिनातीति स्थिते--

तत्त्व-बोधिनी
प्वादीनां ह्यस्वः ३३६, ७।३।८०

प्वादीनां ह्यस्वः। "ष्ठिवुक्लमुचमा"मित्यतः शितीत्यनुवर्तत इत्याह-- शिति पर इति। न लिङीति। अनेन वृ()त इटो लिङि दीर्घो नेति स्मारितम्। उदोष्ठ()। दन्तोष्ठ()ओऽपि ओष्ठ()ग्रहणेन गृह्रत इत्याह-- वूर्यादिति। वरिषीष्टेति। "लिङ्सिचोरात्मनेपदेषु" इति वेट्। वूर्षीष्ट। अवूर्ष्टेति। "उश्चे"ति लिङ्सिचोः कित्त्वाद्गुणाऽभावे सत्युत्वम्।