पूर्वम्: ७।३।८२
अनन्तरम्: ७।३।८४
 
सूत्रम्
जुसि च॥ ७।३।८३
काशिका-वृत्तिः
जुसि च ७।३।८३

जुसि च प्रत्यये परतः इगन्तस्य अङ्गस्य गुणो भवति। अजुहवुः। अबिभयुः। अबिभरुः। अथ चिनुयुः, सुनुयुः इत्यत्र कस्मान् न भवति? अत्र हि द्वे ङित्त्वे, सार्वधातुकाश्रयम्, यासुडाश्रयं च। तत्र न अप्राप्ते सार्वधातुकाश्रयङित्त्वनिमित्ते प्रतिषेधे जुसि गुणः आरभ्यमाणः तम् एव बाधते। यासुडाश्रयङित्त्वनिमित्तं तु न बाधते, तत्र हि प्राप्ते च अप्राप्ते च आरभ्यते इति।
लघु-सिद्धान्त-कौमुदी
जुसि च ६११, ७।३।८३

इगन्ताङ्गस्य गुणोऽजादौ जुसि। अजुहवुः। जुहुयात्। हूयात्। अहौषीत्। अहोष्यत्॥ ञिभी भये॥ २॥ बिभेति॥
न्यासः
जुसि च। , ७।३।८३

इकात्र सन्निहितेन प्रकृतमङ्गं विशिष्यते, विशेषणेन तदन्तविधिर्भवतीत्यत आह--"इगन्तस्य" इत्यादि। "अजुहवुः" इति। लङ्(), "सिजभ्यस्तविदभ्यश्च" ३।४।१०९ इति झेर्जुस्(), शपः श्लुः, "श्लौ" ६।१।१० इति द्विर्वचनम्()। "अबिभयुः" इति। "ञिभो भये" (धा।पा।१०८४)। "अबिभरुः" इति। "डु भृञ्? धारणपोषणयोः" (धा।पा।१०८७), "भुञामित्()" ७।४।७६ इत्यभ्यासस्येत्त्वम्()। "चिनुयुः सुनुयुः" इति। लिङ्(), यासुट्? झेर्जुस्(), "स्वादिभ्यः श्नुः" ३।१।७३ "उस्यपदान्तात्()" ६।१।९३ इति पररूपत्वाम्()। "तत्र नाप्राप्ते" इत्यादि। सार्वाधातुकमाश्रयो यस्यतत्? सार्वधातुकाश्रयम्()। ङित्त्वं निमित्तं यस्य प्रतिषेधस्य स तथोक्तः। स सर्वत्रैव जुसि प्राप्नोतीति तस्मिन्नाप्राप्तेऽयं गुण आरभ्यमाणस्तस्यैव बाधको भविष्यति; न तु यस्य यासुडाश्रयं ङित्त्वं निमित्तम्(), तस्यापि। अत्र हि प्राप्ते चाप्राप्तेऽयमारभ्यते। चिनुयुरित्यादौ प्राप्ते, अजुहवुरित्यादावप्राप्ते। चकारः समुच्चये। नान्यत्? समुच्चेतव्यमस्तीत्यस्यैव लक्षणस्य पुनरावृत्तिमाचष्टे। तेन प्रकृतलक्षणस्यापि प्रतिषेधविषये भवति। "अदीधयुः" इति। "दीधीङ्? दीप्तिदेवनयोः" (धा।पा।१०७६), लङ्? व्यत्ययेन परस्मैपदम्(), झिः, "जक्षित्यादयः षट्()" ६।१।६ इत्यभ्यस्तसंज्ञा, "सिजभ्यस्तविदिभ्यश्च" ३।४।१०९ इति झेर्जुस्(), अदादित्वाच्छपो लुक्()। ततः "सार्वधातुकार्धधातुकयोः" ७।३।८४ इति गुणः प्राप्तः, स "क्ङिति च" १।१।५ इति प्रतिषिद्धः, सोऽप्यनेन पुनः प्राप्तौ "दीधीवेवीटाम्()" १।१।६ इति प्रतिषिद्धः समुच्चयार्थत्वाच्चकारस्य भवति॥
बाल-मनोरमा
जुसि च ३११, ७।३।८३

जुसि च। अङ्गस्येत्यधिकृतम्। "मिदेर्गुण" इत्यतो गुण इत्यनुवर्तते। "इको गुणवृद्धी" इति परिभाषया "इक" इत्युपस्थितेन अङ्गस्य विशेषणात्तदन्तविधिः। "क्सस्याची"इत्यतोऽनुवृत्तेन अचीत्यनेन जुसीत्यस्य विशेषणात्तदादिविधिः। तदाह-- अजादावित्यादिना। अजगरुरिति। अजागः अजागृतम् अजागृत। अजागरम् अजागृव अजागृम। विधिलिङि यासुटो ङित्त्वान्न गुणः। जागृयात् जागृयताम्। जागृयुरिति। "जुसि चे"त्यत्र अजादावित्युक्तेर्न गुण इति भावः। जागृधातोर्लुङि सिचि इटि यणादिप्राप्तिक्रमं दर्शयति-- जागृ इसित्यत्रेति। तत्र कृते इति। "जाग्रोऽविचिण्ण"लिति गुणे रपरत्वे कृते अजागर् ईदिति स्थिते सतीत्यर्थः। तदाहुरिति। "वृद्धा" इति शेषः। अजागरिष्टाम् अजागरिषुरित्यादि सुगमम्। दरिद्राधातुरादन्तः सेट्। दुर्गतिः = धनहीनीभवनम्। दारिद्रातीति। धनहीनीभवतीत्यर्थः।

तत्त्व-बोधिनी
जुसि च २७१, ७।३।८३

जुसि च। चकारः स्पष्टप्रतिपत्त्यर्थः। "क्सस्याची"त्यतोऽत्यतोऽचीत्यनुवर्तत इत्याह-- अजादाविति। जागृयुरिति। एवं श्रृणुयुः चिनुयुरित्यादावपि गुणो नेति बोध्यम्। "यासुटो ङित्तवाच्छृणुयुरित्यादौ गुणो ने"ति प्राचोक्तिस्तु मनोरमायां दूषिता, "जुसि चे"ति गुणस्य निषेधापवादत्वादिति। केचित्तु--"जुसि चे"त्यत्र उसीत्यावर्त्त्य "उरुआऊपे जुसी"ति व्याख्यानान्नोक्तदोष इत्याहुः। "अजादौ जुसी"ति समाधानं तु भाष्यारूढम्। जागर्तेः सिच इटि कृते यणादिप्राप्तिक्रमं दर्शयति-- जागृ- इसित्यत्रेति।तत्र कृते इति। हलन्तलक्षणाया वृद्धेर्जागर्तिगुणेन बाधः, तेन गुणेनहलन्तत्वसंपादनात्। या हि गुणप्रवृत्तिसमये वृद्धिः सा बाध्यते नान्येति भावः। अजागरिष्टाम्। अजागरिषुः। अजागरीदित्यादि। दरिद्रा।